________________
॥ ९६ ॥
उच्चराम्यमनस्त्रम्
क्षणम् ॥ १६ ॥ मुनिर्ज्ञानी जगौ गम्यं, खकार्येण मया द्रुतम् ॥ विश्रामाय ततो नाहं, स्थास्यामीह महामते । ॥ १७ ॥ वणिकू प्रोचेन्यकार्येणा - ऽप्यार्य ! किं कोपि गच्छति १ ॥ यद्भवद्भिः खकार्येण, भया गम्यमितीरितम् ! ॥ १८ ॥ उवाच मुनिरन्यार्थे, क्लिश्यन्ते बहवो जनाः ॥ भार्याद्यर्थ क्लिश्यमान - स्त्वमेवात्र निदर्शनम् ॥ १९ ॥ इत्येकेनैव वाक्येन, प्रतिबोधमवाप सः ॥ समयाई वचः खल्प-मपि हि स्यान्महाफलम् ! ॥ २० ॥ ततः पूज्याः कतिष्ठन्तीत्यपृच्छत्तं मुनिं वणिक् ॥ जगाद यतिरुद्याने, तिष्ठाम्यहमितः स्थिते ॥ २१ ॥ निर्ग्रन्थोऽथ पुरे गत्वा, प्राप्तप्राकभोजनः ॥ उद्यानेगात्कृताहारः, खाध्यायं च व्यधात्सुधीः ॥ २२ ॥ वेलानुसारतो ज्ञात्वा कृताहारं तपोधनम् ॥ गत्वा तदन्तिके श्रौषी - जैनं धर्म स नैगमः ॥ २३ ॥ बन्धूनापृच्छय दीक्षायै, यावदायाम्यहं विभो ! ॥ तावत्पूज्यैरिह स्थेय - मित्यूचे च विरक्तधीः ॥ २४ ॥ गृहे च गत्वा खजनान्, जायां चेति जगाद सः ॥ हट्टापारतो लाभः स्वल्प एव प्रजायते ॥ २५ ॥ करिष्ये देशवाणिज्यं, प्राज्यलाभकृते ततः ॥ तच स्यात्सार्थवाहेन, विद्येते द्वौ च ताविह ॥ २६ ॥ तत्रैकः स्वधनं दत्वा नयते पुरमीहितम् ॥ तत्र चोपार्जिते वित्ते, भागं गृह्णाति न स्वयम् ॥ २७ ॥ द्वितीयस्तु निजं वित्तं प्रदत्ते नैव किञ्चन । पूर्वार्जितं च सकलं, सेवितः सन् विलुम्पति ॥ २८ ॥ तद्रूत सार्थनाथेन, केन साकं ब्रजाम्यहम् १ ॥ खजनाः प्रोचिरे यातु, प्रथमेन समं भवान् ॥ २९ ॥ ततः स बन्धुभिस्तत्रा, तत्रोद्याने द्रुतं ययौ ॥ क सार्थवाह इति तैः पृष्टश्चैवमवोचत ॥ ३० ॥ स्थितः किङ्केलिवृक्षाधः, साधुरेष गुणोदधिः ॥ सिद्धिपुर्याः सार्थवाहो, दत्वा धर्मधनं निजम् ॥ ३१ ॥ व्यापारं कारयत्यंशं न च गृह्णात्युपार्जिते ॥ त द नेन समं मुक्ति-पुरीं यास्यामि कामिताम् ॥ ३२ ॥ [ युग्मम् ] सार्थेशोऽन्यस्तु विज्ञेयो, जायादिखजनात्मकः ॥ स हि धर्मधनं प्राच्यं, हन्ति दत्ते न च खतः ॥ ३३ ॥ किञ्च युष्माभिरेवोक्तं, यदाद्येन समं ब्रज ॥ तन्मुक्त्वा बन्धुसम्बन्धं, साधुमेनं श्रयाम्यहम् ॥ ३४ ॥ इत्युदीर्य स वणिग्मुनिपार्श्वे, बन्धुमोहमपहाय महात्मा ॥ खीचकार मुनिधर्ममुदारं, सौख्यमत्र च परत्र च लेभे ॥ ३५ ॥ इति बन्धुमोहापोहे वणिकथा ॥ यथा चायं वणिक् खजनखरूपं भावयन् धर्म प्रतिपन्नस्तथान्यैरपि दक्षैर्यतितव्यमिति सूत्रार्थः ॥ ४ ॥ इत्थं तावत्स्वकृतकर्मणां बन्धुभ्यो न मुक्तिरित्युक्तं, अधुना तु द्रव्यमेव तन्मुक्तये भावीति कस्याप्याशयः स्यादत आह
मूलम् - वित्तेण ताणं न लभे पमत्ते, इमम्मि लोए अदुवा परत्था ॥ दीवपणट्टेव अनंतमोहे, नेआउअं दद्दुमदहुमेव ॥ ५ ॥
व्याख्या - वित्तेन द्रव्येण त्राणं स्वकृतकर्मभ्यो रक्षणं न लभते न प्राप्नोति, प्रमत्तो मद्यादिप्रमादवशं गतः, त्याह- 'इमम्मित्ति' अस्मिन्ननुभूयमाने लोके जन्मनि, 'अदुवत्ति' अथवा परत्रेति परभवे । यच्चोक्तमिह लोके इति, तत्र पुरोहितपुत्रोदाहरणम्, तत्र चायं सम्प्रदायः - तथा हि नगरे कापि, भूपः कुत्रचिदुत्सये ॥ बहिर्निर्याति शुद्धान्ते, प्रोश्चैरित्युदघोषयत् ॥ १ ॥ सर्वैरपि नरैः सद्यो, निर्गन्तव्यं बहिः पुरात् ॥ न निर्यास्यति यस्तं तु, निग्रहीष्यति भूपतिः ॥ २ ॥ तदाकर्ण्य नराः सर्वे, निर्ययुस्त्वरितं पुरात् ॥ राज्ञामाज्ञामनुल्लंघ्यां सुधीरुल्लंघते हि कः १ ॥ ३ ॥ तदाचैको राजमित्रं, पुरोहितसुतो युवा ॥ न निर्ययौ पुराद्वार- वधूधामनि संस्थितः ॥ ४ ॥ कथञ्चित्तं च विज्ञाय, जगृहुर्नृपपूरुषाः ॥ तेभ्यः किञ्चिद्वितीर्यात्मा, न तु तेन व्यमोच्यत ॥ ५ ॥ किन्तु राज्ञो वयस्योह -मिति दर्पात्स तैः समम् ॥ चक्रे विवाद दर्पो हि, स्यादन्धकरणो नृणाम् ! ॥ ६ ॥ ततस्तं पार्थिवोपान्ते, निन्यिरे नृपपूरुषाः ॥ राज्ञाप्याज्ञाभङ्गकारी - त्यादिष्टो वध्य एव सः ! ॥ ७ ॥ पुरोहितस्तदाकर्ण्यो- पेत्योर्वीशमदोवदत् ॥ स्वामिन् । ददामि सर्वखं,
मुञ्चत मे सुतम् ॥ ८ ॥ पुरोहितेनेति धनेन भूपो, निमंत्रयमाणोऽपि न तं मुमोच ॥ ततः सशूलामधिरोपितोऽन्तं, जगाम दीनः शरणेन हीनः ! ॥ ९ ॥ धनं न प्राणायेत्यर्थे पुरोहितसुतकथा ॥ एवमन्येपि वित्तेन त्राणमत्रैव तावन्न लभन्ते आस्तामन्यजन्मनि, तन्मूर्च्छावतः पुनरधिकं दोषमाह - 'दीवेत्यादि' तत्र 'दीवप्पत्ति' प्राकृतत्वात्प्रनष्टदीप इव, विगतप्रकाशदीप इव, अनन्तस्तद्भव एव प्रायस्तस्यानुपरमात् मोहो मिथ्याज्ञानमोहरूपो द्रव्यादिमोहात्मको वाऽस्खेत्यनन्तमोहः, 'नेआउअंति' निश्चित आयो लाभो न्यायो मुक्तिरित्यर्थः, स प्रयोजनमस्येति नैयायिकस्तं, सम्यग्दर्शनादिरूपं मुक्तिमार्ग, 'दहुंति' अपेर्गम्यत्वाद् दृष्ट्वापि उपलभ्यापि, 'अदद्दुमेवत्ति' प्राकृतत्वादद्रष्टैव भवति, अत्र चायं सम्प्रदायः
तथा हि महति कापि, भूधरे भूरिकन्दरे ॥ तिग्मांशुकिरणाभेद्य - नीरन्त्रवनगहरे ॥ १ ॥ वह्निमेषांसि चादाम, गृहीतगुरुदीपिकाः ॥ बिलेन विविशुः केपि धातुवादपरा नराः ॥ २ ॥ [ युग्मम् ] तत्र तेषां प्रमादेन, विष्यातौ