________________
२२९
[सू० १४४]
ज्ञाताधर्मकथावर्णनम् ।
६
तथाऽऽख्यायन्त इति योग:, तथा आराहितसंजम त्ति एत एव लौकिकमुनयः संयमवलिताश्च जिनप्रवचनं प्रपन्नाः पुनः परिपालितसंयमाश्च सुरलोकं गत्वा चैते सुरलोकप्रतिनिवृत्ता उपयन्ति यथा शाश्वतं सदाभाविनं शिवम् अबाधकं सर्वदुःखमोक्षं निर्वाणमित्यर्थः, एते चोत्तलक्षणाः अन्ये च एवमादित्थ एवमादय आदिशब्दस्य प्रकारार्थत्वादेवंप्रकारा अर्था: पदार्थाः, वित्थरेण यत्ति 5 विस्तरेण चशब्दात् क्वचित् केचित् संक्षेपेण आख्यायन्त इति क्रियायोगः । नायाधम्मकहासु णमित्यादि कण्ठ्यमा निगमनात्, नवरं एकूणतीसमज्झयण त्ति प्रथमे श्रुतस्कन्धे एकोनविंशतिर्द्वितीये च दशेति । तथा दस धम्मकहाणं इत्यादौ भावनेयम्- इकोनविंशतिर्ज्ञाताध्ययनानि दाष्टन्तिकार्थज्ञापनलक्षणज्ञातप्रतिपादकत्वात्तानि प्रथमश्रुतस्कन्धे, द्वितीये 10 त्वहिंसादिलक्षणधर्म्मस्य कथा धर्मकथा आख्यानकानीत्युक्तं भवति, तासां च दश वर्गाः, वर्ग इति समूहः, ततश्चार्थाधिकारसमूहात्मकान्यध्ययनान्येव दश वर्गा द्रष्टव्याः, तंत्र ज्ञातेष्वादिमानि दश ज्ञातानि ज्ञातान्येव, न तेष्वाख्यायिकादिसम्भवः, शेषाणि नव ज्ञातानि तेषु पुनरेकैकस्मिन् पञ्च पञ्च चत्वारिंशदधिकानि आख्यायिकाशतानि, तत्राप्येकैकस्यामाख्यायिकायां पञ्च पञ्चोपाख्यायिकाशतानि, तत्राप्येकैकस्यामुपाख्यायिकायां पञ्च पञ्चाख्यायिकोपाख्यायिकाशतानि, एवमेतानि संपिण्डितानि किं सञ्जातम् ?
वग्गा
इगवीसं कोडिसयं लक्खा पण्णासमेव बोद्धव्वा । ( ९ x ५४० x ५०० x ५०० =) १२१५०००००० एवं ठिए समाणे अहिगयसुत्तस्स पत्थावो ॥ [ नन्दी० हारि० ] तद्यथा— दस धम्मकहाणं वग्गा, तत्थ णं एगमेगाए धम्मकहाए पंच पंच 20
१. "ख्यायत जे४ ॥ २. एकूणवीस खं० । अत्रेदमवधेयम् - समवायानसूत्रस्य मूलादर्शेषु एकूणवीस इति पाठ उपलभ्यते, खं०अटी० हस्तलिखितादर्शेऽपि एकूणवीस इति पाठ उपलभ्यते, अन्येषु तु अटी० हस्तलिखितादर्शेषु एकूणतीस" इति पाठ उपलभ्यते । नन्दीसूत्रेऽपि एकूणवीसं इति पाठो दृश्यते, नन्दीवृत्तिकृद्भिरपि तथैव व्याख्यातम् । तथापि अटी० मध्ये 'प्रथमे श्रुतस्कन्धे एकोनविंशतिर्द्वितीये च दश' इति व्याख्यादर्शनात् एकूणतीस इति पाठस्यापि संगतिः कर्तुं शक्यत एवात्र इति ध्येयम् । ३. नन्दीसूत्रस्य हरिभद्रसूरिविरचितायां वृत्तावीदृशमेव वर्णनमुपलभ्यते, जिनदासगणिमहत्तरविरचितायां चूर्णौ तु अन्यथा वर्णनं दृश्यते । विस्तरार्थिभिः परिशिष्टे टिप्पने द्रष्टव्यम् ।।
15