________________
१५२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे आवश्यके तु षट्षष्टिरुक्तेति मतान्तरमिदमपीति । सुक्कपक्खस्सेत्यादि, शुक्लपक्षस्य सम्बन्धी चन्द्रो द्विषष्टिं भागान् प्रतिदिनं वर्द्धते, एवं कृष्णपक्षे चन्द्रः परिहीयते, अयं चार्थः सूर्यप्रज्ञप्त्यामप्युक्तः, तथाहिकिण्हं राहुविमाणं निच्चं चंदेण होइ अविरहियं । चउरंगुलमप्पत्तं हेट्ठा चंदस्स तं चरइ ।। बावटुिं बावठिं दिवसे दिवसे उ सुक्कपक्खस्स । जं परिवहइ चंदो खवेइ तं चेव कालेणं ।। पन्नरसइभागेण य चंदं पण्णरसमेव तं वरइ ।
पण्णरसहभागेण य पुणो वि तं चेव वक्कमइ ।। 10 एवं वड्डइ चंदो परिहाणी एव होइ चंदस्स ।
कालो वा जोण्हा वा एयणुभावेण चंदस्स ॥ [सूर्यप्र० १९] तथा तत्रैवोक्तम् - सोलस भागे काऊण उडुवई हायएत्थ पन्नरसं ।
तेत्तियमेत्ते भागे पुणो वि परिवहुई जोण्हं ।। [ज्योतिष्क० १११] ति । 15 तदेवं भणितद्वयानुसारेणानुमीयते यथा चन्द्रमण्डलस्य एकत्रिंशदुत्तर
नवशतभागविकल्पितस्य एकोऽशोऽवस्थित एवास्ते, शेषाः प्रतिदिवसं द्विषष्टिं द्विषष्टिं कृत्वा वर्द्धन्ते, ततः पञ्चदशे चन्द्रदिने सर्वे समुदिता भवन्ति, पुनस्तथैव हीयन्ते पञ्चदशे दिने एकावशेषा भवन्तीति वचनद्वयसामर्थ्यलभ्यं व्याख्यानमेतत् । जीवाभिगमे तु
'बावडिं बावहिँ' गाहा तथा ‘पन्नरसतिभागेणं' गाहा एते गाथे इत्थं व्याख्याते – 20 बावहिँ बावहिँ इत्यत्र द्विषष्टिर्द्विषष्टि गानां दिवसे दिवसे च प्रत्यहमित्यर्थः,
शुक्लपक्षस्य सम्बन्धिनि, यत् परिवर्द्धते चन्द्रश्चतुर: साधिकान् द्विषष्टिभागान्, क्षपयति तदेव कालेन, एतदेवाह- पन्नरस इत्यादिना, चन्द्रविमानं द्विषष्टिभागान क्रियते ततः १. दृश्यतामत्र पृ०१४० टि०३ ।। २. द्विषष्टिभागान् जे१ख०११ ।। ३. इमाश्चतस्रो गाथाः सूर्यप्रज्ञप्तौ एकोनविंशतितमे प्राभत सन्ति । तत्र च 'कालो वा जोण्हो वा' इति पाठः । प्रागपि उद्धृतयं गाथा ज्योतिष्करण्डकात्, दृश्यता पृ० ६० ५० ६ टि० २ ।। किन्तु तथा तत्रैवोक्तम्' इति पाठेन अत्र सूर्यप्रज्ञप्तः प्रकृतत्वात् सूर्यप्रजप्तावेव उक्तम्' इत्यर्थः सूच्यते, किन्तु सूर्यप्रज्ञप्तौ चन्द्रप्रज्ञप्तौ वा नेय गाथा कुत्रापि समुपलभ्यते ।। ४. दृश्यतां पृ०६० टि०२।। ५. व्याख्यायेते हे२ ।। ६. द्विषष्टिर्द्विषष्टिभागानां जे१ । द्विषष्टि गानां खं० । द्विषष्टिभागानां हे१.२। (द्विषष्टि दिष्टि भागानां ?) ||