________________
१५९
(सू० ६८
सप्तषष्टि-अष्टषष्टिस्थानके । मुहूर्ताः, आह च
सयभिसया भरणीओ अद्दा अस्सेस साइ जेट्ठा य । एए छण्णक्खत्ता पन्नरसमुहुत्तसंजोगा ।। [जम्बू० प्र० ७।१६०] इति । तथोत्तरात्रय-पुनर्वसु-रोहिणी-विशाखानां सप्तषष्टिभागानां शतं तद्भागार्द्धं च क्षेत्रविष्कम्भ: सीमा भवति, तथा तस्मिन्नेव त्रिंशद्गुणिते ३०१५ तथैव हृतभागे यल्लब्धं 5 तदेषां कालसीमा भवति, सा च पञ्चचत्वारिंशन्मुहर्ता इति, आह च
तिन्नेव उत्तराई पुणव्वसू रोहिणी विसाहा य ।
एए छन्नक्खत्ता, पणयालमुहुत्तसंजोगा ।। [जम्बू० प्र० ७।१६० ] इति । शेषाणां पञ्चदशानां नक्षत्राणां सप्तषष्टिरेव सप्तषष्टिभागानां क्षेत्रसीमाविष्कम्भो भवति, तस्यां च तथैव गुणितायां २०१० हृतभागायां च यल्लब्धं तत् कालसीमा, तच्च त्रिंशन्मुहर्ताः, आह 10
च
अवसेसा नक्खत्ता पन्नरस वि होति तीसइमुहुत्ता । चंदस्स तेहिं जोगो समासओ एस वक्खामि ।। [ज्योतिष्क० १६५]
एवं चैकस्य षण्णां षण्णां पञ्चदशानां चेत्येवमष्टाविंशतेर्नक्षत्राणामष्टादश शतानि त्रिंशदधिकानि सप्तषष्टिभागानामेतदेव द्विगुणं षट्पञ्चाशतो नक्षत्राणां भवति, तच्च सहस्रत्रयं 15 षट् शतानि षष्ट्यधिकानि ३६६० ॥६७।। _[सू० ६८] धायइसंडे णं दीवे अट्ठसद्धिं चक्कवट्टिविजया अट्ठसढिं रायधाणीतो पण्णत्ताओ । उक्कोसपदे अट्ठसर्व्हि अरहंता समुप्पजिंसु वा समुप्पजंति वा समुप्पज्जिस्संति वा । एवं चक्कवट्टी बलदेवा वासुदेवा ।
पुक्खरवरदीवड्ढे णं अट्ठसहिँ विजया एवं व जाव वासुदेवा । 20
विमलस्स णं अरहतो अट्ठसट्टि समणसाहस्सीतो उक्कोसिया समणसंपदा होत्था । १. दृश्यता परिशिष्टे पृ० ८२ पं०१५ ।। २. टीका- अवशेषाणि श्रवण-धनिष्ठाप्रभृतीनि नक्षत्राणि पञ्चदशापि सूर्येण सह गतानि यान्ति त्रयोदश समान् परिपूर्णानहोरात्रान् द्वादश च मुहर्लान् यावत् । तथाहि- अमूनि परिपूर्णान सप्तषष्टिभागान चन्द्रेण समं व्रजन्ति, ततः सूर्येण सह एतानि पञ्चभागानप्यहोरात्रस्य सप्तषष्टिसंख्यान् गच्छन्ति, सप्तषष्टेश्च पञ्चभिर्भाग हृते लब्धास्रयोदशाहोरात्राः, शेषौ च द्वौ भागौ तिष्ठतः, तौ त्रिंशता गुण्येते जाता षष्टिः, तस्याः पञ्चभिर्भागे हृते लब्धा द्वादश मुहूर्ता इति ॥१६५॥” इति ज्योतिष्करण्डकस्य मलयगिरिसूरिविरचितायां वृत्तौ ।।