________________
उत्तराध्ययन
354
तथैवोपसर्गसहः स्यात् , एपणा पिण्डग्रहणप्रकारः संसृष्टादिः सप्तधा सा अभिगृहीता अभीग्रहवती म्यात् , तद्यथासप्तसु भक्तपानपणासु अन्याश्चतम्रा एव ग्राद्याः, तत्रापि आद्ययोरग्रहणं । पुनरपि विवक्षितदिवसेऽन्या मध्ये द्वयोरभिग्रहः । एका भक्ते एका च पानके इति । भक्तं पुनरलेपकृत्तस्य इत्यादि परिकर्म कृत्वा ॥ ४ ॥ “गच्छावि णिक्ख मित्ता, पडिवजे मासिकं महापडिमं । दत्तेगभोअणस्सा, पाणस्सवि एग जा मासं" यद्याचार्यः प्रतिपत्ता तदा खल्पकालं साध्वन्तरे खपदं न्यस्य शरत्काले खगणं क्षमयति, प्रतिमाप्रतिपन्नश्चैवं प्रवर्तते ॥ ५ ॥ "जत्थत्यमेइ सूरो, न तओ ठाणा पयंऽपि संचलइ । नाएगराइयासी, एगं य दुर्ग व अण्णाए ।" ज्ञाते उपलक्षिते एकरात्रं वसति, एकं वा द्वे या दिने अज्ञाते ॥ ६ ॥ “दुटाण हत्थिमाईण, नो भएणं पयंपि ओसरहे। एमाइ नियमसेवी, विहरइ जाऽखंडिओ मासो ॥ ७ ॥ पच्छा गम्छमुवेई, एवं दुमासी तिमासि जा सत्त । मवरं दत्ती वइ, जा सत्त उ सत्तमासीए॥८॥ तत्तो अ अट्रमीआ, हवइह पडिमा उ सत्तराइदिणा । तीइ चउस्थचउत्थे ण, पाणएणं इह विसेसो" । अष्टम्यामयं विशेपो यचतुर्विधाहारांश्चतुर्थान् करोति, इहापि च पारणकेप्याचाम्लं कार्य, दत्तिनियमस्तु नास्ति ॥ ९॥ तथा "उत्ताणग-पासली, नेसजी आवि ठाण ठाइत्ता । सहइ उपसग्गे घोरे, दिघाई तत्थ अविकंपो" । उत्तानक ऊर्ध्वमुखशयितः, पासली पार्थमुखशयितः, निपद्यायान् समपुततयोपविष्टः, स्थानमुक्तरूपं स्थित्या ग्रामादिभ्यो बहिरिति शेपः ॥ १० ॥ "दुचाथि एरिसचिअ, वहिआ गामाइआण नवरं तु। उक्कड लगंडसाई, दंडाययो व ठाएजा" । उत्कटुको भूमायन्यस्तपुततयोपविष्टः,'लगंड' दुःस्थितं काष्टं तद्च्छेते यः स लगण्डशायी शीर्पपाणिभिरेव स्पृष्टभूभागो न पृष्ठेन, दण्डबदायतो दीर्घा दण्डायतः, या विकल्पार्थः, स्थित्वा दिव्याद्यपसर्गान सहते इति शेषः ॥ ११॥ "तचावि एरिसञ्चिअ. नवरं ठाणं त तम्स गोदोही । बीरासणमहवावी, ठाइजा अंबखुजो वा" । तिष्ठेदाम्रकुलो वा आम्रफलबद्वक्राकारेणावस्थित इत्यर्थः ॥ १२ ॥ एमेव अहोराई, छटुंभत्तं अपाणगं नवरं । गामनगराण वहिआ, वग्धारिअपाणिए ठाणं ।” एवं पूर्वोक्तनीत्या 'वग्धारिअपाणिएत्ति' प्रलम्बितभुजस्य स्थानं भवति, अहोरात्रिकी प्रतिमा दिनत्रयेण याति, अहोरात्रान्ते पष्ठभक्तकरणात् ॥ १३ ॥ “एमेव एगराई, अहमभत्तेण ठाण वाहिरओ। ईसिंपन्भारगए, अणिमिसनयणेगदिट्ठीए" । अहोरात्रिकोवदेकरात्रिकी अपानाष्टमभक्तेन यत्स्थानं कायोत्सर्गस्तत्कत्तुं वहिछाद्रामादेस्तिष्ठतीति योगः, ईपत्प्राग्भारगत ईपदवनतो नद्यादिदुस्तटीस्थितो वाऽसौ स्यात्, अनिमीपनेत्र एकपुद्गलन्यस्तरष्टिः ॥ १४ ॥ “साहट दोवि पाए, बग्घारियपाणि ठायए ठाणं । बग्घारियलंविभुओ, सेस दसासु जहा भणि" । संहृत्य चतुरङ्गुलान्तरं कृत्वेत्यर्थः वाघारितपाणिः प्रलम्बितभुजस्तिष्ठति स्थानं कायावस्थानविशेषं, इयं प्रतिमाऽहोरात्रानन्तरमष्टमकरणाचतूरात्रिंदिवमाना स्यात् , अस्याश्च सम्यक् पारङ्गतोऽवधिमनःपर्यायकेवल ज्ञानानामन्यतमां लब्धिं प्राप्नोति इति, शेपं दशाश्रुतस्कन्धानुसारेण ज्ञेयं । यो भिक्षुर्यतते यथावत्परिज्ञानोपदेशादिभिः ॥ ११ ॥
मूलम्-किरिआसु भूअग्गामेसु, परमाहम्मिएसु य ।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ १२ ॥ व्याख्या-क्रियासु कर्मवन्धनिवन्धनभूतचेष्टासु अर्थानादिभेदैस्त्रयोदशसु, यदुक्तं-"अट्ठा १ ऽणट्ठा २ हिंसा ३ कम्हा ४ दिट्टीय ५ मोस ६ अदिण्णे ७ । अज्झत्थ ८ माण ९ मित्ते १० माया ११ लोभे १२ रियाव हिया॥१३॥ तत्र अर्थेन वपरप्रयोजनेन क्रिया पृथिव्यादिप्राणिवधोऽर्थक्रिया ॥१॥ तद्विपरीता विनापि प्रयोजनं या प्रयुज्यते सा अनर्थक्रिया ॥ २ ॥ असी मां हतवान् हन्ति हनिप्यति ना तदेनं हन्मीति यद्दण्डारम्भणं सा हिंसाक्रिया ॥३॥ यत्रान्यार्थ वाणादि मुञ्चन्नन्यं हिनस्ति सा अकस्मात् क्रिया ॥ ४ ॥ यत्राऽशत्रुमपि शत्रुरसौ ममेति बुद्ध्या हिनस्ति सा 'दिट्ठीत्ति' दृष्टिविपर्यासक्रिया ॥ ५ ॥ 'मोसत्ति' स्वस्य खजनानां वा हेतोर्यन्मृपा वक्ति सा मृषाभाषा क्रिया ॥ ६ ॥ 'अदिण्णेत्ति' स्वपरादिकृते यददत्तस्य ग्रहगं साऽदत्तग्रहणक्रिया ॥ ७ ॥ यत्र बाबहेतुं विनापि दौर्मनस्यं साऽध्यात्मक्रिया ॥ ८॥ यत्तु जातिमदादिना मत्तः परं हीलयति सा मानक्रिया ॥ ९॥ 'मित्तत्ति' मित्राणा.
पलक्षणयान्मातापित्रादिखजनानां स्वल्पेप्यपराधे यवधवधादितीव्रदण्डकरणं सा मित्रद्वेय वृत्तिक्रिया ॥१०॥ मायया दम्भेन यदन्येपां वधादिकरणं सा मायाक्रिया ॥ ११ ॥ लोभेन तु तत्करणं लोभक्रिया ॥ १२॥ या पुनः