SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ११८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहित समवायाङ्गसूत्र १६, संवेगे त्ति संवेग: संसारभयं मोक्षाभिलाषो वा १७, पणिहि त्ति प्रणिधि: माया, सा न कार्यत्यर्थः १८. सुविहि त्ति सुविधिः सदनुष्ठानम् १९, संवरः आश्रवनिरोधः २०, अत्तदोसोवसंहारे त्ति स्वकीयदोषस्य निरोधः २१. सव्वकामविरत्तय त्ति समस्तविषयवैमुख्यम् २२. पच्चक्खाणे त्ति प्रत्याख्यानं मूलगुणविषयम् २३ 5 उत्तरगुणविषयं च २४, विओसग्गे त्ति व्युत्सर्गो द्रव्य-भावभेदभिन्नः २५. अप्पमाये त्ति प्रमादवर्जनम् २६. लवालवे त्ति कालोपलक्षणम्, तेन क्षणे क्षणे सामाचार्य्यनुष्ठान कार्यम् २७, झाणसंवरजोगे यत्ति ध्यानमेव संवरयोगो ध्यानसंवरयोग: २८, उदए मारणंतिए त्ति मारणान्तिकेऽपि वेदनोदये न क्षोभ: कार्य: २९, संगाणं च परिण त्ति सङ्गानां ज्ञपरिज्ञा-प्रत्याख्यानपरिज्ञाभेदभिन्ना परिज्ञा कार्या ३०. पायच्छित्तकरणे 10 इ य त्ति प्रायश्चित्तकरणं च कार्यम् ३१, आराधना च मरणान्ते मरणरूपोऽन्तो मरणान्तस्तत्र इत्येते द्वात्रिंशद्योगसङ्ग्रहा इति ३२ । ___ इन्द्रसूत्रे यावत्करणात् ‘वेणुदेवे वेणुदाली हरिक्कते हरिस्सहे अग्गिसीहे अग्गिमाणवे पुण्णे वसिटे जलकंते जलप्पहे अमियगई अमियवाहणे वेलंबे पहंजणे' इति दृश्यम्, पुनः यावत्करणात् ‘माहिंदे बंभे लंतए सुक्के सहस्सारे' त्ति द्रष्टव्यम्. 15 इह च षोडशानां व्यन्तरेन्द्राणां षोडशानामेव चाणपण्यिकादीन्द्राणामल्पर्द्धिकत्वनाविवक्षितत्वादसङ्ख्यातानामपि च चन्द्र-सूर्याणां जातिग्रहणेन द्वयोरेव विवक्षितत्वाद् द्वात्रिंशदिन्द्रा उक्ता इति । कुन्थुनाथस्य द्वात्रिंशदधिकानि द्वात्रिंशत् केवलिशतान्यभूवन्। द्वात्रिंशद्विधं नाट्यमभिनयविषयवस्तुभेदाद्यथा राजप्रश्नकृताभिधाद्वितीयोपाग इति सम्भाव्यते, द्वात्रिंशत्पात्रप्रतिबद्धमिति केचित् ।।३२॥ 20 [सू० ३३] [१] तेत्तीसं आसायणातो पण्णत्तातो, तंजहा- सेहे रातिणियस्स आसन्नं गंता भवति, [आसायणा सेहस्स] १, सेहे राइणियस्स पुरतो गंता भवति, [आसायणा सेहस्स] २, सेहे राइणियस्स [स ?]पक्खं गंता भवति, आसायणा सेहस्स ३, सेहे रातिणियस्स आसन्नं ठिच्चा भवति, आसायणा १. आवश्यकसूत्रस्य चतुर्थेऽध्ययने तेत्तीसाए आसायणाहि इति सूत्रस्य हारिभत्र्यां वृत्तावपि बिस्तगण वर्णनमस्ति।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy