________________
397
उत्तराध्ययन चर्ममयपक्षाश्चर्मचटकाइयः, रोगपक्षिणो रोमप्रधानपक्षा हंसादयः, समुद्पक्षिणः समुद्काकारपक्षास्ते च मानुपत्तराबहिर्भवन्ति ॥ १८६ ॥ विततपक्षिणो ये सर्वदा विस्तारिताभ्यामेव पक्षाभ्यामासते तेपि मानुषोत्तरादहिरेव इत्येवं पक्षिणचतुर्विधाः ॥ १८७ ॥ मूलम्--संतई पप्पऽणाईआ, अपजवसिआवि अ। ठिइं पडुच साईआ, सपज्जवसिआवि अ॥१८॥
पलिओवमस्स भागो,असंखिजइमो भवे । आउठिई खहयराणं, अंतोमुहुत्तं जहण्णिआ १८९ व्याख्या-इहपल्योपमासंख्येयभागायुर्युगलिपक्षिणां ज्ञेयं, तदन्येषां तु गर्भजानां पक्षिणां पूर्वकोटिः । संमूञ्छिमानां तु तेषां द्वासप्ततिवर्षसहस्राण्युत्कृष्टमायुरिति विशेषः ॥ १८८ ॥ १८९ ॥ मूलम्-असंखभागो पलिअस्स,उकोसेण उ साहिओ। पुवकोडिपुहुत्तेणं,अंतोमुहुत्तं जहण्णिआ।१९। ___ कायठिई खहयराणं, अंतरं तेसिमं भवे । कालं अणंतमुक्कोसं, अंतोमुहुत्तं जहण्णगं ॥१९१॥
एएसिं वण्णओ चेव,गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ।१९२॥ मनुजानाहमूलम्-मणुआ दुविहभेआउ, ते मे कित्तयओ सुण । समुच्छिममणुस्साय,गब्भवतिआ तहा।१९३॥
व्याख्या-इह संमूछिममनुष्या ये मनोरहिता गर्भजमनुष्यसम्बन्धिवान्तादिपूत्पत्तिभाजोऽन्तर्मुहर्त्तायुषोऽपर्याप्सा एव नियन्ते ते ज्ञेयाः ॥ १९३ ॥ मूलम्-गम्भवक्कंतिआ जे उ, तिविहा ते विआहिआ। अकम्मकम्मभूमा य,अंतरदीवया तहा १९४॥ ___ व्याख्या-अकम्मेत्यादि-अत्र भूमशब्दस्य प्रत्येकं सम्बन्धादाकर्मभूमास्तत्र कर्माणि कृषिवाणिज्यादीनि न सन्ति यासु ता अकर्मभूमयो हैमवतादिक्षेत्राणि तत्र भवा आकर्मभूमा युगलिनः, एवं कार्मभूमा भरतादिक्षेत्रजाः, अन्तरमिह समुद्रमध्यं तत्र द्वीपा अन्तरद्वीपाः तेषु जाता अन्तरद्वीपजाः ॥ १९४ ॥ मूलम् -पण्णरस तिसई विहा,भेआ य अहवीसई । संखा उ कमसो तेसिं,इइ एसा विआहिआ।१९५॥ __ व्याख्या-'पण्णरस तीसई विहत्ति' विधशब्दस्य प्रत्येकं योगात् पञ्चदशविधाः फार्मभूमाः, कर्मभूमीनां भरतेरषतविदेहानां त्रयाणां प्रत्येकं पञ्चसंख्यत्यात् । त्रिंशद्विधा आकर्मभूमाः, हैमवत-हरिवर्ष-रम्यकवर्ष-हैरण्यवत-देवकुरूत्तरकुरूणां पण्णामकर्मभूमानां प्रत्येकं पञ्चसंख्यत्वात् । इह च क्रमत इत्युक्तेऽपि पश्चानिर्दिष्टानामपि कार्मभूमानां मुक्तिसाधकत्वेन प्राधान्यात् पूर्व भेदाभिधानम् । अन्ये तु 'तीसई एण्णरसविहत्ति' पठन्ति । भेदाश्चाष्टाविशतिरन्तरद्वीपजानामिति विभक्तिपरिणामेन सम्बध्यते, अष्टाविंशतिसंख्यत्वं चैषामेतत्संख्यत्वादन्तरद्वीपानां, ते हि हिमवतः पूर्वापरप्रान्तयोश्चतसृपु विदिक्प्रसृतकोटिपु त्रीणि त्रीणि योजनशतान्यवगाह्य तावन्त्येव योजनशता. न्यायामविस्ताराभ्यां प्रथमे चत्वारोऽन्तरद्वीपाः, ततोऽप्येकैकयोजनशतझ्यावगाहनया योजनशतचतुष्काद्यायाम. विस्तारा द्वितीयादयः पट । एपां चैशान्यादिक्रमात् प्रादक्षिण्येन प्रथमचतुष्कस्य एकोरुक १ आभापिको २ वैषाणिको३ लाङ्गुलिकः ४ इति नामानि । द्वितीयस्य हयकर्ण १ गजकर्ण २ गोकर्ण ३ शष्कुलीकर्णाः ४ । तृतीयस्य आदर्शमुख १ मेपमुख २ हयमुख ३ गजमुखाः ४ । चतुर्थस्याथमुख १ हस्तिगुख २ सिंहमुख ३ व्याघ्रमुखाः ४ । पञ्चमस्याश्वकर्ण १ सिंहकर्ण २ गजकर्ण ३ कर्णप्रावरणाः ४ । पष्ठस्य उल्कामुख १ विद्युन्मुख २ जिह्वामुख ३ मेघमुखाः ४ । सप्तमस्य घनदन्त १ गूढदन्त २ श्रेष्ठदन्त ३ शुद्धदन्ताः ४ इति नामानि । एषु च द्वीपनामसदृशनामान एव युगलिनो वसन्ति । तदेहमानादि चाभ्यां गाथाभ्यां ज्ञेयम् । "अंतरदीयेसु नरा, धणूअसयसिआ सया मुइआ। पालंति मिहुणधम्मं, पलिअस्स असंखभागाऊ ॥१॥ चउसट्ठी पिट्ठकरंडयाणं, मणुआण तेसिमाहारो । भत्तस्स चउत्थस्स उ, गुणसीति दिणाण पालणया ॥२॥"
एते च शिखरिणोऽपि पूर्वापरप्रान्तविदिप्रसृतकोटिपूक्तन्यायतोऽष्टाविंशतिः सन्ति, सर्वसाम्याचैषां भेदेनाविवक्षितत्वान्न सूत्रेऽष्टाविंशतिसंख्याविरोध इति ध्येयम् ॥ १९५ ॥ मूलम्-समुच्छिमाण एसेव, भेओ होइ आहिओ। लोगस्स एगदेसंमि, ते सव्वेवि विआहिआ।१९६।