SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ [म० ४२ द्विचत्वारिंशत्स्थानकम् । पुरिथिमिल्लचरिमंताओ त्ति जगतीबाह्यपरिधेरपसृत्य गोस्तुभस्याऽऽवासपर्वतस्य वेलंधरनागराजसम्बन्धिनः पाश्चात्त्यश्चरमान्तः चरमविभागो यावताऽन्तरेण भवति एस णं ति एतदन्तरं द्विचत्वारिंशद्योजनसहस्राणि प्रज्ञप्तम्, अन्तरशब्देन विशेषोऽप्यभिधीयते इत्यत आह- आबाहाए त्ति व्यवधानापेक्षया यदन्तरं तदित्यर्थः। कालायणे त्ति धातकीखण्डपरिवेष्टके कालोदाभिधाने समुद्रे । 5 ___ गइनामेत्यादि. गतिनाम यदुदयान्नारकादित्वेन जीवो व्यपदिश्यते, जातिनाम यदुदयादेकेन्द्रियादिर्भवति, शरीरनाम यदुदयादौदारिकादिशरीरं करोति, यदुदयादङ्गानां शिर :प्रभृतीनाम् उपाङ्गानां च अगुल्यादीनां विभागो भवति तच्छरीराङ्गोपाङ्गनाम, तथा औदारिकादिशरीरपुद्गलानां पूर्वबद्धानां बध्यमानानां च सम्बन्धकारण शरीरबन्धननाम, तथा औदारिकादिशरीरपुद्गलानां गृहीतानां यदुदयाच्छरीररचना भवति 10 तच्छरीरसङ्घातनाम, तथाऽस्थ्नां यतस्तथाविधशक्तिनिमित्तभूतो रचनाविशेषो भवति तत् संहनननाम, संस्थानं समचतुरस्रादिलक्षणं यतो भवति तत् संस्थाननाम, तथा यदुदयावर्णादिविशेषवन्ति शरीराणि भवन्ति तद् वर्णादिनाम, तथा यदुदयादगुरुलघु स्वं स्वं शरीरं जीवानां भवति तदगुरुलघुनाम, तथा यतोऽङ्गावयवः प्रतिजिह्विकादिरात्मोपघातको जायते तदुपघातनाम, तथा यतोऽङ्गावयव एव विषात्मको 15 दंष्ट्रा-त्वगादिः परेषामुपघातको भवति तत् पराघातनाम, तथा यदुदयादन्तरालगतौ जीवा याति तदानुपूर्वीनाम, तथा यदुदयादच्छ्वासनिःश्वासनिष्पत्तिर्भवति तदुच्छ्वासनाम, तथा यदुदयाज्जीवस्तापवच्छरीरो भवति तदातपनाम, यथाऽऽदित्यबिम्बपृथिवीकायिकानाम्, तथा यतोऽनुष्णोद्द्योतवच्छरीरो भवति तदुद्द्योतनाम, तथा यतः शुभेतरगमनयुक्तो भवति तद्विहायोगतिनाम, जसनामादीन्यष्टौ 20 प्रतीतार्थानि, तथा यत: स्थिराणां दन्ताद्यवयवानां निष्पत्तिर्भवति तत् स्थिरनाम, यतश्च भू-जिह्वादीनामस्थिराणां निष्पत्तिर्भवति तदस्थिरनाम, एवं शिर:प्रभृतीनां शुभानां तच्छुभनाम, पादादीनामशुभानामशुभनाम इति, शेषाणि प्रतीतानि, नवरं यददयाज्जातौ १. परिथिमि हे२ विना || २. पाश्चात्यचर' ख० ह२ ॥ ३. स्वं शरीरं जे२ ॥ ४. 'दयान्तराल' हे१.२ विना ।। . तथा शिर:प्र ह ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy