________________
३०९
[सू० १५१]
टीकाकृद्विरचिता प्रशस्तिः । स्वं कष्टेऽतिनिधाय कष्टमधिकं मा मेऽन्यदा जायताम्, व्याख्यानेऽस्य तथा विवेक्तुमनसामल्पश्रुतानाममुम् । इत्यालोचयता तथापि किमपि प्रोक्तं मया तत्र च, दर्व्याख्यानविशोधनं विदधतु प्राज्ञाः परार्थोद्यताः ।।३।। इह वचसि विरोधो नास्ति सर्वज्ञवाक्त्वात्, वचन तदवभासो यः स मान्द्यान्नृबुद्धेः। 5 वरगुरुविरहाद्वाऽतीतकाले मुनीशैर्गणधरवचनानां सस्तसङ्घातनाद्वा ॥४॥ व्याख्यानं यद्यपीदं प्रवरकविवच:पारतन्त्र्येण दृब्धम् सम्भाव्योऽस्मिंस्तथापि क्वचिदपि मनसो मोहतोऽर्थादिभेदः । किन्तु श्रीसङ्घबुद्धेरनुसरणविधेर्भावशुद्धेश्च दोषो मा मेऽभूदल्पकोऽपि प्रशमपरमना अस्तु देवी श्रुतस्य ।।५।।
10 निःसम्बद्धविहारहारिचरितान् श्रीवर्द्धमानाभिधान् सूरीन ध्यातवतोऽतितीव्रतपसो ग्रन्थप्रणीतिप्रभोः । श्रीमत्सूरिजिनेश्वरस्य जयिनो दप्पीयसां वाग्ग्मिनाम, तद्वन्धोरपि बुद्धिसागर इति ख्यातस्य सूरे वि ।।६।। शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता । श्रीमतः समवायाख्यतुर्याङ्गस्य समासतः ॥७।। एकादशसु शतेष्वथ विंशत्यधिकेषु विक्रमसमानाम् । अणहिलपाटकनगरे रचिता समवायटीकेयम् ।।८।। प्रत्यक्षरं निरूप्यास्या: ग्रन्थमानं विनिश्चितम् । त्रीणि श्लोकसहस्राणि, पादन्यूना च षट्शती ॥९॥
15
१. श्रस्त खं० हे१,२ ।। २. स्ताच्च देवी जे२ हे१ ।। ३. विहारिहारि' खं० । जे१ मध्ये पत्रं खण्डितम्॥ ४. विवृत्तिः जे१,२ । ख० मध्ये पत्रं खण्डितम् ।। ५. स्राणि पादन्यूनानि जे१ खंमू० । स्राणि पादन्यूना च खसं० ।। ६ पादोनाष्टशती तथा । ग्रंथाग्रं ३७७५ । शुभं भवतु श्री मणसंघस्य हे२ ।। हे२ = अणहिलपुरपत्तने [ = पाटणनगरे] श्रीहेमचन्द्राचार्यज्ञानमन्दिरे ९९९७ ग्रन्थक्रमाङ्के विद्यमानः कागजपत्रोपरिलिखित आदर्शः । पत्रसंख्या १-६९ । अयमादर्शः षोडशे वैक्रमे शतके लिखितः प्रतिभाति ।। ७ शुभं भवतु श्रीसंघस्य ॥ श्री कल्याणमस्तु