________________
२७८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे जीवा यथा साधवः शिरोलोच-ब्रह्मचर्यादिकाम, द्वितीया तु स्वयमुदीर्णस्योदीरणाकरणेन वोदयमुपनीतस्य वेदनीयस्यानुभवः, तत्र पञ्चेन्द्रियतिर्यङ्-मनुष्या द्विविधामपि शेषास्त्वौपक्रमिकीमेव वेदयन्तीति । तथा णीयाए चेव अणियाए त्ति, द्विविधा वेदना, तत्र निदया आभोगतः अनिदया त्वनाभोगतः, तत्र संज्ञिन उभयतोऽसंज्ञिनस्त्वनिदयेति, 5 एतद्द्वारविवरणाय नेरइया णमित्यादि, इहावसरे प्रज्ञापनाया: पञ्चत्रिंशत्तमं वेदनाख्य पदमध्येयमिति ।
अनन्तरं वेदना प्ररूपिता, सा च लेश्यावत एव भवतीति लेश्याप्ररूपणायाह- कइ णं भंते इत्यादि, इह स्थाने प्रज्ञापनाया: सप्तदशं षडुद्देशक लेश्याभिधानं पदमध्येतव्यम्, तच्चास्माभिरतिबहत्वादर्थतोऽपि न लिखितमिति तत एवावधारणीयमिति । 10 अनन्तरं लेश्या उक्ताः, सलेश्या एव चाहारयन्तीत्याहारप्ररूपणाय अणंतरा
येत्यादिद्वारश्लोकमाह । तत्र अणंतरा य आहारे त्ति अनन्तराश्च अव्यवधानाश्चाहारविषये अनन्तराहारा जीवा वाच्या इत्यर्थः, तथाऽऽहारस्याऽऽभोगना, अपिचेति वचनादनाभोगना च वाच्या । तथा पुद्गलान जानन्त्येव, एवकारान्न पश्यन्तीति
चतुर्भङ्गी सूचिता । तथा अध्यवसानानि सम्यक्त्वं च वाच्यमिति । 15 तत्राद्यद्वारार्थमाह- नेरइएत्यादि, अणंतराहार त्ति उपपातक्षेत्रप्राप्तिसमय
एवाहारयन्तीत्यर्थः । ततो निव्वत्तणया इति ततः शरीरनिर्वृत्तिः । ततो परियादियणय त्ति ततः पर्यापानमङ्गप्रत्यङ्गः समन्तात् पानमित्यर्थः । ततो परिणामणय त्ति आपीतस्योपात्तस्य परिणतिरिन्द्रियादिविभागेन । ततो परियारणय त्ति ततः
शब्दादिविषयोपभोग इत्यर्थः । ततो पच्छा विउव्वणय त्ति ततः पश्चाद्विक्रिया नानारूपा 20 इत्यर्थः । हंत त्ति हन्त गौतम !, एवमेतदिति भावः, एवं सर्वेषां पञ्चेन्द्रियाणां वक्तव्यम्,
नवरं देवानां पूर्वं विकुर्वणा पश्चात् परिचारणा शेषाणां तु पूर्वं परिचारणा पश्चाद्विकुर्वणा, एकेन्द्रियादीनामप्येवमेव प्रश्नः, निर्वचने तु यत्र वैक्रियसम्भवो नास्ति तत्र विकुर्वणा निषेधनीयेति ।
एवमाहारपयं भाणियव्वं ति यथाऽऽद्यद्वारस्य प्रश्न उक्तस्तथा तदुत्तरं शेषद्वाराणि 25 च भणद्भिः प्रज्ञापनायाश्चतुस्त्रिंशत्तमं परिचारणापदाख्यं पदमिह भणितव्यमिति, इदं