SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ १४ द्वितीयं परिशिष्टम् । ७००००। अस्य वर्गे जातः चतुष्कः नवकः शून्यान्यष्टौ ४९०००००००० । एष राशिभूयः षड्भिर्गुण्यते, जातः द्विक: नवकः चतुष्कः अष्टौ च शून्यानि २९४०००००००० । एतत् प्रागुक्ते हैमवतवर्षजीवावर्गे पञ्चकः एककः द्विकः चतुष्कः अष्टौ शून्यानि ५१२४०००००००० इत्येवंपरिमाणे प्रक्षिप्यते, जातः पञ्चकः चतुष्क एकक: अष्टक: अष्टौ शून्यानि ५४१८०००००००० । अस्य वर्गमूलानयने लब्धः सप्तकः त्रिकः षट्कः शून्यं सप्तकः शून्यम् ७३६०७० । शेषमुद्धरितं नवक: 5 पञ्चकः पञ्चकः एककः शून्यं शून्यम् ९५५१०० । छेदराशिरेककः चतुष्कः सप्तकः द्विकः एककः चतुष्कः शून्यम् १४७२१४०। वर्गमूललब्धः कलाराशिरेकोनविंशत्या योजनकरणाय भज्यते, लब्धानि योजनानामष्टात्रिंशत्सहस्राणि सप्त शतानि चत्वारिंशदधिकानि योजनानां कलाः दश ३८७४० क० १० ॥ तथा सप्तषष्टिशतानि पञ्चपञ्चाशानि पञ्चपञ्चाशदधिकानि योजनानां कलास्तिस्रः ६७५८ क० ३ हैमवतवर्षस्य बाहा । तथाहि- महतो धनुःपृष्ठात् हैमवतवर्षसत्कात् अष्टात्रिंशत्सहस्राणि 10 सप्त शतानि चत्वारिंशदधिकानि योजनानां कला दश ३८७४० क० १० इत्येवंपरिमाणात् डहरकं धनु:पृष्ठं क्षलहिमवतः संबन्धि पञ्चविंशतिसहस्राणि द्वे शते त्रिंशदधिके कलाश्चतस्रः २५२३० क० ४ इत्येवंप्रमाणं शोध्यते, शोधिते च सति तस्मिन जातं शेषमिदम- एककः त्रिकः पञ्चक: एकक: शन्यं १३५१० कलाश्च षट ६ । अस्यार्धे लब्धानि योजनानां सप्तषष्टिशतानि पञ्चपञ्चाशदधिकानि तिस्रः कला: ६७५५ क० ३ ।।५५।। 15 - [पं०१८] “सम्प्रति मेरो: काण्डादिवक्तव्यतामाह- मेरुस्स तिन्नि कंडा, पुढवोवलवइरसक्करा पढमे । रयए य जायरूवे, अंके फलिहे य बीयम्मि ॥३१२।। एगागारं तइयं, तं पुण जंबूणयामयं होइ । जोयणसहस्स पढम, बाहल्लेणं च बीयं तु ॥३१३॥ तेवट्ठि सहस्साइं, तइयं छत्तीस जोणसहस्सा । व्या० मेरो: पर्वतस्य त्रीणि काण्डानि, काण्डं नाम विशिष्टपरिमाणानुगतो विच्छेदः, तत्र प्रथमे काण्डे पृथिव्युपलवज्रशर्कराः, किमुक्तं भवति ? प्रथमं काण्डं क्वचित्पृथिवीबहुलम्, 20 क्वचिदुपलबहुलम्, क्वचिद्वज्रबहुलम्, क्वचिच्छर्कराबहुलम् । तथा द्वितीयकाण्डे रजतम्, जातरूपम्, अङ्करत्नानि, स्फटिकरत्नानि च, अत्रापीयं भावना- द्वितीयं काण्डं क्वचिद्रजतबहुलम्, क्वचिज्जातरूपबहुलम्, क्वचिदङ्करत्नबहुलम्, क्वचित्स्फटिकरत्नबहुलम् । तृतीयं पुनरेकाकारम्, तच्च सर्वात्मना जाम्बूनदमयम् । उक्तं च- “मंदरस्स णं भंते पव्वयस्स कइ कंडा पन्नत्ता ? गोयमा ! तिन्नि कंडा पन्नत्ता. तंजहा- हेदिले कंडे मज्झिले कंडे उवरिमे कंडे | मंदरस्स ण भते पव्वयस्स 25 हिट्टिल्ले कंडे कइविहे पन्नत्ते ? गोयमा ! चउविहे पन्नत्ते, तंजहा- पुढवी उवले वइरे सक्करा । मंदरस्स णं भंते ! पव्वयस्स मज्झिल्ले कंडे कइविहे पन्नत्ते ? गोयमा ! चउविहे पन्नत्ते, तंजहाअंके फलिहे रयए जायरूवे । मंदरस्स णं भंते ! पव्वयस्स उवरिमे कंडे कइविहे पन्नत्ते ? गोयमा ! एगागारे पन्नत्ते, तंजहा- सव्वजंबूणयामए'' [ ] । तत्र प्रथम काण्डं बाहल्येन योजनसहस्रं योजनसहस्रपरिमाणम्, तच्च भूमाववगाढम्, द्वितीयं तु त्रिषष्टिसहस्राणि, तच्च समतलभूभागादारभ्य 30
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy