________________
१६०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे एकोनसप्ततिस्थानकम् ।
टी०] अथाष्टषष्टिस्थानके किञ्चिल्लिख्यते, धायइसंडे इत्यादि, इह यदुक्तम् एवं चक्कवट्टी बलदेवा वासुदेव त्ति तत्र यद्यपि चक्रवर्तिनां वासुदेवानां वा नैकदा अष्टषष्टिः सम्भवति यतो जघन्यतोऽप्ये कै कस्मिन् महाविदेहे चतुर्णां चतुर्णा तीर्थकरादीनामवश्यं भावः स्थानाङ्गादिष्वभिहितः, न चैकत्र क्षेत्रे चक्रवर्ती 5 वासुदेवश्चैकदा भवतोऽतः षष्टिरेवोत्कर्षतश्चक्रवर्त्तिनां वासुदेवानां चाष्टषष्ट्यां विजयेषु
भवति तथापीह सूत्रे एकसमयेनेत्यविशेषणात् कालभेदभाविनां चक्रवर्त्यादीनां विजयभेदेनाष्टषष्टिरविरुद्धा, अभिलप्यन्ते च जम्बूद्वीपप्रज्ञप्त्यां भारत-काच्छाद्यभिलापेन चक्रवर्त्तिन इति ।।६८||
[सू० ६९] समयखेत्ते णं मंदरवजा एकूणसत्तरिं वासा वासधरपव्वता 10 पण्णत्ता, तंजहा- पणतीसं वासा, तीसं वासहरा, चत्तारि उसुयारा ।
मंदरस्स पव्वतस्स पच्चत्थिमिल्लातो चरिमंतातो गोतमद्दीवस्स पच्चत्थिमिल्ले चरिमंते एस णं एकूणसत्तरि जोयणसहस्साई अबाधाए अंतरे पण्णत्ते ।
मोहणिजवजाणं सत्तण्हं कम्मपगडीणं एकूणसत्तरं उत्तरपगडीतो पण्णत्तातो। 15 [टी०] अथैकोनसप्ततिस्थानके किञ्चिल्लिख्यते, समयेत्यादि, मन्दरवर्जा मेरुवर्जाः, . वर्षाणि च भरतादिक्षेत्राणि वर्षधरपर्वताश्च हिमवदादयस्तत्सीमाकारिण: वर्ष
वर्षधरपर्वता: समुदिता एकोनसप्ततिः प्रज्ञप्ताः, कथम् ?, पञ्चसु मेरुषु प्रतिबद्धानि सप्त सप्त भरत-हैमवतादीनि पञ्चत्रिंशद्वर्षाणि तथा प्रतिमेरु षट् षट् हिमवदादयो वर्षधरास्त्रिंशत्तथा चत्वार एवेषुकारा इति सर्वसंख्यैकोनसप्ततिरिति । मंदरस्सेत्यादि, 20 लवणसमुद्रं पश्चिमायां दिशि द्वादश योजनसहस्राण्यवगाह्य द्वादशसहस्रमान:
सुस्थिताभिधानस्य लवणसमुद्राधिपतेर्भवनेनालङ्कृतो गौतमद्वीपो नाम द्वीपोऽस्ति, तस्य च पश्चिमान्तो मेरो: पश्चिमान्तादेकोनसप्ततिः सहस्राणि भवन्ति, पञ्चचत्वारिंशतो १. 'संडेत्यादि हे२ विना ।। २. चतुर्णा तीर्थकरा' हे२ विना ।। ३. "जंबूदीवे दावे महाविदह वासे जहन्नपते चत्तारि अरहता चत्तारि चक्कवट्टी चत्तारि बलदेवा चत्तारि वासुदेवा उप्पजिस वा उप्पज्जति वा उप्पज्जिस्सति वा।।" इति स्थानाङ्गसूत्रे ४/२९९ ।। ४. जम्बूद्वीपप्रज्ञप्तौ तृतीये चतुर्थे च वक्षस्कारे द्रष्टव्यम् ।। ५. सहस्राणि भवति इति जसं२ मध्ये पत्रस्याधस्तानिर्दिष्टः पूरितः पाठः ॥ ६. भवंतीति जे१ ।।