________________
१५६
आचार्यश्री अभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे षट्षष्टिस्थानकम् ।
भौमानि नगराकाराणि विशिष्टस्थानानीत्येके ||६५||
[सू० ६६] दाहिणड्ढमणुस्सखेत्ता णं छावट्ठि चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा, छावट्ठि सूरिया तवइंसु वा तवइंति वा तवइस्संति वा । उत्तरड्ढमणुस्सखेत्ता णं छावट्ठि चंदा पभासिंसु वा पभासंति वा पभासिस्संति 5 वा । छावट्ठि सूरिया तवइंसु वा तवइंति वा तवइस्संति वा । सेज्जंसस्स णं अरहतो छावट्ठि गणा छावट्ठि गणहरा होत्था | आभिणिबोहियनाणस्स णं उक्कोसेणं छावहिं सागरोवमाई ठिती पण्णत्ता । [टी०] अथ षट्षष्टिस्थानकम्, तत्र दाहिणेत्यादि, मनुष्यक्षेत्रस्यार्द्धमर्द्धमनुष्यक्षेत्रं दक्षिणं च तत्तच्चेति दक्षिणार्द्धमनुष्यक्षेत्रम्, तत्र भवा दाक्षिणार्द्धमनुष्यक्षेत्राः, 10 णमित्यलङ्कारे, षट्षष्टिश्चन्द्राः प्रभासितवन्त: प्रभासनीयम्, अथवा लिङ्गव्यत्ययाद् दक्षिणानि यानि मनुष्यक्षेत्राणामर्द्धानि तानि तथा, तानि प्रकाशितवन्तः, पाठान्तर दक्षिणार्द्धमनुष्यक्षेत्रे प्रभासनीयं प्रभासितवन्तः, ते च एवम् - द्वौ जम्बूद्वीपे चन्द्रौ चत्वारो लवणसमुद्रे द्वादश धातकीखण्डे द्विचत्वारिंशत् कालोदसमुद्रे द्विसप्ततिश्च पुष्करार्धे, सर्वे चैते द्वात्रिंशदधिकं शतम्, एतदर्द्धं च षट्षष्टिर्दक्षिणपङ्क्तौ स्थिताः 15 षट्षष्टिश्चोत्तरपङ्क्तौ, यदा चोत्तरपङ्क्तिः पूर्वस्यां गच्छति तदा दक्षिणा पश्चिमायामिति, एवं सूर्यसूत्रमप्यवसेयमिति । छावट्ठि गण त्ति आवश्यके तु षट्सप्ततिरभिहितेतीदं च मतान्तरमिति । छावट्ठी सागरोवमाई ठिइ त्तिं यच्चातिरिक्तं तदिह न विवक्षितम्, यत एवमिदमन्यत्रोच्यते
•
२
दो वारे विजयाइ यस्स तिन्नऽच्चुए अहव ताई ।
१. दृश्यतां पृ० १४० टि० ३ । २. इह कश्चित् साधुर्मत्यादिज्ञानान्वितो देशोनां पूर्वकाटों यावत् प्रव्रज्या परिपाल्य विजय - वैजयन्त- जयन्ता ऽपराजितविमानानामन्यतरविमाने उत्कृष्टं त्रयस्त्रिंशत्सागरोपमलक्षणदेवायुरनुभूय पुनरप्रतिपतितमत्यादिज्ञान एव मनुजेषूत्पन्नो देशोनां पूर्वकोटीं प्रव्रज्यां विधाय तदैव विजयादिपूत्कृष्टमायुः संप्राप्य पुनरप्रतिपतितमत्यादिज्ञान एव मनुष्यो भूत्वा पूर्वकोटीं जीवित्वा सिद्ध्यतीति । एवं विजयादिषु वारद्वयं गतस्य: अथवाऽच्युतदेवलोके द्वाविंशतिसागरोपमस्थितिकेषु देवेषु त्रीन् वारान् गतस्य तानि षट्षष्टिसागरोपमानि अधिकानि भवन्ति । अधिकं चेह नरभवसंबन्धि देशोनं पूर्वकोटित्रयं चतुष्टयं वा द्रष्टव्यम् । नानाजीवानां तु सर्वाद्धं सर्वकालं मतिज्ञानस्य स्थितिः । इति विशेषावश्यकभाष्यस्य मलधारिहेमचन्द्रसूरिविरचितायां वृत्तौ ॥