SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ कतिपयानि विशिष्टानि टिप्पनानि । प्रतिदिवसमेकैकं पञ्चदशभागं प्रकटीकरोति, तेन जगति चन्द्रमण्डलवृद्धिहानी प्रतिभासेते, स्वरूपत: पनश्चन्द्रमण्डलमवस्थितमेव । तथा चाह- एवं वडइ इत्यादि, एवं राहुविमानेन प्रतिदिवसं क्रमेणानावरणकरणतो वर्धते वर्धमानः प्रतिभासते चन्द्रः, एवं राहविमानेन प्रतिदिवसं क्रमेणावरणकरणत: प्रतिहानिः प्रतिहानिप्रतिभासो भवति चन्द्रस्य विषये, एतेनैवानुभावेन कारणेन एकः पक्ष: काल: 5 कृष्णो भवति. यत्र चन्द्रस्य परिहाणिः प्रतिभासते, एकस्तु ज्योत्स्न: शुक्लो यत्र चन्द्रविषयो वृद्धिप्रतिभासः ।" इति सूर्यप्रज्ञप्ते: एकोनविंशतितमे प्राभृते १०० तमसूत्रस्य मलयगिरिसूरिविरचितायां वृत्तौ । [पृ०१५२ पं०१८] “इह द्विविधो राहुस्तद्यथा-पर्वराहुर्नित्यराहुश्च, तत्र पर्वराहुः स उच्यते यः कदाचिदकस्मात् समागत्य निजविमानेन चन्द्रविमानं सूर्यविमानं वाऽन्तरितं करोति, अन्तरिते 10 च कृते लोक ग्रहणमिति प्रसिद्धिः, स इह न गृह्यते, यस्तु नित्यराहुस्तस्य विमानं कृष्णं तथाजगत्स्वाभाव्याच्चन्द्रेण सह नित्यं' सर्वकालमविरहितं तथा 'चउरंगुलेन' चतुरङ्गुलैरप्राप्तं सत् चन्द्रस्य चन्द्रविमानस्याधस्ताच्चरति, तच्चैवं चरत् शुक्लपक्षे शनैः शनैः प्रकटीकरोति चन्द्रमसं कृष्णपक्ष च शनैः शनैरावृणोति, तथा चाह- इह द्वाषष्टिभागीकृतस्य चन्द्रविमानस्य द्वौ भागावुपरितनौ सदाऽनावार्यस्वभावत्वाद् अपाकृत्य शेषस्य पञ्चदशभिर्भागे हृते ये चत्वारो भागा लभ्यन्ते ते 15 द्वाषष्टिशब्दनोच्यन्ते. अवयवे समुदायोपचारात्, एतच्च व्याख्यानमेतस्यैव चूर्णिमुपजीव्य कृतं न स्वमनीषिकया, तथा च तद्ग्रन्थ:- ‘चन्द्रविमानं द्वाषष्टिभागीक्रियते, ततः पञ्चदशभिर्भागोऽपह्रियते, तत्र चत्वारो भागा द्वाषष्टिभागानां पञ्चदशभागेन लभ्यन्ते शेषौ द्वौ, एतावद् दिने दिने शुक्लपक्षस्य राहुणा मुच्यत' इति, एवं च सति यत्समवायाङ्गसूत्रम्- “सुक्कपक्खस्स दिवसे दिवसे बावट्टि बावटि भागे परिवड्डइ” इति, तदप्येवमेव व्याख्येयम्, संप्रदायवशाद्धि सूत्रं व्याख्येयम्, न 20 स्वमनीषिकया. अन्यथा महदाशातमाप्रसक्तेः, संप्रदायश्च यथोक्तस्वरूप इति, तत्र शुक्लपक्षस्य दिवसे यद् यस्मात् कारणाच्चन्द्रो द्वाषष्टिद्वाषष्टिभागान् द्वाषष्टिभागसत्कान् चतुरश्चतुरो भागान् यावत् परिवर्द्रते, कालेन कृष्णपक्षण पुनर्दिवसे २ तानेव द्वाषष्टिभागसत्कान् चतुरश्चतुरो भागान् ‘प्रक्षपयति' परिहापयति, एतदेव व्याचष्टे- कृष्णपक्षे प्रतिदिवस राहुविमानं स्वकीयेन पञ्चदशेन भागेन तं ‘चन्द्र' चन्द्रविमानं पञ्चदशमेव भागं वृणोति' आच्छादयति, शुक्लपक्षे पुनस्तमेव प्रतिदिवसं 25 पञ्चदशभागमात्मीयेन पञ्चदशेन भागेन ‘व्यतिक्रामति' मुञ्चति, किमुक्तं भवति ? कृष्णपक्षे प्रतिपद आरभ्यात्मीयेन पञ्चदशेन पञ्चदशेन भागेन प्रतिदिवसमेकैकं पञ्चदशभागमुपरितन-भागादारभ्यावृणोति, शुक्लपक्षे तु प्रतिपद आरभ्य तेनैव क्रमेण प्रतिदिवसमेकैकं पञ्चदशभागं प्रकटीकरोति, तेन जगति चन्द्रमण्डलस्य वृद्धिहानी प्रतिभासेते, स्वरूपतः पुनश्चन्द्रमण्डलमवस्थितमेव, तथा चाह- एवं राहविमानेन प्रतिदिवसं क्रमेणानावरणकरणतो 'वर्द्धते' वर्द्धमानः प्रतिभासते चन्द्रः' इति 30 जीवाभिगमसूत्रस्य तृतीयायां प्रतिपत्तौ द्वितीये उद्देशके मलयगिरिविरचितायां वृत्तौ ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy