SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १४४ आचार्यश्रीअभयदेवसूरिविरचितीकासहिते समवायाङ्गसूत्रे त्रिपञ्चाशत्स्थानकम् । झिमे त्ति जैहम्यम् । तथा लोभादीनि चतुर्दश लोभकषायस्य, भिज्झा अभिज्झ त्ति अभिध्यानमभिध्येत्यस्य तीतं पिधानमित्यादाविव वैकल्पिके अकारलोपे भिध्याऽभिध्या चेति शब्दभेदान्नामद्रयमिति । __ गोथुभेत्यादि, गोस्तुभस्य प्राच्यां लवणसमुद्रमध्यवर्त्तिनो वेलन्धरनागराज5 निवासभूतपर्वतस्य पौरस्त्याच्चरमान्तादपसृत्य वडवामुखस्य महापातालस्य महापातालकलशस्य पाश्चात्त्यश्चरमान्तो येन व्यवधानेन भवतीति गम्यते, एस णं ति एतदन्तरमबाधया व्यवधानलक्षणमित्यर्थः, द्विपञ्चाशद्योजनसहस्राणि भवन्तीत्यक्षरघटना, भावार्थस्त्वयम्- इह लवणसमुद्र पञ्चनवति याजनसहस्राण्यवगाह्य पूर्वादिषु दिक्षु चत्वार: क्रमेण वडवामुख-केतुक-जूयकेश्वराभिधाना महापातालकलशा 10 भवन्ति, तथा जम्बूद्वीपपर्यन्ताद् द्विचत्वारिंशद्योजनसहस्राण्यवगाह्य सहस्रविष्कम्भाश्चत्वार एव वेलन्धरनागराजपर्वता गोस्तुभादयो भवन्ति, ततश्च पञ्चनवत्यास्त्रिचत्वारिंशत्यपकर्षितायां द्विपञ्चाशत् सहस्राण्यन्तरं भवति । तथा सौधर्मे द्वात्रिंशद्विमानानां लक्षाणि, सनत्कुमारे द्वादश, माहेन्द्रे चाष्टाविति सर्वाणि द्विपञ्चाशत् ।।५२।। [सू० ५३] देवकुरु-उत्तरकुरियातो णं जीवातो तेवण्णं तेवण्णं जोयण15 सहस्साइं साइरेगाई आयामेणं पण्णत्तातो । महाहिमवंत-रुप्पीणं वासहरपव्वयाणं जीवातो तेवण्णं तेवण्णं जोयणसहस्साई नव य एक्कतीसे जोयणसते छच्च एकूणवीसतिभाए जोयणस्स आयामेणं पण्णत्तातो । समणस्स णं भगवतो महावीरस्स तेवण्णं अणगारा संवच्छरपरियाया पंचसु 20 अणुत्तरेसु महतिमहालएसु महाविमाणेसु देवत्ताते उववन्ना । संमुच्छिमउरगपरिसप्पाणं उक्कोसेणं तेवण्णं वाससहस्साई ठिती पण्णत्ता। [टी०] त्रिपञ्चाशत्स्थानके लिख्यते । महाहिमवंतेत्यादिसूत्रे संवादगाथातेवन्नसहस्साई नव य सए जोयणाण इगतीसे । जीवा महाहिमवओ अद्धकला छक्कलाओ || [बृहत्क्षेत्र० ५६] त्ति । 25 संवच्छरपरियाग त्ति संवत्सरमेकं यावत् पर्याय: प्रव्रज्यालक्षणो येषां ते
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy