SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ [मु० २७ सप्तविंशतिस्थानकम् । विरागता अभिष्वङ्गमात्रस्याभावः, अथवा मायालोभयोरनुदयः. मायालाभविवेकशब्दाभ्यां तूदयप्राप्तयोस्तयार्निरोधः प्रागभिहित इतीहापि न पुनरुक्ततेति ५९ । मनोवाक्कायानां समाहरणता, पाठान्तरतः समन्वाहरणता अकुशलाना निराधास्त्रय: २२ । ज्ञानादिसम्पन्नतास्तिस्रः २५ । वेदनातिसहनता शीताद्यतिसहनम् २६ । मारणान्तिकातिसहनता कल्याणमित्रबुद्ध्या मारणान्तिकोपसर्गसहनमिति २७। 5 ___ तथा जम्बूद्वीपे न धातकीखण्डादौ अभिजिद्वजैः सप्तविंशत्या नक्षत्रैर्व्यवहारः प्रवर्तते, अभिजिन्नक्षत्रस्योत्तराषाढचतुर्थपादानुप्रवेशनादिति । तथा मासो नक्षत्र-चन्द्राऽभिवर्द्धित-ऋत्वा-ऽऽदित्यमासभेदात् पञ्चविधोऽन्यत्रोक्तः, तत्र नक्षत्रमास: चन्द्रस्य नक्षत्रमण्डलभागकाललक्षणः सप्तविंशतिः रात्रिंदिवानि अहोरात्राणि रात्रिंदिवानेणेति अहोरात्रपरिमाणापेक्षयेदं परिमाणं न तु सर्वथा, तस्याधिकतरत्वाद्, आधिक्यं 10 चाहोरात्रसप्तषष्टिभागानामेकविंशत्येति । विमाणपुढवि त्ति विमानानां पृथिवी भूमिका । तथा वदकसम्यक्त्वबन्धः, क्षायोपशमिकसम्यक्त्वहतुभूतशुद्धदलिकपुञ्जरूपा दर्शनमाहनीयप्रकृतिस्तस्य, उवरओ त्ति प्राकृतत्वादुद्वलको वियोजको यो जन्तुस्तस्य मोहनीयकर्मणोऽष्टाविंशतिविधस्य मध्ये सप्तविंशतिरुत्तरप्रकृतयः सत्कर्माशा: सत्तायामित्यर्थः, एकस्योदलितत्वादिति । तथा श्रावणमासस्य शुद्धसप्तम्यां सूर्यः सप्तविंशत्यगुलिकां हस्तप्रमाणशङकोरिति गम्यते पौरुषीं छायां प्रहरच्छायां निर्वर्त्य दिवसक्षेत्रं रविकरप्रकाशमाकाशं निवर्द्धयन् प्रकाशहान्या हानि नयन् रजनीक्षेत्रम् अन्धकाराक्रान्तमाकाशमभिनिवर्द्धयन् प्रकाशहान्या वृद्धि नयन् चारं चरति व्योममण्डले भ्रमणं करोति, अयमत्र भावार्थ:इह किल स्थूलन्यायमाश्रित्य आषाढ्यां चतुर्विंशत्यगुलप्रमाणा पौरुषीच्छाया भवति, 20 दिनसप्तके च सातिरेके छायाऽगुलं वर्द्धते. ततश्च श्रावणशुद्धसप्तम्यामगुलत्रयं वर्द्धते, सातिरकैकविंशतितमदिनत्वात्तस्याः, तदेवमाषाढ्याः सत्कैरङ्गुलैः सह सप्तविंशतिरङ्गुलानि भवन्ति, निश्चयतस्तु कर्कसङ्क्रान्तेरारभ्य यत् सातिरेकैकविंशतितमं दिनं तत्रोक्तरूपा पौरुषीच्छाया भवति ।।२७।। 15 १ घधिम जर हे ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy