________________
उत्तराध्ययन
333
सर्वकार्याणि इह श्रुताध्ययनादीनि परत्र मोक्षादीनि साधयति, अन्यांच वहुन् जीवान् 'विणइत्तत्ति' विनेता विनयं ग्राहयिता भवति, स्वयं सुस्थितस्योपादेयवचनत्वादिति भावः ॥ ४ ॥ ६ ॥ गुरुशुश्रूषां कुर्वतापि दोषसम्भवे आलोचना कार्येति तामाह
मूलम् - आलोयणयाएणं मंते ! जीवे किं जणयइ ? आलोयणयाएणं माया-नियाण-मिच्छादंसण सल्लाणं मोक्खमग्गविग्घाणं अणंत संसारवद्धणाणं उद्धरणं करेइ, उज्जुभावं च णं जणयइ, उज्जुभावपविन्ने अणं जीवे अमाई इत्थित्रेयं नपुंसगवेयं च न बंधइ, पुवत्रद्धं च णं निजरेइ ॥ ५ ॥ ७ ॥
व्याख्या - आलोचनया स्वदोषाणां गुरोः पुरः प्रकाशनरूपया मायानिदानमिध्यादर्शनशल्यानां मोक्षमार्गविनानामनन्तसंसारवर्द्धनानां उद्धरणं अपनयनं करोति, ऋजुभावं च जनयति, ऋजुभावं प्रतिपन्नश्च जीवो अमायी सन् स्त्रीवेदं नपुंसक वेदं च न बनाति, पुंस्त्वहेतुत्वादमायित्वस्य, पूर्ववद्धं च तदेव द्वयं सकलकर्म वा निर्जरयति क्षपयति ॥ ५ ॥ ७ ॥ आलोचना च खदोपनिन्दावत एव सफलेति तामाह
मूलम् — निंदणयाए णं भंते ! जीवे किं जणयइ ? निंदणयाए णं पच्छाणुतावं जणयइ पच्छाणुतावेणं
विरजमा करणगुणसेटिं पडिवज्जइ, करणगुणसेटिं पडिवन्ने अ अणगारे मोहणिजं कम्मं उग्घाएइ ॥ ६ ॥ ८॥
व्याख्या - निन्दनेन खयमेव खदोषचिन्तनेन पश्रादनुतापं हा ! दुष्टु मया कृतमेतदित्यादिरूपं जनयति, पश्चादनुतापेन च विरज्यमानो वैराग्यं गच्छन् करणेनाऽपूर्वकरणेन गुणश्रेणिः करणगुणश्रेणिः सा च सर्वोपरितन स्थिते - महनीयादिकर्म दलिकान्युपादाय उदयसमयात्प्रभृतिद्वितीयादिसमयेष्वऽसंख्यातगुणा संख्यातगुण पुद्गलप्रक्षेपरूपा तां उपलक्षणत्वात् स्थितिघातरसघातगुणसंक्रमस्थितिवन्धांश्च विशिष्टान् प्रतिपद्यते । अथवा करणगुणेनापूर्वकरणादिमाहात्म्येन श्रेणिः करणगुणश्रेणिः प्रस्तावात्क्षपकश्रेणिरेव तां प्रतिपद्यते, तां प्रतिपन्नश्वानगारो मोहनीयं कर्म उद्घातयति क्षपयति ॥ ६ ॥ ८ ॥ बहुदोपसद्भावे निन्दानन्तरं गर्हापि कार्येति तामाहमूलम् - गरहणयाए णं भंते! जीवे किं जणयइ ? गरहणयाएणं अपुरकारं जणयइ, अपुरकारग ए अ णं जीवे अप्पसत्थेहिंतो जोगेहिंतो निअत्तर, पसत्थे अपवत्तइ, पसत्थजोगपडिवणे अ णं अणगारे अनंतघाई पज्जवे खवेइ ॥ ७ ॥ ९॥
व्याख्या-1 - गर्हणेन परसमक्षमात्मनो दोपोद्भावनेन पुरस्कारो गुणवानयमिति प्रसिद्धिस्तदभावं अवज्ञास्पदत्वमित्यर्थः जनयत्यात्मन इति गम्यं, अपुरस्कारगतश्च जीवः कदाचिदशुभाध्यवसायोत्पत्तावपि तद्भीत्यैव अप्रशस्तेभ्यो योगेभ्यो निवर्त्तते, प्रशस्तयोगेषु च प्रवर्त्तते, प्रशस्तयोग प्रतिपन्नश्च जीवः अनन्तविषयतयाऽनन्ते ज्ञानदर्शने भन्तीत्यनन्तघातिनस्तान् पर्यवान् ज्ञानावरणादिकर्मपरिणतिविशेषान् क्षपयति, उपलक्षणं चैतन्मुक्तिप्राप्तेः तदर्थत्वात्सर्वप्रयासम्य । एवमनुक्तापि सर्वत्र मुक्तिप्राप्तिरेव फलत्वेन द्रष्टव्या ॥ ७ ॥ ९ ॥ आलोचनादिकं च सामायिकवतामेव तत्त्वतः स्यादिति तदाह
मूलम् - सामाइएणं भंते! जीवे किं जणयइ ? सामाइएणं सवसावज्जजोगविरई जणयई ॥ ८ ॥ १० ॥
व्याख्या - सामायिकेन सर्वसावद्ययोगविरतिं सकलसपापव्यापारोपरमं जनयति ॥ ८ ॥ १० ॥ सामायिकप्रतिपत्रा च तत्प्रणेतारोऽर्हन्तः स्तुत्या इति तत्स्तवमाह -
मूलम् — चउवीसत्थएणं भंते ! जीवे किं जणयइ ? चउवीसत्थएणं दंसणविसोहिं जणयइ ॥ ९ ॥ ११ ॥ व्याख्या—स्पष्टम् ॥ ९ ॥ ११ ॥ स्तुत्वापि जिनान् गुरुवन्दनपूर्विकैव सामायिकस्वीकृतिरिति तदाह-मूलम् - वंदणएणं भंते ! जीवे किं जणयइ ? वंदणएणं नीआगोअं कम्मं खवेइ, उच्चागोअं निबंधइ, सोहग्गं च णं अप्पडिहयं आणाफलं निवत्तेई, दाहिणभावं च णं जणयइ ॥ १० ॥ १२ ॥ व्याख्या - 'सोहग्गं चत्ति' सौभाग्यं च सर्वजनस्पृहणीयतारूपं अप्रतिहतमस्खलितमाज्ञाफलं आज्ञासारं निर्वर्त -