________________
१०
द्वितीयं परिशिष्टम् ।
पञ्चविधम्, ‘दंसण चत्तारि' इति, दर्शनावरणानि चत्वारि चक्षुरचक्षुरवधिकेवलदर्शनावरणाख्यानि, उच्चैर्गोत्रम्, यशःकीर्तिः, इत्येताः षोडश प्रकृतयः सूक्ष्मकषाये बन्धं प्रतीत्य व्यवच्छिन्नाः । एतद्बन्धस्य साम्परायिकत्वादुत्तरेषु च सम्परायस्य कषायोदयलक्षणस्याभावात् ॥२३॥” इति सटोके प्राचीने कर्मस्तवाख्ये द्वितीये कर्मग्रन्थे ।।
[पृ०८७ पं० ७] “गंगा णं महाणई पवहे छ सकोसाइं जोअणाई विक्खंभेणं अद्धकोसं 5 उव्वेहेणं तयणंतरं च णं.... [जम्बू० ४।७४] । व्या०- अथास्या एव प्रवहमुखयोः पृथुत्वोद्वेधौ दर्शयति- गंगा णमित्यादि, गङ्गा महानदी प्रवहे, यतः स्थानात् नदी वोढुं प्रवर्त्तते स प्रवहः, पद्मद्रहात्तोरणानिर्गम इत्यर्थः, तत्र षट् सक्रोशानि योजनानि विष्कम्भेण, तथा क्रोशार्द्धमुद्वेधेन, महानदीनां सर्वत्रोद्वेधस्य स्वव्यासपञ्चाशत्तमभागरूपत्वात्, अस्तीति शेषः, तदनन्तरमिति पद्मदहतोरणीयव्यासादनन्तरम्, एतेन यावत् क्षेत्रं स व्यासोऽनुवृत्तस्तावत्क्षेत्रादनन्तरं 10 गङ्गाप्रपातकुण्डनिर्गमादनन्तरमित्यर्थः, एतेन च योऽन्यत्र प्रवहशब्देन मकरमुखप्रणालनिर्गम: प्रपातकुण्डनिर्गमो वाऽभिहितः स नेति, श्रीअभयदेवसूरिपादैः समवायाङ्गवृत्तौ श्रीमलयगिरिपादैश्च बृहत्क्षेत्रसमासवृत्तौ पद्मद्रहतोरणनिर्गमपरत्वेनैव व्याख्यानात्, एवमुद्वेधेऽपि ज्ञेयम् ।” इति जम्बूद्वीपप्रज्ञप्तौ चतुर्थे वक्षस्कारे ७४ तमसूत्रस्य शान्तिचन्द्रविरचितायां वृत्तौ ॥
पृ०८९ पं०२२] “पञ्चविंशतिभिर्भावनाभिः, क्रिया पूर्ववत्, प्राणातिपातादिनिवृत्तिलक्षण- 15 महाव्रतसंरक्षणाय भाव्यन्त इति भावनाः, ताश्चेमाः- इरियासमिए सया जए, उवेह भुंजेज्ज व पाणभोयणं । आयाणनिक्खेवदुगुंछ संजए, समाहिए संजमए मणोवई ॥१॥ अहस्ससच्चे अणुवीइ भासए, जे कोहलोहभयमेव वज्जए । स दीहरायं समुपेहिया सिया, मुणी हु मोसं परिवज्जए सया ।।२।। सयमेव उ उग्गहजायणे, घडे मतिमं निसम्म सइ भिक्खु उग्गहं । अणुण्णविय भुजिज्ज पाणभोयणं, जाइत्ता साहमियाण उग्गहं ।।३।। आहारगुत्ते अविभूसियप्पा, इत्थिं न निज्झाइ न संथवेज्जा । बुद्धो 20 मुणी खुड्डकहं न कुज्जा, धम्माणुपेही संधए बंभचेरं ॥४॥ जे सद्दरूवरसगंधमागए, फासे य संपप्प मणुण्णपावए । गिहीपदोसं न करेज पंडिए, स होइ दंते विरए अकिंचणे ॥५।। गाथा: पञ्च, आसां व्याख्या-ईरणम् ईर्या, गमनमित्यर्थः, तस्यां समितः-सम्यगित ईर्यासमितः, ईर्यासमितता प्रथमभावना. यतोऽसमितः प्राणिनो हिंसेदतः सदा यतः-सर्वकालमुपयुक्तः सन् ‘उवेह भुजेज व पाणभोयणं' 'उवेह'त्ति अवलोक्य भुञ्जीत पानभोजनम्, अनवलोक्य भुञ्जानः प्राणिनो हिंसेत्, अवलोक्य भोक्तव्यं 25 द्वितीयभावना, एवमन्यत्राप्यक्षरगमनिका कार्या, आदाननिक्षेपौ-पात्रादेर्ग्रहणमोक्षौ आगमप्रसिद्धौ जुगुप्सति-करोत्यादाननिक्षेपजुगुप्सकः, अजुगुप्सन् प्राणिनो हिंस्यात् तृतीयभावना, संयतः-साधु: समाहितः सन् संयमे ‘मणोवइत्ति अदुष्टं मनः प्रवर्तयेत्, दुष्टं प्रवर्तयन् प्राणिनो हिंसेत् चतुर्थी भावना, एवं वाचमपि, पञ्चमी भावना, गताः प्रथमव्रतभावनाः । द्वितीयव्रतभावना: प्रोच्यन्ते-'अहस्ससच्चे'त्ति अहास्यात् सत्यः, हास्यपरित्यागादित्यर्थः, हास्यादनृतमपि ब्रूयात्, अतो हास्यपरित्यागः प्रथमभावना, 30