________________
[म० ३२
एकत्रिंशत्स्थानकम् ।
११५
जया णं सूरिए इत्यादि, किल सूर्यस्य चतुरशीत्यधिकं मण्डलशतं भवति. मण्डलं च ज्योतिष्कमार्गोऽभिधीयते, तत्र जम्बूद्वीपस्यान्तः अशीत्यधिके योजनशते पञ्चषष्टिः सूर्यमण्डलानि भवन्ति. तथा लवणसमुद्रे त्रीणि त्रिंशदधिकानि योजनशतान्यवगाौकोनविंशत्यधिकं सूर्यमण्डलशतं भवति, तत्र च सर्वबाह्य समुद्रान्तर्गतमण्डलानां पर्यन्तिमम्. तस्य चायामविष्कम्भौ लक्षं षट् शतानि च योजनानां 5 षष्ट्यधिकानि, परिधिस्तु वृत्तक्षेत्रगणितन्यायेन त्रीणि लक्षाणि अष्टादश सहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि ३१८३१५, एतावच्च क्षेत्रमादित्योऽहोरात्रद्वयेन गच्छति, तत्र च षष्टिमहर्ता भवतीति षष्ट्या भागापहारे यल्लब्धं तन्मुहूर्तगम्यक्षेत्रप्रमाणं भवति, तच्च पञ्च सहस्राणि त्रीणि च पञ्चोत्तराणि शतानि पञ्चदश च योजनषष्टिभागा: ५३०५
, एतच्च दिवसार्द्धन गुण्यते, यदा च सर्वबाह्ये मण्डले सूर्यश्चरति तदा 10 दिनप्रमाणं द्वादश मुहूर्ताः, तदर्थं च षट्, अतः षड्भिर्मुहूर्तेर्गुणितं मुहूर्तगतिप्रमाण चक्षुःस्पर्शप्रमाणं भवति, तत्र एकत्रिंशत् सहस्राणि अष्टौ च शतान्येकत्रिंशदधिकानि त्रिंशच्च योजनषष्टिभागाः ३१८३१ ३ ।
अभिवर्द्धितमास: अभिवर्द्धितसंवत्सरस्य चतुश्चत्वारिंशदहोरात्रद्विषष्टिभागा- 15 धिकत्र्यशीत्यधिकशतत्रयरूपस्य ३८३ , द्वादशो भागः, अभिवर्द्धितसंवत्सरश्चासौ यत्राधिकमासको भवति त्रयोदशचन्द्रमासात्मकत्वाच्चन्द्रमासश्च एकोनत्रिंशता दिनानां द्वात्रिंशता च दिनद्विषष्टिभागानां भवतीति। साइरेगाई ति अहोरात्रस्य चतुर्विंशत्युत्तरशतभागानामेकविंशत्युत्तरशतेनाधिकानीति ।
आदित्यमासा येन कालेनादित्यो राशिं भुङ्क्ते, किंचिविसेसूणाई ति अहोरात्रार्द्धन 20 न्यूनानीति ।।३१।।
[सू० ३२] [१] बत्तीसं जोगसंगहा पण्णत्ता, तंजहा
१. विष्कम्भो ख० ११.२ ।। २. यत्राधिमासको २ । यत्राधिकमासो हे१ ॥ ३. आवश्यकसूत्रे चतुर्थेऽध्ययने 'बत्तीसाए जागसंगहहि इति सूत्रस्य हारिभव्या वृत्तौ विस्तरेण द्वात्रिंशतो योगसंग्रहानां वर्णनं वर्तते. विशेषजिज्ञासुभिस्तत्र