________________
(मु० २३
त्रयोविंशतिस्थानकम् । तिकणयियाई ति नयत्रिकाभिप्रायाच्चिन्त्यन्ते यानि तानि नयत्रिकवन्तीति त्रिकनयिकानीत्युच्यन्ते, त्रैराशिकसूत्रपरिपाट्याम्, इह त्रैराशिका गोशालकमतानुसारिणोऽभिधीयन्ते, यस्मात्ते सर्वं त्र्यात्मकमिच्छन्ति, तद्यथा-जीवोऽजीवो जीवाजीवश्चेति, तथा लाकोऽलोको लोकालोकश्चेत्यादि, नयचिन्तायामपि ते त्रिविधं नयमिच्छन्ति. तद्यथा-द्रव्यास्तिक: पर्यायास्तिक: उभयास्तिकश्चेति, एतदेव 5 नयत्रयमाश्रित्य त्रिकनयिकानीत्युक्तमिति, तथा चउक्कनयियाई ति नयचत्ष्काभिप्रायतश्चिन्त्यन्ते यानि तानि चतुष्कनयिकानि, नयचतुष्कं चैवम्, नैगमनयो द्विविध: सामान्यग्राही विशेषग्राही च, तत्र यः सामान्यग्राही स सङ्ग्रहेऽन्तर्भूतो विशेषग्राही तु व्यवहार, तदेवं सङ्ग्रह-व्यवहार-र्जुसूत्रा: शब्दादित्रयं चैक एवेति चत्वारो नया इति, स्वसमयेत्यादि तथैवेति ।
10 __ तथा पुद्गलानाम् अण्वादीनां परिणामो धर्मः पुद्गलपरिणामः, स च वर्णपञ्चकगन्धद्वय-रसपञ्चक-स्पर्शाष्टकभेदाद्विंशतिधा, तथा गुरुलघु अगुरुलघु इति भेदद्वयक्षेपान द्वाविंशतिः, तत्र गुरुलघु द्रव्यं यत्तिर्यग्गामि वाय्वादि, अगुरुलघु यत् स्थिरं सिद्धिक्षेत्रं घण्टाकारव्यवस्थितज्योतिष्कविमानादीनि । तथा महितादीनि षड़ विमानानि ।।२२।।
[सू० २३] [१] तेवीसं सूयगडज्झयणा पण्णत्ता, तंजहा- समए १, वेतालिए 15 २, उवसग्गपरिण्णा ३, थीपरिण्णा ४, नरयविभत्ती ५, महावीरथुई ६, कुसीलपरिभासिते ७, वीरिए ८, धम्मे ९, समाही १०, मग्गे ११, समोसरणे १२, आहत्तहिए १३, गंथे १४, जमतीते १५, गाथा १६, पुंडरीए १७, किरियट्ठाणे १८, आहारपरिण्णा १९, पच्चक्खाणकिरिया २०, अणगारसुतं २१, अद्दइज्ज २२, णालंदतिज २३ । १
20 [२] जंबुद्दीवे णं दीवे भारहे वासे इमीसे ओसप्पिणीए तेवीसाए जिणाणं सूरुग्गमणमुहुत्तंसि केवलवरनाणदंसणे समुप्पण्णे २। १. (दाति ।। ।। २. "तए णं समण भगवं महावीरे अणगार जाए... । तस्स ण भगवंतस्स.. वइसाहसुद्धस्स दसमीपक्षण पाईणगामिणीए छायाए पारिसीए अभिनिवट्टाए पमाणपत्ताए... कवलवरनाणदसणे समुप्पन्ने'' इति पर्यषणाकल्पसूत्र महावीररित्रे । "अन्न भणति- बावीसाए पुव्वण्हे, मल्लि-वीराण अवरण्हे" इति आवश्यकचूर्णी