________________
११७
(म० ३२
द्वात्रिंशत्स्थानकम् ।
सिगं देवा
अत्थेगतियाणं बत्तीसं सागरोवमाई ठिती पण्णत्ता ५।
[3] ते णं देवा बत्तीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊसत वा नासति वा । [तेसि णं देवाणं बत्तीसाए वाससहस्सेहिं आहारट्ठे ममुपजत २
संतगतिया भवसिद्धिया जीवा जे बत्तीसाए भवग्गहणेहिं सिज्झिस्संति] जाव सव्वदुक्खाणं अंतं करेस्संति ३।
[टी०] द्वात्रिंशत्स्थानकमपि व्यक्तम्, नवरं युज्यन्ते इति योगा : मनोवाक्कायव्यापाराः ते चेह प्रशस्ता एव विवक्षितास्तेषां शिष्याचार्यगतानामालोचना-निरपलापादिना प्रकारेण सङ्ग्रहणानि सङ्ग्रहाः प्रशस्तयोगसङ्ग्रहाः प्रशस्तयोगसङ्ग्रहनिमित्तत्वादालोचनादय एव तथाच्यन्ते, ते च द्वात्रिंशद्भवन्ति, तदुपदर्शकं श्लोकपञ्चकम् आलोयणेत्यादि, 10 अस्य गमनिका - तत्र आलोयण त्ति मोक्षसाधकयोगसङ्ग्रहाय शिष्येणाचार्यायाऽऽलोचना दातव्या १. निरवलावे त्ति आचार्योऽपि मोक्षसाधकयोगसङ्ग्रहायैव दत्तायामाऽऽलोचनायां निरपलापः स्यात् नान्यस्मै कथयेदित्यर्थः २, आवईसु दढधम्मय त्ति प्रशस्तयोगमङ्ग्रहाय साधुनाऽऽपत्सु द्रव्यादिभेदासु दृढधर्मता कार्या. सुतरां तासु दृढधर्मणा भाव्यमित्यर्थः ३. अणिस्सिओवहाणे यत्ति 15 शुभयोगसङ्ग्रहायैवाऽनिश्रितं च तदन्यनिरपेक्षमुपधानं च तपोऽनिश्रितोपधानं परसाहाय्यानपेक्षं तपो विधेयमित्यर्थः ४, सिक्ख त्ति योगसङ्ग्रहाय शिक्षाऽऽ सेवितव्या, साच सूत्रार्थग्रहणरूपा प्रत्युपेक्षाद्यासेवनात्मिका चेति द्विधा ५, निकम्म तथैव निष्प्रतिकर्मता शरीरस्य विधेया ६, अण्णाययत्ति तपसोऽज्ञातता कार्या, यशः- पूजाद्यर्थित्वेनाऽप्रकाशयद्भिस्तपः कार्यमित्यर्थः ७, अलोभे य त्ति अलोभता 20 विधेया ८. तितिक्ख त्ति तितिक्षा परीषहादिजयः ९. अज्जवे त्ति आर्जवम् ऋजुभावः १०. सुइ नि शुचिः सत्यं संयम इत्यर्थः ११. सम्महिट्टि त्ति सम्यग्दृष्टिः सम्यग्दर्शनशुद्धिः १२. समाही यत्ति समाधिश्च चेतः स्वास्थ्यम् १३, आयारे विणओवए ति द्वारद्र्य तत्राचारोपगतः स्यात्, न मायां कुर्यादित्यर्थः १४. विनयोपगतो भवेत् न मानं कुर्यादित्यर्थः १५, धिईमई यत्ति धृतिप्रधाना मतिर्धृतिमतिः अदैन्यम् 25
5