SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ कतिपयानि विशिष्टानि टिप्पनानि । अनुविचिन्त्य-पर्यालोच्य भाषेत, अन्यथाऽनृतमपि ब्रूयात्, द्वितीयभावना, य: क्रोधं लोभं भयमेव वा त्यजेत्, स इत्थम्भूतो दीर्घरात्रं-मोक्षं समुपेक्ष्य-सामीप्येन (द्रष्टा) दृष्ट्वा 'सिया' स्यात् मुनिरेव मृषां परिवर्जेत सदा, क्रोधादिभ्योऽनृतभाषणादिति भावनात्रयम्, गता द्वितीयव्रतभावनाः । तृतीयव्रतभावनाः प्रोच्यन्ते- 'स्वयमेव' आत्मनेव प्रभुं प्रभुसंदिष्टं वाऽधिकृत्य अवग्रहयाच्चायां प्रवर्तते अनुविचिन्त्य, 5 अन्यथाऽदत्तं गृह्णीयात्, प्रथमभावना, घडे मइमं निसम्मत्ति तत्रैव तृणाद्यनुज्ञापनायां चेष्टेत मतिमान निशम्य आकर्ण्य प्रतिग्रहदातृवचनम्, अन्यथा तददत्तं गृह्णीयात्, परिभोग इति द्वितीया भावना, 'सइ भिक्खु उग्गह'ति सदा भिक्षुरवग्रहं स्पष्टमर्यादयाऽनुज्ञाप्य भजेत, अन्यथाऽदत्तं संगृह्णीयात्, तृतीया भावना, अनुज्ञाप्य गरुमन्य वा भञ्जीत पानभाजनम. अन्यथाऽदत्तं गलीयात. चती भावना. याचित्वा साधर्मिकाणामवग्रहं स्थानादि कार्यम्, अन्यथा तृतीयव्रतविराधने ति पञ्चमी भावना, 10 उक्तास्तृतीयव्रतभावनाः। साम्प्रतं चतुर्थव्रतभावना: प्रोच्यन्ते– ‘आहारगुत्तेत्ति आहारगुप्तः स्यात्. नातिमात्रं स्निग्धं वा भुञ्जीत, अन्यथा ब्रह्मव्रतविराधकः स्यात्, प्रथमा भावना, अविभूषितात्मा स्याद्विभूषां न कुर्याद्, अन्यथा ब्रह्मव्रतविराधक: स्यात्. द्वितीया भावना, स्त्रियं न निरीक्षेत तव्यतिरेकादिन्द्रियाणि नाऽऽलोकयेद्, अन्यथा ब्रह्मव्रतविराधकः स्यात्, तृतीया भावना, न संथवेज्ज'त्ति न स्त्र्यादिसंसक्ता वसति सेवेत, अन्यथा ब्रह्मविराधकः स्यात्, चतुर्थी भावना, बुद्धः अवगततत्त्व: 15 मुनि: साधुः क्षुद्रकथां न कुर्यात् स्त्रीकथां स्त्रीणां वेति, अन्यथा ब्रह्मविराधक: स्यात्, पञ्चमी भावना. 'धम्म(धम्माणु)पेही संधए बंभचेर'ति निगदसिद्धम्, उक्ताश्चतुर्थव्रतभावनाः । पञ्चमव्रतभावनाः प्रोच्यन्तेय: शब्दरूपरसगन्धानागतान्, प्राकृतशैल्याऽलाक्षणिकोऽनुस्वारः, स्पर्शाश्च संप्राप्य मनोज्ञ-पापकान् इष्टानिष्टानित्यर्थः, गृद्धिम् अभिष्वङ्गलक्षणाम्, प्रद्वेषः प्रकटस्तं न कुर्यात् पण्डितः, स भवति दान्तो विरताऽकिञ्चन इति, अन्यथाऽभिष्वङ्गादेः पञ्चममहाव्रतविराधना स्यात्, पञ्चापि भावनाः, उक्ताः 20 पञ्चमहाव्रतभावनाः, अथवाऽसम्मोहार्थं यथाक्रमं प्रकटार्थाभिरेव भाष्यगाथाभिः प्रोच्यन्ते– “पणवीस भावणाओ पंचण्ह महव्वयाणमेयाओ । भणियाओ जिणगणहरपुजेहि नवर सुत्तम्मि ।।१।। इरियासमिइ पढमा आलोइयभत्तपाणभोई य । आयाणभंडनिक्खेवणा य समिई भवे तइया ।।२।। मणसमिई वयसमिई पाणइवायम्मि होति पंचेव । हासपरिहारअणुवीइभासणा कोहलोहभयपरिण्णा ।।३।। एस मुसावायस्स अदिन्नदाणस्स होतिमा पंच । पहुसंदिट्ट पहू वा पढमोग्गह जाएँ अणुवीई ।।४।। उग्गहणसील बिइया 25 तत्थोग्गण्हेज उग्गहं जहियं । तणडगलमल्लगाई अणुण्णवेज्जा तहिं तहियं ।।५।। तच्चम्मि उग्गहं तू अणुण्णवे सारि उग्गहे जा उ । तावइय मेर काउं न कप्पई बाहिरा तस्स ।।६।। भावण चउत्थ साहम्मियाण सामण्णमण्णपाणं तु । संघाडगमाईणं भुजेज्ज अणुण्णवियए उ ।।७।। पंचमियं गंतूण साहम्मियउग्गहं अणुण्णविया । ठाणाई चेएजा पंचेव अदिण्णदाणस्स ।।८।। बंभवयभावणाओ णो अइमायापणीयमाहारे । दोच्च अविभूसणा ऊ विभूसवत्ती न उ हवेज्जा ।।९।। तच्चा भावण इत्थीण 30 इंदिया मणहरा ण णिज्झाए । सयणासणा विवित्ता इत्थिपसुविवज्जिया सेज्जा ।।१०।। एस चउत्था
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy