________________
उत्तराध्ययन
355
सततमप्रमत्तस्य भगवतो योगीन्द्रस्य योगाद्भवति सा ऐर्यापथिकी क्रिया ॥ १३ ॥ तथा भूतंग्रामा जीवसङ्घाताश्चतुर्दश ते चाभी-“एगिदिय सहुमि १ यरा २, सन्नि ३ अर-पणिंदिआ ४ य सबि-ति--चऊ ७ । अपज्जत्ता पजत्ता, भेएणं चउदस १४ ग्गामा ॥१॥" तेषु । तथा परमाश्च ते अधार्मिकाश्च परमाधार्मिकास्तेषु पञ्चदशसु असुरविशेपेपु, यदुक्त-"अंवे १ अंबरिसी २ चेव, सामे ३ सबले ४ त्ति आवरे । रुद्दो ५ वरुद्द ६ काले अ७, महाकालेति ८ आपरे ॥ १॥ असिपत्ते ९ धणू १० कुंभे ११, पालू १२ वेअरणी १३ इय । खरस्सरे १५ महाघोसे १५, एए पण्णरसाहिया ।। २ ॥" तेषु यो भिक्षुर्यतते, यथायोगपरिहाररक्षणज्ञानैः ॥ १२ ॥
मूलम्-गाहासोलसएहि, तहा अस्संजमम्मि य ।
जे भिक्खू जयई निश्चं, से न अच्छइ मंडले ॥ १३ ॥ व्याख्या-गाथा गाथाभिधानमध्ययनं पोडशं येषां तानि गाथाषोडशकानि सूत्रकृताङ्गप्रथमश्रुतस्कन्धाध्ययनानि तेपु, “समओ १ वेआलिअं २, उवसग्गपरिण ३ थीपरिण्णा य ४ । निरयविभत्ती ५ वीरत्थओ ६ य कुसीलाण परिभामा ७॥१॥ वीरियर धम्म ९ समाही १०. मग्ग ११ समोसरण १२ अहतहं १४ । जमतीतं १५ तह गाथा १६, सोलसमं होइ अज्झयणं ॥ २॥” तथा असंयमे च सप्तदशभेदे पृथिव्यादिविपये, सप्तदशसंख्यात्वं चास्य तद्विपक्षस्य संयमस्य सप्तदशभेदत्वात् , यदाहुः-"पुढयि १ दग २ अणि ३ मारुय ४, वणस्सइ ५ वि ६ ति ७ चउ ८ पणिदि ९ अजीवे १० । पेहु ११ प्पेह १२ पमजण १३, परिवण १४ भणो १५ पई १६ काए १७ ॥१॥" पृथिव्यादीनां संघट्टादिपरिहारेण नवधा संयमः ९, अजीयसंयमस्तु अजीवानां सत्त्वोपमईहेतूनां पुस्तकपञ्चक-तृणपञ्चकादीनामुत्सर्गणाऽग्रहणरूपः, अपवादतस्तु ग्रहणेप्येपां यतनया व्यापारणरूपः ॥ ॥ १० ॥ प्रेक्षासंयमश्चक्षुपा वीक्ष्य यत्कार्यकरणं ॥ ११ ॥ उपेक्षासंयमो द्विधा साधुगृहि विपये नोदनाऽनोदनात्मकः ॥ १२ ॥ प्रमार्जनासंयमः सागारिकसमक्षं पादौ न प्रमार्टि, तदभावे तु प्रमार्जयतीत्यादिकः ॥ १३ ॥ परिष्ठापनासंयमो विधिना दोपदुष्टाहारविणमूत्रादिपरिष्ठापनं कुवेतः॥१४॥ मनःसंयमोऽकुशलस्य मनसो निरोधः कुशलस्य तस्योदीरणम् ॥ १५ ॥ एवं वासंयमोऽपि ॥ १६ ॥ कायसंयमः सति कार्ये उपयोगवता गमनागमनादिकार्य, तदभाये संलीनकरचरणेन भाव्यम् ॥ १७ ॥ यो भिक्षुर्यतते एकत्र तदुक्तानुष्ठानादन्यत्र तु परित्यागात् ॥ १३ ॥
मुलम्--भंमि नायज्झयणेसु, ठाणेसु असमाहिए।
जे भिक्खू जयई निचं, से न अच्छइ मंडले ॥ १४ ॥ व्याख्या-ब्रह्मणि ब्रह्मचर्येऽष्टादशप्रकारे, उक्तश्च-"दिव्यौदारिककामानां, कृतानुमतिकारितैः । मनोवाकायत
1, ब्रह्माष्टादशधा मतम् ॥ १॥" तथा ज्ञाताध्ययनेषु उत्क्षिप्तज्ञातादिष्वेकोनविंशतो, यदाहुः-"उक्खित्तगाए १ संघाडे २, अंडे ३ कुम्मे अ १३ सेलए ५। तुंवे ६ अ रोहिणी ७ मल्ली ८, मायंदी ९ चंदिमा १० इस ॥१॥ दावद्दये ११ उदगनाए १२, मंडुक्के १३ तेअली १४ इय । नंदिफले १५ अवरकंका १६, आइण्णे १७ सुंमु १८ पुंडरीए १९ ॥२॥ ति" तथा स्थानेषु आश्रयेषु कारणेष्यित्यर्थः, कस्सेत्साह-असमाधेः । तत्र समाधिज्ञानादिपु चित्तैकाग्र्यं, न समाधिरसमाधिस्तस्य, तानि च विंशतिस्तथा हि-द्रुतद्रुतचारित्वं, द्रुतचारित्वे हि पतनादिना आत्मानमसमाधौ योजयेत् , जीववधे सत्सन्यानपि, परलोके वात्मनः सत्त्ववधनिर्मितकर्मणा असमाधिः स्यात् । एवमन्येप्वप्यसमाधिस्थानत्वं भावनीयम् ॥ १॥ अप्रमार्जितेऽवस्थानादि ॥२॥ दुष्प्रमार्जितेऽवस्थानादि, अनयोः सर्पादिनाऽऽत्मनोऽसमाधिः ॥ ३ ॥ अतिरिक्तशय्यासनत्वं अतिविस्तीर्णशालादौ अन्यैरधिकरणादिना आत्मपरासमाधिः, एकाधिकपीठाधासेवनेऽपि तथैव ॥ ४ ॥ रत्नाधिकपराभवनम् ॥ ५॥ स्थविरपरिभवनम् ॥ ६ ॥ भूतो. पघातः प्रमादादेकेन्द्रियादिहननम् ॥ ७ ॥ संज्वलनं क्षणे २ रोपः ॥ ८॥ क्रोधनं दीर्घकोपकरणम् ॥९॥ पृष्ठमांसिकं परोक्षे परापवादः ॥ १० ॥ अभीक्ष्णं अवधारिणीभापाया भाषणम् ॥ ११ ॥ नवाधिकरणकरणं, अन्यान्यकलहसन्तानयोजनम् ॥ १२ ॥ उदीरणमुपशान्तकलहानामुदीरणम् ॥ १३ ॥ अकाले खाध्यायकरणं, अनेन हि प्रान्तदेवता असमाधी योजयति ॥ १४ ॥ सचित्तपृथ्वीरजःस्पृष्टपाणिना भिक्षाग्रहणं, एवं सरजःपादेनास्थण्डिलगमने