________________
आचार्य श्री अभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे
ऊससंति वा णीससंति वा १। तेसि णं देवाणं चउवीसाए वाससहस्साणं आहार समुप्पज्जति २ |
संगतिया भवसिद्धिया जीवा जे चउवीसाए भवग्गहणेहिं सिज्झिस्संति [जाव सव्वदुक्खाणं अंतं करेस्संति] ३|
[टी०] चतुर्विंशतिस्थानके षट् सूत्राणि स्थितेः प्राक्, सुगमानि च । नवरं देवानाम् इन्द्रादीनामधिका देवाः पूज्यत्वाद् देवाधिदेवा इति । तथा जीवाओ ि जम्बूद्वीपलक्षणवृत्तक्षेत्रस्य वर्षाणां वर्षधराणां च ऋज्वी सीमा जीवोच्यते. आरोपितज्यधनुर्जीवाकल्पत्वात्, तयोश्च लघुहिमवच्छिखरिसत्कयोः प्रमाणम् २४९३२ अष्टत्रिंशद्भागश्च योजनस्य किञ्चिद्विशेषाधिकः, अत्र गाथा
चवीस सहस्साइं नव य सए जोयणाण बत्तीसे । चुल्लहिमवंतजीवा आयामेणं कलद्धं च ॥ [ बृहत्क्षेत्र० ५२] ति कलार्द्धमिति एकोनविंशतिभागस्यार्द्धम्, तच्चाष्टत्रिंशद्भाग एव भवतीति । चतुर्विंशतिर्देवस्थानानि देवभेदाः, दश भवनपतीनाम्, अष्टौ व्यन्तराणाम्, पञ्च ज्योतिष्काणाम्, एकं कल्पोपपन्नवैमानिकानाम्, एवं चतुर्विंशतिः सेन्द्राणि 15 चमरादीन्द्राधिष्ठितानि, शेषाणि ग्रैवेयका - ऽनुत्तरसुरलक्षणानि ' अहम् अहम्' इत्येवमिन्द्रा येषु तान्यहमिन्द्राणि, प्रत्यात्मेन्द्रकाणीत्यर्थः, अत एव अनिन्द्राणि अविद्यमाननायकानि अपुरोहितानि अविद्यमानशान्तिकर्मकारीणि. उपलक्षणपरत्वादस्याविद्यमानसेवकजनानीति ।
5
10
८६
च
१. व्या०- "योजनानां चतुर्विंशतिसहस्राणि नव शतानि द्वात्रिंशानि द्वात्रिंशदधिकानि एक कलार्धमित्येतावत्परिमाणायामेन पूर्वापरतया देर्येण क्षुल्लहिमवता जोवा । तथाहि जम्बूद्वापविष्कम्भ कलारूप एकोनविंशतिलक्षप्रमाणोऽवगाहन क्षुल्लहिमवतः संबन्धिना त्रिंशत्सहस्रपरिमाणेन ३०००० डपणा होनः क्रियते, तता जात शर्पामिदम् अष्टादश लक्षाः सप्ततिसहस्राणि १८७०००० । एतद्यथोक्तपरिमाणेन ३०००० अवगाहन गुण्यते. जातः पञ्चकः पट्कः एककः अष्टी शून्यानि ५६१०००००००० । एष राशिभूयश्चतुभिर्गुण्यते. जातो द्रिकः द्विकः चतुष्कः चतुष्कः अष्टौ शून्यानि २२४४०००००००० । अस्य वर्गमूलानयने लब्धः चतुष्कः समक: त्रिकः समक: शून्य अष्टकः ४७३७०८ । शेषस्तु राशिरुद्धरति सप्तक: त्रिकः शून्यं सप्तक: त्रिकः षट्कः ७३०७३६ । छेदराशि: नवकः चतुष्कः सप्तकः चतुष्कः एककः षट्कः ९४७४१६ । ततः कलार्धानयनार्थमुद्धरितां राशिद्रिकेन गुण्यत छेदराशिना च भज्यते, ततो लब्धमेकं कलार्धं । वर्गमूललब्धस्य तु कलाराशर्योजनानयनार्थमेकानविंशत्या भागा हियते, लब्धानि योजनानां चतुर्विंशतिसहस्राणि नव शतानि द्वात्रिंशदधिकानि २४९३२ एकं च कलार्धम् १ ||१२|| इति बृहत्क्षेत्रसमासस्य मलयगिरिसूरिविरचितायां वृत्तौ ॥