________________
[स० ७६-७७
षटसप्तति-सप्तसप्ततिस्थानके ।
१६९
दीव-दिसा-उदहीणं विजुकुमारिंद-थणियमग्गीणं । छण्हं पि जुगलयाणं छावत्तरि मो सतसहस्सा ॥५९।। [टी०] अथ षट्सप्ततिस्थानके किञ्चित् लिख्यते, तत्र विद्युत्कुमाराणां भवनावासलक्षाणि दक्षिणायां चत्वारिंशदुत्तरस्यां तु षट्त्रिंशदिति षट्सप्ततिरिति । एवमिति इदमेव भवनमानं शेषाणां द्वीपकुमारादिभवनपतिनिकायानाम्, इहार्थे गाथा- दीवेत्यादि 5 युगलानामिति दक्षिणोत्तरनिकायभेदेन युगलम्, निकाये निकाये भवतीति ॥७६।।
[सू० ७७] भरहे राया चाउरंतचक्कवट्टी सत्तत्तरिं पुव्वसतसहस्साई कुमारवासमज्झावसित्ता महरायाभिसेयं पत्ते ।
अंगवंसातो णं सत्तत्तरिं रायाणो मुंडे जाव पव्वइया । गहतोय-तुसियाणं देवाणं सत्तत्तरं देवसहस्सा परिवारो पण्णत्ता। 10 एगमेगे णं मुहुत्ते सत्तत्तरिं लवे लवग्गेणं पण्णत्ते । ।
टी०] अथ सप्तसप्ततिस्थानके विवियते किञ्चित्, तत्र भरतचक्रवर्ती ऋषभस्वामिनः षट्सु पूर्वलक्षेष्वतीतेषु जातस्त्र्यशीतितमे च तत्रातीते भगवति च प्रव्रजिते राजा संवृत्तः, ततश्च त्र्यशीत्याः षट्सु निष्कर्षितेषु सप्तसप्ततिस्तस्य कुमारवासो भवतीति । अङ्गवंश: 15 अगराजसन्तानस्तस्य सम्बन्धिनः सप्तसप्तती राजानः प्रव्रजिताः । गद्दतोयेत्यादि, ब्रह्मलोकस्याधोवर्तिनीष्वष्टासु कृष्णराजिष्वष्टौ सारस्वतादयो लोकान्तिकाभिधाना देवनिकाया भवन्ति, तत्र गर्दतोयाना तुषितानां च देवानामुभयपरिवारसंख्यामीलनेन सप्तसप्ततिर्देवसहस्राणि परिवारः प्रज्ञप्तानीति । तथैकैको मुहूर्त्तः सप्तसप्ततिं लवान् लवाग्रेण लवपरिमाणेन प्रज्ञप्तः, कथम् ? उच्यते
हट्ठस्स अणवगल्लस्स, णिरुवकिट्ठस्स जंतुणो । __एगे ऊसासनीसासे, एस पाणु त्ति वुच्चई ॥
20
१. "गद्दताय-तुसियाणं देवाणं सत्त देवा सत्त देवसहस्सा पण्णत्ता” इति स्थानाङ्गसूत्रे सू० ५७६ ।। २. "सप्ततिलवान जेर हे१.२ ॥ ३. वच्चड जे२ हे१ ।।