________________
आमुखम् परमोपकारिणी परमपूज्या विक्रमसंवत् २०५१ तमे वर्षे श्री सिद्धक्षेत्रे पालिताणानगरे पौषशुक्लदशम्यां दिवंगता शताधिकवर्षायुष्का मम माता साध्वीजीश्री मनोहरश्रीरिहलोकपरलोककल्याणकारिभिराशीर्वचनैर्निरन्तरं मम परमं साहायकं सर्वप्रकारैर्विधत्ते ।
लोलाडाग्रामे विक्रमसंवत् २०४० कार्तिकशुक्लद्वितीयादिने दिवंगतो ममान्तेवासी वयोवृद्धा देवतुल्यो मुनिदेवभद्रविजयः सदा मे मानसिकं बलं पुष्णाति । ___ममातिविनीतोऽन्तेवासी मुनिधर्मचन्द्रविजयः तच्छिष्य: मुनिपुण्डरीकरत्नविजयः मुनिधर्मघोषविजयः मुनिमहाविदेहविजयश्च अनेकविधेषु कार्येषु महद् महत् साहायकमनुष्ठितवन्तः ।
एवमेव मम मातुः साध्वीश्रीमनोहरश्रियः शिष्यायाः साध्वीश्रीसूर्यप्रभाश्रिय: शिष्यया साध्वीश्रीजिनेन्द्रप्रभाश्रिया एतद्ग्रन्थसंशोधनसम्बन्धिषु सर्वकार्येषु प्रभूतं प्रभूतं साहायकमनुष्ठितम् ।
श्रीमहावीरजैनविद्यालयस्य कार्यवाहकैः महता द्रव्यव्ययेन साध्यस्य एतन्मुद्रणादिकस्य व्यवस्था स्वीकृता । अतस्तेभ्योऽपि भूयो भूयो धन्यवादान् वितरामि । एतेभ्य: सर्वेभ्यो भूयो भूयो धन्यवादा वितीर्यन्ते ।
देव-गुरुप्रणिपातपूर्वकं प्रभुपूजनम् परमकृपालूनां परमेश्वराणां देवाधिदेवश्री शखेश्वरपार्श्वनाथप्रभूणां परमोपकारिणां पूज्यपादानां पितृचरणानां सद्गुरुदेवानां मुनिराजश्री भुवनविजयजीमहाराजानां च कृपया साहाय्याच्चैव संपन्न कार्यमिदमिति तेषां चरणेषु अनन्तश: प्रणिपातं विधाय अस्मिन् कुंभणग्रामे मूलनायकरूपेण विराजमानस्य श्रीशान्तिनाथस्य भगवतः करकमलेऽद्य भक्तिभरनिर्भरण हृदयेन भगवद्वचनात्मकमेव पुष्परूपमेतं ग्रन्थं निधाय अनन्तशः प्रणिपातपूर्वकं भगवन्तं श्री शान्तिनाथं महयाम्येतेन कुसुमेन ।
कुंभण [जिल्ला-भावनगर] [तालुका- महुवा बंदर] पीन-३६४२९० गुजरातराज्य [सौराष्ट्र]
- इत्यावेदयति पूज्यपादाचार्यश्रीमद्विजयसिद्धिसूरीश्वरपट्टालङ्कार पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्यपूज्यपादसद्गुरुदेवमुनिराजश्री भुवनविजयान्तेवासी
मुनि जम्बूविजयः
विक्रम सं.२०६१, कार्तिकशुक्लपञ्चमी, ज्ञानपञ्चमी, भौमवासरः, ता.१६-११-२००४