SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १३८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे पञ्चचत्वारिंशत्-षट्चत्वारिंशत्स्थानके । तिन्नेव उत्तराई, पुणव्वसू रोहिणी विसाहा य । एते छन्नक्खत्ता, पणतालमुहत्तसंजोगा ।।५८।। महालियाए णं विमाणपविभत्तीए पंचमे वग्गे पणतालीसं उद्देसणकाला पण्णत्ता । 5 [टी०] पञ्चचत्वारिंशत्स्थानके त्विदं लिख्यते, समयखेत्ते त्ति कालोपलक्षितं क्षेत्रम्. मनुष्यक्षेत्रमित्यर्थः । सीमंतए णं ति प्रथमपृथिव्यां प्रथमप्रस्तटे मध्यभागवर्ती वृत्तो नरकेन्द्रः सीमन्तक इति । उडुविमाणे त्ति सौधर्मेशानयोः प्रथमप्रस्तटवर्ति चतसृणां विमानावलिकानां मध्यभागवर्ति वृत्तं विमानेन्द्रकमुडुविमानमिति । ईसिपब्भार त्ति सिद्धिपृथिवी । मंदरस्स णं पव्वयस्सेत्यादि सूत्रे लवणसमुद्राभ्यन्तरपरिध्यपेक्षयान्तर 10 द्रष्टव्यमिति । सव्वे वि णमित्यादि, चन्द्रस्य त्रिंशन्मुहूर्तभोग्यं नक्षत्रक्षेत्रं समक्षेत्रमुच्यते. तदेव सार्द्धं व्यर्द्धम्, द्वितीयमर्द्धमस्येति द्व्यर्द्धमित्येवं व्युत्पादनात्, तथाविधं क्षेत्रं येषामस्ति तानि व्यर्द्धक्षेत्रिकाणि नक्षत्राणि अत एव पञ्चचत्वारिंशन्मुहूर्तान् चन्द्रेण सार्द्ध योगं, सम्बन्धं योजितवन्ति । तिन्नेव गाहा, त्रीण्युत्तराणि उत्तरफाल्गुन्य उत्तराषाढा उत्तरभद्रपदाः ।।४५।। 15 [सू० ४६] दिट्ठिवायस्स णं छायालीसं माउयापया पण्णत्ता । बंभीए णं लिवीए छायालीसं माउयक्खरा पण्णत्ता । पभंजणस्स णं वातकुमारिंदस्स छायालीसं भवणावाससतसहस्सा पण्णत्ता। [टी०] अथ षट्चत्वारिंशत्स्थानके किञ्चिल्लिख्यते, दिट्ठिवायस्स त्ति द्वादशाङ्गस्य माउयापय त्ति सकलवाङ्मयस्य अकारादिमातृकाः पदानीव दृष्टिवादार्थप्रसवनिबन्धनत्वेन 20 मातृकापदानि उत्पाद-विगम-ध्रौव्यलक्षणानि, तानि च सिद्धश्रेणि-मनुष्यश्रेण्यादिना विषयभेदेन कथमपि भिद्यमानानि षट्चत्वारिंशद् भवन्तीति सम्भाव्यते । तथा बंभीए णं लिवीए त्ति लेख्यविधौ षट्चत्वारिंशन्मातृकाक्षराणि, तानि चाऽकारादीनि हकारान्तानि १. इसी जे२ ।। २. "क्षेत्रकाणि खं० ।। ३. मातृकापदानीव ख० जे२ विना ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy