SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ [सू० १३१ स्थानाङ्गवर्णनम् । २१९ सेला इत्यादि गाथाविशेषः, तत्र शैला: हिमवदादिपर्वताः स्थाप्यन्ते स्थानेनेति योगः सर्वत्र, सलिलाश्च गङ्गाद्या महानद्यः, समुद्रा: लवणादयः, सूरा: आदित्याः, भवनानि असुरादीनाम्, विमानानि चन्द्रादीनाम्, आकरा: सुवर्णाद्युत्पत्तिभूमयः, नद्यः सामान्या मही-कोसीप्रभृतयः, निधय: चक्रवर्तिसम्बन्धिनो नैसर्पादयो नव, पुरिसजाय त्ति पुरुषप्रकारा उन्नतप्रणतादिभेदाः, पाठान्तरेण पुस्सजोय त्ति उपलक्षणत्वात् 5 पुष्यादिनक्षत्राणां चन्द्रेण सह पश्चिमाग्रिमोभयप्रमादिका योगाः, स्वराश्च षड्जादयः सप्त, गोत्राणि च काश्यपादीनि एकोनपञ्चाशत्, जोइसंचाल त्ति ज्योतिषः तारकरूपस्य सञ्चलनानि तिहिं ठाणेहिं तारारूवे चलेजा [स्थानाङ्ग० सू० १४१] इत्यादिना सूत्रेण स्थाप्यन्ते स्थानेनेति प्रक्रमः । तथा एकविधं च तद् वक्तव्यकं च तदभिधेयमित्येकविधवक्तव्यकं प्रथमे अध्ययने 10 स्थाप्यत इति योगः, एवं द्विविधवक्तव्यकं द्वितीयेऽध्ययने, एवं तृतीयादिषु यावद् दशविधवक्तव्यकं दशमेऽध्ययने । तथा जीवानां पुद्गलानां च प्ररूपणताऽऽख्यायत इति योगः, तथा लोगट्ठाई च णं ति लोकस्थायिनां च धर्माधर्मास्तिकायादीनां प्ररूपणता प्रज्ञापना, शेषमाचारसूत्रव्याख्यानवदवसेयम्, नवरमेकविंशतिरुद्देशनकाला:, कथम् ? द्वितीय- 15 तृतीय-चतुर्थेष्वध्ययनेषु चत्वारश्चत्वार उद्देशका: पञ्चमे त्रय इत्येते पञ्चदश, शेषास्तु षट् षण्णामध्ययनानां षडु देशनकालत्वादिति। बावत्तरिं पदसहस्साई ति अष्टादशपदसहस्रमानादाचाराद् द्विगुणत्वात् सूत्रकृतस्य ततोऽपि द्विगुणत्वात् स्थानस्येति ।।३।। [सू० १३९] से किं तं समवाए ? समवाए णं ससमया सूइजंति, परसमया 20 सूइजति, ससमय-परसमया सूइजंति, जीवा सूइज्जति, अजीवा सूइजंति, जीवाजीवा सूइजंति, लोगे सूइज्जति, अलोगे सूइज्जति, लोगालोगे सूइज्जति। समवाए णं एकादियाणं एगत्थाणं एगुत्तरिय परिवड्डी य दवालसंगस्स य १. नारकादयो जे२ ।। २. सूत्रकृतस्य ततोऽपि द्विगुणत्वात् जे१ मध्ये नास्ति । खं० मध्ये तु अधस्तात् पूरितः । सूत्रकृतस्तत् द्विगुणत्वात् जे२ ।। ३. समाये अटी० ॥
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy