________________
२७७
[सू० १५३]
अवधि-वेदनादिवर्णनम् । आव० नि०६६] इत्यादि । तथा बाहिरे त्ति केऽवधिक्षेत्रस्य बाह्या भवन्तीति वाच्यम्, तत्र शेषा जीवा बाह्यावधयोऽभ्यन्तरावधयश्च भवन्ति । तथा देसोहि त्ति अवधिप्रकाश्यवस्तुनो देशप्रकाशी अवधिर्देशावधि: स केषां भवतीति वाच्यम्, तविपरीतस्तु सर्वावधिः, तत्र मनुष्याणाम् उभयमन्येषां देशावधिरेव, यतः सर्वावधिः केवलज्ञानलाभप्रत्यासत्तावेवोत्पद्यत इति । तथाऽवधेर्वृद्धिर्हानिश्च वाच्या, यो येषां 5 भवति, तत्र तिर्यङ्-मनुष्याणां वर्द्धमानो हीयमानश्च भवति, शेषाणामवस्थित एव, तत्र वर्द्धमानो योऽङ्गुलासंख्येयभागादि दृष्ट्वा बहु बहुतरं पश्यति, विपरीतस्तु हीयमान इति। तथा प्रतिपाती चाप्रतिपाती चावधिर्वाच्यः, तत्रोत्कर्षतो लोकमात्र: प्रतिपाती, ततः परमप्रतिपाती, तत्र भवप्रत्ययस्तं भवं यावन्न प्रतिपतति, क्षायोपशमिकस्तूभयथेति। एतदेव दर्शयति- कइविहेत्यादि, अत्रावसरे प्रज्ञापनायास्त्रय- 10 स्त्रिंशत्तमं पदमन्यूनमध्येयमिति । __ अनन्तरमुपयोगविशेषः क्षायोपशमिको जीवपर्यायः उक्तोऽधुना स एवौदयिको वेदनालक्षणोऽभिधीयते- सीया इत्यादि द्वारगाथा, तत्र सीया य त्ति चशब्दोऽनुक्तसमुच्चये, तेन त्रिविधा वेदना - शीता उष्णा शीतोष्णा चेति, तत्र शीतामुष्णा च वेदयन्ति नारकाः, शेषास्त्रिविधामपि । दव्व त्ति उपलक्षणत्वाच्चतुर्विधा 15 वेदना द्रव्यादिभेदेन, तत्र पुद्गलद्रव्यसम्बन्धात् द्रव्यवेदना, नारकाद्युपपातक्षेत्रसम्बन्धात् क्षेत्रवेदना, नारकाद्यायु:कालसम्बन्धात् कालवेदना, वेदनीयकम्र्मोदयाद् भाववेदना, तत्र नारकादयो वैमानिकान्ताश्चतुर्विधामपि वेदनां वेदयन्तीति । तथा सारीर त्ति त्रिधावेदना शारीरी मानसी शारीरमानसी च, तत्र संज्ञिपञ्चेन्द्रियाः सर्वे त्रिविधामपि, इतरे तु शारीरीमेवेति। तथा साय त्ति त्रिधा वेदना - साता असाता सातासाता चेति, तत्र 20 सर्वे जीवाः त्रिविधामपि वेदयन्तीति । तह वेयणा भवे दुक्ख त्ति, त्रिविधा वेदनासुखा दुःखा सुखदुःखा चेति, तत्र सर्वेऽपि त्रिविधामपि वेदयन्ति, नवरं सातासातयोः सुखदुःखयोश्चायं विशेष:- सातासाते क्रमेणोदयप्राप्तवेदनीयकर्मपुद्गलानुभवलक्षणे, सुखदुःखे तु परेण उदीर्यमाणवेदनीयकर्मानुभवलक्षणे । तथा अब्भुवगमुवक्कमिय त्ति, द्विधा वेदना- आभ्युपगमिकी औपक्रमिकी चेति, तत्राद्या यामभ्युपगमतो वेदयन्ति 25