________________
१९६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे शतस्थानकम् । चत्वारिंशदधिकानि, द्वितीयं तु नवनवतिः सहस्राणि षट् शतानि पञ्चचत्वारिंशच्च योजनानि योजनस्य च पञ्चत्रिंशदेकषष्टिभागाः, कथम् ?, मण्डलस्य मण्डलस्य चान्तरं द्वे द्वे योजने, सूर्यविमानविष्कम्भश्चाष्टचत्वारिंशदेकषष्टिभागाः, एतद् द्विगुणितं पञ्च योजनानि पञ्चत्रिंशदे कषष्टिभागाश्चेति जातमेतच्च पूर्वमण्डलविष्कम्भे क्षिप्त 5 जातमुक्तप्रमाणमिति, तृतीयमण्डलविष्कम्भोऽप्येवमवसेयः, स च नवनवतिः सहस्राणि षट् शतानि एकपञ्चाशत् योजनानि नवैकषष्टिभागाश्चेति ।
इमीसे णमित्यादेर्भावार्थोऽयम्- अञ्जनकाण्डं दशमं काण्डम्, तत्र च रत्नप्रभोपरिमान्ताच्छतं शतानां भवति, प्रथमकाण्डप्रथमशते च व्यन्तरनगराणि न
सन्तीति तस्मिन्नपसारिते नवनवतिः शतान्यन्तरं सूत्रोक्तं भवतीति ॥९९।। 10 [सू० १००] दसदसमिया णं भिक्खुपडिमा एगेणं राइंदियसतेणं अद्धछठेहिं भिक्खासतेहिं अहासुत्तं जाव आराहिया यावि भवति ।
सयभिसयानक्खत्ते सएकतारे पण्णत्ते । सुविधी पुप्फदंते णं अरहा एगं धणुसतं उडुंउच्चत्तेणं होत्था । 'पासे णं अरहा पुरिसादाणीए एकं वाससयं सव्वाउयं पालयित्ता सिद्धे 15 जाव प्पहीणे । एवं थेरे वि अज्जसुहम्मे ।
सव्वे वि णं दीहवेयड्पव्वया एगमेगं गाउयसतं उटुंउच्चत्तेणं पण्णत्ता ।
सव्वे वि णं चुल्लहिमवंत-सिहरिवासहरपव्वया एगमेगं जोयणसतं उटुंउच्चत्तेणं, एगमेगं गाउयसतं उव्वेधेणं पण्णत्ता ।।
सव्वे वि णं कंचणगपव्वया एगमेगं जोयणसयं उटुंउच्चत्तेणं, एगमेगं 20 गाउयसतं उव्वेधेणं, एगमेगं जोयणसयं मूले विक्खंभेणं पण्णत्ता ।
[टी०] अथ शतस्थानके किञ्चिल्लिख्यते, तत्र दश दशमदिनानि यस्यां सा दशदशमिका, या हि दिनानां दश दशकानि भवति, तत्र भवन्ति दश दशमदिनानि शतं च दिनानामत उच्यते एकेन रात्रिंदिवशतेनेति, यस्यां च प्रथमे दशके प्रतिदिनमेकैका भिक्षा द्वितीये द्वे द्वे एवं यावद् दशमे दश दशेत्येवं सर्वभिक्षासङ्कलने सूत्रोक्तसंख्या भवत्येव इति।
१. स्याचांतरं जे१ । 'स्यावांतरं खं० जे२ ।। २. भवंति जे२ ।।