________________
332 उत्तराध्ययन टतरं 'हचंति' शीघ्रं आगच्छति, ततोऽनन्तानुबन्धिक्रोधमानमायालोभान् क्षपयति, तथा च नयं कर्म प्रक्रमादशुभं न बनाति, तत्प्रत्ययिकां च कषायक्षयहेतुकां च मिथ्यात्वविशुद्धिं सर्वथा मिथ्यात्वक्षयं कृत्वा दर्शनस्य प्रस्तावात्क्षायिकसम्यक्त्वस्याराधको दर्शनाराधको भवति, दर्शनविशुद्ध्या च विशुद्धया निर्मलया अस्त्येककः कश्चित्तेनैव भवग्रहणेन सिद्ध्यति मरुदेवीवत् , यस्तु तेनैव भवेन न सिध्यति स किमित्याह-'सोहीएत्ति' शुद्धथा प्रक्रमाद्दर्शनस्य विशुद्धया तृतीयं पुनर्भवग्रहणं नातिकामति, उत्कृष्टदर्शनाराधनापेक्षमतत्, यदुक्तं-"उक्कोसदसणेणं भंते ! जीवे कइहिं भवग्गहणेहि सिज्झइ ? गोअमा ! उकोसेणं तेणेव, तइ पुण नाइकमइत्ति" इतः परं सर्वसूत्रेषु सुगमानि पदानि न ज्याख्यास्यन्ते ॥१॥३॥ संवेगादवश्यं निर्वेदः स्यादिति तमाहमूलम्-निवेएणं भंते ! जीवे किं जणयइ ? निवेएणं दिवमाणुस्सतेरिच्छिएसु कामभोगेसु निवेअं
हवमागच्छइ, सवविसएसु विरजइ, सव्वविसएसु विरजमाणे आरंभपरिच्चायं करेइ, आर.
भपरिच्चायं करेमाणे संसारमग्गं वुच्छिदइ, सिद्धिमग्गपडिवण्णे अ भवइ ॥२॥४॥ व्याख्या-निदेन सामान्यतः संसारविरागेण कदाऽसौ त्याज्य इति धिया दिव्यमानुषतैरश्चेषु कामभोगेषु 'निर्वेद' यथाऽलमेभिरनर्थहेतुभिरिति भावं 'हवमागच्छति' तूर्णमाप्नोति, तथा च सर्वविषयेषु समस्तसांसारिका स्तुषु विरज्यते, विरज्यमानश्वारम्भपरित्यागं करोति, विषयार्थत्वात्सर्वारम्भाणां, तत्परित्यागं च कुर्वन् संसारमार्ग मिथ्यात्वाविरत्यादिकं व्यवग्छिनत्ति, तत्त्याग एव तत्वत आरम्भपरिहारसम्भवात् , तयबछित्तौ च सुप्राप एव मुक्तिमार्गः सम्यग्दर्शनादिरिति सिद्धिमार्गप्रतिपन्नश्च भवति ॥२॥४॥ निर्वेदोऽपि धर्मश्रद्धावतामेव स्वादिति तामाहमूलम्-धम्मसद्भागणं भंते ! जीवे किं जणयइ ? धम्मसद्धाएणं सायासोक्खेसु रजमाणे विरजइ,
अगारधम्मं च णं चयइ, अणगारे णं जीवे सारीरमाणसाणं दुक्खाणं छेयण-भेयण-संजो.
गाईणं वुच्छेअं करेइ, अवाबाहं च सुहं निवत्तेइ ॥ ३ ॥ ५॥ व्याख्या-धर्मश्रद्धया सातं सातवेदनीयं तजनितानि सौख्यानि विषयसुखानीत्यर्थः तेषु रज्यमानः पूर्व रागं कुर्वन् विरज्यते विरागं याति, अगारधर्म च गृहाचारं गार्हस्थ्यमित्यर्थः त्यजति जहाति, ततश्चाऽनगारो यतिः सन् जीवः शारीरमानसानां दुःखानां 'छेअणेत्यादि' 'छेदनं'खगादिना 'भेदनं' कुन्तादिना आदिशब्दस्तेहापि सम्बन्धा. च्छेदनभेदनादीनां शारीगणां संयोगः प्रस्तावादनिष्ठानां आदिशब्दादिष्टवियोगादिग्रहस्ततोऽनिष्टसंयोगादीनां च मानसदुःखानां व्यवच्छेदं करोति, अत एव अव्यावाधं च सुखं निर्वर्त्तयति जनयति ॥ ३॥५॥ धर्मश्रद्धावता च गुर्वादेः शुश्रूपाऽवश्यं कार्यति तामाहमूलम्-गुरुसाहम्मियसुस्सूसणयाए णंभंते ! जीवे किं जणयइ ? गुरुसाहम्मियसुस्सूसणयाए णं विण
यपडिवत्तिं जणयइ, विणयपडिवण्णे अ णं जीवे अणच्चासायणासीले नेरइअ-तिरिक्खजो. णिअ-मणुस्स-देवदुग्गइओ निरंभइ, वण्णसंजलणभत्तिवहुमाणयाए मणुस्सदेवसुग्गईओ निबंधइ, सिद्धिसोग्गइं च विसोहेइ, पसत्थाइं च णं विणयमूलाई सबकजाई, साहेइ, अन्ने
अ वहवे जीने विणइत्ता भवइ ॥ ४ ॥ ६ ॥ व्याख्या-गुरुसाधर्मिकशुश्रूपणेन तदुपासनरूपेण विनयप्रतिपत्तिमुचितकृत्यकरणाङ्गीकाररूपां जनयति, 'विणयपडिवण्णे अत्ति' सूत्रत्गत् प्रतिपन्नविनयश्च जीवो अनत्याशातनाशीलः, कोऽर्थः ? गुरुपरिवादादिपरिहारादत्याशातनात्यागी सन् 'नेरइअइत्यादि' नरैयिकाश्च तिर्यञ्चश्च नैरयिकतिर्यञ्चस्तेषां योनी नैरयिकतिर्यग्योनी खार्थिकेके नैरयिकतीर्यग्योनिके ते च मनुष्यदेवदुर्गती च म्लेच्छकिल्विषत्वादिके निरुणद्धि, तथा वर्णः श्लाघा तेन संज्वलनं गुणोद्भासनं वर्णसंज्वलनं, भक्तिरभ्युत्थानादिका, बहुमान आन्तरा प्रीतिरेषां द्वन्द्वे भावप्रत्यये च वर्णसंज्वलनभक्तिबहुमा नता तया प्रक्रमाद्गुरूणां मनुष्यदेवसुगती सुकुलैश्वर्यादियुक्ते निवनाति तत्प्रायोग्यकर्मवन्धनादिति भावः, सिद्धिसुगतिं च विशोधयति तन्मार्गभूतसम्यग्दर्शनादिविशोधनेन प्रशस्तानि प्रशंसास्पदानि विनयमूलानि विनयहेतुकानि