________________
उत्तराध्ययनसूत्रम्
॥ ९७॥
बह्रिदीपकौ ॥ सर्वेषामपि जन्तूनां प्रमादो हि रिपूयते ! ॥ ३ ॥ ततो गुहातमोजात-मोहास्ते परितोऽभ्रमन् ॥ दृष्टपूर्व बिलाध्यानं, न पुनर्लेभिरे तदा ॥ ४ ॥ तत्र भ्रमन्तश्च महाविषैस्ते, दष्टा भुजङ्गैर्विषघूर्णिताङ्गाः ॥ कुत्रापि गर्ते पतिताश्च निम्ने, जग्मुः कृतान्तातिथितां वराकाः ! ॥ ५ ॥ इति धातुवादिकथा ॥ यथा चैते प्रदीपलाध्यानोपि प्रमादप्रनष्टप्रदीपास्तमोविमूढाः सर्पदष्टा गर्ते पतिताश्च तं मार्ग दृष्ट्वाप्यद्रष्टार एव जाताः, एवमन्योऽपि प्राणी कथञ्चित्कर्मक्षयोपशमादेः प्राप्तात् श्रुतज्ञानदीपान्मुक्तिमार्ग दृष्ट्वापि वित्ताद्यासक्तिप्रमादनष्टश्रुतज्ञानदीपो मिथ्याज्ञानतमोविमूढो लोभाहिदष्टः कुगतिगर्ते पतितश्च तस्याऽद्रष्टैव भवति, तथा च न केवलं खतस्त्राणाय वित्तं न भवति किन्तु कथञ्चिलब्धं त्राणहेतु सम्यग्दर्शनादिकमप्युपहन्तीति सूत्रार्थः ॥ ५ ॥ एवं वित्तादि न त्राणायेत्युपदर्श्य यत्कर्तव्यं तदाह
मूलम् - सुत्तेसु आवी पडिबद्धजीवी, न वीससे पंडिअ आसुपपणे । घोरा मुहुत्ता अबलं सरीरं, भारुंडपक्खीव चरप्पमत्तो ॥ ६ ॥
व्याख्या–मुप्तेषु द्रव्यतः शयानेषु, भावतस्तु धर्म प्रत्यजाग्रत्सु, 'चः' पादपूरणे, 'अपिः' सम्भावने, ततोऽयमर्थः, सुतेष्वप्यास्तां जाग्रत्सु प्रतिबुद्धो द्रव्यतो निद्रारहितो, भावतस्तु यथावस्थितवस्तुज्ञानवान्, जीवतीत्येवं शीलः प्रतिबुद्धजीवी, अयं भावः - द्विधा सुप्तेष्वपि निर्विवेकजनेषु विवेकी न गतानुगतिकतया स्वपिति, किन्तु द्विधापि प्रतिबुद्ध एव यावज्जीवमास्ते, अत्र च द्विधाप्यप्रमत्ततायां 'अगडदत्त' उदाहरणं, तत्र चायं सम्प्रदायः । तथा हि
अत्रैव भरते पुण्य - पीयूषकमलाकरे | पद्माश्रितं पद्ममिवा - ऽभवच्छङ्खपुरं पुरम् ॥ १ ॥ न्यायान्यायक्षीरनीर - विवेचनविचक्षणः ॥ राजहंसोऽभवत्तत्र, गुणैर्नाम्ना च सुन्दरः ॥ २ ॥ शक्रस्येव शची तस्य, सुलसाख्या महिष्यभृत् ॥ सर्वाङ्गसुभगालोक - नेत्राध्वगसुधाप्रपा ॥ ३ ॥ यथामनोरथं भोगा - नुपभुञ्जनयोस्तयोः ॥ बभूवागडदत्ताह्रो, नन्दनः सुन्दराकृतिः ॥ ४ ॥ पित्रोर्मनोरथैः सार्धं, वर्धमानः क्रमेण सः ॥ प्राप तारुण्यमस्वर्ण - रत्नं सर्वाङ्गभूषणम् ॥ ५ ॥ लोकंपृणस्य तस्योर्वी - दयितस्य सुतोऽपि सः ॥ जनोद्वेगकरो जज्ञे, भानोः पुत्र इवान्तकः ॥ ६ ॥ स हि हिंसाप्रियोऽलीक - वादी धर्मार्थवर्जितः ॥ रममाणोऽन्यरामाभि - र्निःशङ्कं गर्वपर्वतः ॥ ७ ॥ मांसाशी मद्यपो द्यूत-रतिव्यूतो वृतो विटैः ॥ वेश्यावृन्दैरनुगतो - ऽन्वहं तत्राभ्रमत्पुरे ॥ ८ ॥ [ युग्मम् ] ततो विमुक्तमर्यादं, महोन्मादमुदीक्ष्य तम् ॥ व्याकुलाः सकलाः पौरा, भूपायेति व्यजिज्ञपन् ॥ ९ ॥ स्वामिंस्त्वदीयपुत्रेण, षण्ढवत्स्वैरचारिणा ॥ उद्वेजिता वयं भूरि- भुजगेनेव मूषकाः ! ॥ १० ॥ न च वाच्यं मत्सुतो वः, कथमुद्वेजयेदिति ? ॥ क्षीरोदादपि सम्भूतः, कालकूटो न हन्ति किम् १ ॥ ११ ॥ अनाचारा न ये खप्ने - ऽप्यभवन् भवतां पुरे ॥ ते सर्वेपि तदाचार्ये - णेवानेन प्रवर्तिताः ! ॥ १२ ॥ न चैवं चेष्टमानस्य, तस्योपेक्षा वरीयसी ॥ दाहाय जायते वहि-रिवान्यायो सुपेक्षितः ! ॥ १३ ॥ इत्यादिभिर्लोकवाक्यै - राकर्ण्य सुतचेष्टितम् ॥ मर्यादाजलधिर्भूपः, कोपाटोपाददोवदत् ॥ १४ ॥ अरे ! कुमारं वदत, यन्मे देशाद्वज द्रुतम् ! || अतः परं तवान्यायं, सहिष्ये न हि सर्वथा ! ॥ १५ ॥ पुत्रोप्यन्यायकृन्याय-तत्परैः परिहीयते ॥ न हि कर्णापहं स्वर्ण, केनापि परिधीयते ! ॥ १६ ॥ इदञ्च वचनं राज्ञो, जनश्रुत्या निशम्य सः ॥ खङ्गपाणिरहङ्कारा-त्कुमारो निरगाद्बहिः ॥ १७ ॥ उल्लंघ्याद्रिसरिग्राम- पुरारण्यानि भूरिशः ॥ गङ्गाजलाप्लुताभ्यर्णा, पुरीं वाराणसीं ययौ ॥ १८ ॥ स चापरिचितत्वेन, केनाप्यविहितादरः ॥ बभ्राम विमनास्तत्र, यूथभ्रष्ट इवैणकः ॥ १९ ॥ भ्रमंश्चैवं महात्मानं, शास्त्राकूपारपारगम् ॥ कृपावन्तं पापभीरुं, गम्भीरमुपकारिणम् ॥ २० ॥ रथाश्वगजशिक्षाश्च, शिक्षयन्तं नृपाङ्गजान् ॥ क्वचित्पवनचण्डाख्यं, कलाचार्य स दृष्टवान् ॥ २१ ॥ [ युग्मम् ] तं च प्रेक्ष्य कुमारोन्त-रविन्दत परां मुदम् ॥ निर्वापयन्ति सन्तो हि, दर्शनेनापि चन्द्रवत् ॥ २२ ॥ अमुं कलाचार्यरविं, प्रतिभाभानुभासुरम् ॥ श्रये तमोपनोदार्थ - मिति चान्तरचिन्तयत् ॥ २३ ॥ तत्पादकमले नत्व - पाविशच तदन्तिके ॥ कुतस्त्वमागा इति तं कलाचार्योऽपि पृष्टवान् ॥ २४ ॥ एकान्तेऽथ तमाहूय, कुमारम्यरितं निजम् ॥ जगाद सकलं सत्य- मित्यूचे च कृताञ्जलिः ॥ २५ ॥ खामिन् ! दुर्मतिना क्रीडा - रतिना मयका पुरा ॥ कलाभ्यासः कृतो नास्ति, नास्तिकेन दमो यथा ! ॥ २६ ॥ चिकीर्षामि कलाभ्यासं, पूज्यानामन्तिके ततः ॥ निष्कलो हि पुमान् विश्वे, पशोरप्यतिरिच्यते॥ २७॥ ततोऽलपत्कलाचार्यः, परोपकृतिकर्मठः ॥ वत्स ! मत्सदने स्थित्वा, कलाभ्यासं कुरुष्य हे ! ॥ २८ ॥ किन्तु त्वया स्ववंशादि - प्रकाश्यं नैव कस्यचित् ॥ इहत्यभूपत्वत्पित्रो - र्नास्ति तुष्टिर्मथो