SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ [सू० १५७] शिबिका-तीर्थकरसहदीक्षित- भिक्षा चैत्यवृक्षादिवर्णनम् । २९१ प्राकृतत्वात् तस्मिन् काले सामान्येन दुःषमसुषमालक्षणे, तस्मिन् समये विशिष्टे यत्र भगवानेव विहरति स्मेति । कप्पस्स समोसरणं नेयव्वं ति इहावसरे कल्पभाष्यक्रमेण समवसरणवक्तव्यताऽध्येया, सा चाऽऽवश्यकोक्ताया न व्यतिरिच्यते, वाचनान्तरे तु पर्युषणाकल्पोक्तक्रमेणेत्यभिहितम्, कियद्दूरमित्याह - जाव गणेत्यादि, तत्र गणधरः पञ्चमः सुधर्माख्यः सापत्य:, शेषा निरपत्याः अविद्यमानशिष्यसन्ततय इत्यर्थः, वोच्छिन्न त्ति सिद्धा इति, तथाहि परिनिव्वुया गणहरा जीवंते नायए नव जणा उ । इंदभूई हम्मे य रायगिहे निव्वुए वीरे || [ आव० नि० ६५८] ति । अयं च समवसरणनायकः कुलकरवंशोत्पन्नो महापुरुषश्चेति कुलकराणां वरपुरुषाणां जंबुद्दीवेत्यादि सुगमम्, नवरं च वक्तव्यतामाह पढमेत्थ विमलवाहण चक्खुम जसमं चउत्थमभिचंदे । तत्तो पसेणईए मरुदेवे चेव नाभी य ।। [आव० नि० १५५] त्ति । तथा— चंदजस चंदकंता सुरूव पडिरूव चक्खुकंता य । सिरिकंता मरुदेवी कुलगरपत्तीण णामाई || [आव० नि० १५९] ति । १. बृहत्कल्पभाष्ये 'समोसरणे केवइया ।। १९७६ ।। ' इति गाथात आरभ्य संखाईए वि भवे .... ॥१२९७|| ' इति गाथापर्यन्तं समवसरणवक्तव्यता वर्तते, किन्तु जाव गणहरा सावच्चा निरवच्चा वोच्छिन्ना इति अत्र जावशब्देन सूचितः कोऽपि पाठो बृहत्कल्पभाष्ये नास्ति । आवश्यकनिर्युक्तौ तु समोसरणे केवइया... ||५४३।। इत्यत आरभ्य जं कारण णिक्खमणं वोच्छं एएसि आणुपुव्वीए । तित्थं च सुहम्माओ णिरवच्चा गणहरा सेसा ।। ५९५ ।। इति पर्यन्ता बृहत्कल्पभाष्येण अक्षरशः समानप्राया बयो गाथाः सन्ति, तत्र च निरवच्चा गणहरा सेसा इति पाठ उपलभ्यते ॥ २. 'ते णं काले णं ते णं समए णं समणस्स भगवओ महावीरस्य नव गणा इक्कारस गणहरा हुत्था । सव्वे वि णं एते समणस्स भगवओ महावीरस्स एक्कारस वि गणहरा दुवालसंगिणो चउदसपुव्विणो समत्तगणिपिडगधारगा रायगिहे नगरे मासिएणं भत्तेणं अपाणएणं कालगया जाव सव्वदुक्खप्पहीणा । थेरे इंदभूई थेरे अज्जसुहम्मे य सिद्धिगए महावीरे पच्छा दोणि वि थेरा परिनिव्वुया, जे इमे अज्जत्ताए समा निथा विहरति एए णं सव्वे अज्जसुहम्मस्स अणगारस्स आवच्चिज्जा, अवसेसा गणहरा निरवच्चा वुच्छिन्ना ।" इति पर्युषणाकल्पसूत्रे स्थविरावल्याम् ॥। ३. स्थानाङ्गसू० ५५६ । “प्रथमोऽत्र विमलवाहनश्चक्षुष्मान् यशस्वी चतुर्थोऽभिचन्द्रः ततश्च प्रसेनजित् मरुदेवश्चैव नाभिश्चेति भावार्थ: सुगम एवेति गाथार्थः || १५५ || चन्द्रयशाः चन्द्रकान्ता सुरूपा प्रतिरूपा चक्षुः कान्ता च श्रीकान्ता मरुदेवी कुलकरपत्नीनां नामानीति गाथार्थः || १५९ || ” इति आवश्यकसूत्रे हारिभद्र्यां वृत्तौ ॥ 5 10
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy