________________
5
10
आचार्य श्री अभयदेवसूरिविरचितटीकासहिते समवायाङ्गसुत्रे
सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं एगूणतीसं पलिओवमाइं ठिती पण्णत्ता ४|
उवरिममज्झिमगेवेज्जयाणं देवाणं जहणणेणं एगूणतीसं सागरोवमाई ठिती
९८
पण्णत्ता ५।
जे देवा उवरिमहेट्ठिमगेवेज्जयविमाणेसु देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं एगूणतीसं सागरोवमाई ठिती पण्णत्ता ६ ।
[३] ते णं देवा एगूणतीसाए अद्धमासेहिं आणमंति वा पाणमंति ऊससंति वा नीससंति वा १। तेसि णं देवाणं एगूणतीसाए वाससहस्सेहिं आहार समुप्पज्जति २ |
संतेगतिया भवसिद्धिया जीवा जे एगूणतीसाए भवग्गहणेहिं सिज्झिस्संति [ जाव सव्वदुक्खाणं अंतं करेस्संति] ३।
[टी०] एकोनत्रिंशत्स्थानकमपि व्यक्तमेव, नवरं नवेह सूत्राणि स्थितेः प्राक् तत्र पापोपादानानि श्रुतानि पापश्रुतानि तेषां प्रसङ्गः तथाऽऽसेवनारूपः पापश्रुतप्रसङ्गः. स च पापश्रुतानामेकोनत्रिंशधित्वात् तद्विध उक्तः, पापश्रुतविषयतया पापश्रुतान्येव 15 वोच्यन्ते, अत एवाह - भोमेत्यादि, तत्र भौमं भूमिविकारफलाभिधानप्रधानं निमित्तशास्त्रम्, तथा उत्पातं सहजरुधिरवृष्ट्यादिलक्षणोत्पातफलनिरूपकं निमित्तशास्त्रम्, एवं स्वप्नं स्वप्नफलाविर्भावकम्, अन्तरिक्षम् आकाशप्रभवग्रहयुद्धभेदादिभावफलनिवेदकम्, अङ्गं शरीरावयवप्रमाणस्पन्दितादिविकारफलोद्भावकम्, स्वरं जीवाजीवाश्रितस्वरस्वरूपफलाभिधायकम्, व्यञ्जनं मषादिव्यञ्जनफलोपदर्शकम्. 20 लक्षणं लाञ्छनाद्यनेकविधलक्षणव्युत्पादकमित्यष्टौ । एतान्येव सूत्र - वृत्तिवार्त्तिकभेदाच्चतुर्विंशतिः २४, तत्राङ्गवर्जितानामन्येषां सूत्रं सहस्रप्रमाणम्. वृत्तिर्लक्षप्रमाणा, वार्त्तिकं वृत्तिव्याख्यानरूपं कोटीप्रमाणम्, अङ्गस्य तु सूत्रं लक्षम्, वृत्तिः कोटी, वार्त्तिकमपरिमितमिति, तथा विकथानुयोगः अर्थकामोपायप्रतिपादनपराणि कामन्दक - वात्स्यायनादीनि भारतादीनि वा शास्त्राणि २५, 25 तथा विद्यानुयोगो रोहिणीप्रभृतिविद्यासाधनाभिधायीनि शास्त्राणि २६.