________________
329
उत्तराध्ययन
व्याख्या - शङ्कनं शङ्कितं देश सर्वशङ्कारूपं तदभावो निःशङ्कितं । तथा कांक्षणं कांक्षितं अन्यान्यदर्शनाभिलाषात्मकं तदभावो निःकांक्षितं । विचिकित्सा फलं प्रति सन्देहः, यद्वा विदो विज्ञास्ते च साधव एव तेषां जुगुप्सा निन्दा, तदभावो 'निर्विचिकित्सं' 'निर्विजुगुप्स' या आर्षत्वाच्च सूत्रे एवं पाठः । 'अमूढा' ऋद्धिमत्कुतीर्थिकदर्शनेऽपि निन्द्यमस्मद्दर्शनमिति मोहहीना सा चासौ दृष्टिश्च बुद्धिरूपा अमूहरष्टिः, सा च । अयं चतुर्विधोऽप्यान्तर माचार उक्त बाथमाह-उपबृंहा दर्शनादिगुणवतां प्रशंसया तत्तगुणपरिवर्द्धनं, स्थिरीकरणं स्वीकृतधर्मानुष्ठानं प्रति सीदतां स्थैर्यापादनं, तयोर्द्वन्द्वे उपबृंहास्थिरीकरणे । वात्सल्यं धार्मिकजनस्योचितप्रतिपत्तिकरणं, प्रभावना स्वतीनतिचेष्टासु प्रवर्त्तनं, अनयोर्द्वन्द्वे वात्सल्यप्रभावने । 'अट्ठत्ति' अष्टामी दर्शनाचारा भवन्तीति शेषः इति सूत्रार्थः ॥ ३१ ॥ इत्थं ज्ञानदर्शनरूपं मुक्तिमार्गमुक्त्वा चारित्ररूपं तमाह-
मूलम्
(- सामाइअ त्थ पढमं, छेओवट्टावणं भवे बीअं । परिहारविसुद्धीअं, सुहुमं तह संपरायं च ॥ ३२ ॥ अकसायमहक्खामं, छउमत्थस्स जिणस्स वा । एअं चयरित्तकरं, चारितं होइ आहिअं ॥ ३३ ॥ व्याख्या - समो रागद्वेषरहितः, स चेहप्रक्रमा चित्तपरिणामस्तत्राऽऽयो गमनं समायः, स एव सामायिकं, सर्वसावद्ययोगत्यागः, 'त्थ' पूरणे, प्रथममाद्यं । इदं च द्विधा, 'इत्वरं' 'यावत्कथिकं' च । तत्रेत्वरं भरतैरावतयोः प्रथमचरमजिनतीर्थयोरुपस्थापनां यावत्, नत्र हि छेदोपस्थापनीयभावेन तद्यपदेशाभावात् । यावत्कथिकं च तयोरेव क्षेत्रयोर्मध्यमात्तीर्थेषु विदेहेषु च तत्र ह्युपस्थापनाया अभावेन सामायिकव्यपदेश एव यावज्जीवं स्यात् । तथा ‘छेदः’ सातिचारस्य साधोर्निरतिचारस्य वा शिष्यस्य तीर्थान्तरसम्बन्धिनो वा तीर्थान्तरं प्रतिपद्यमानस्य पूर्वपर्यायव्यवच्छेदः, तद्युक्ता उपस्थापना महाव्रतारोपणा यत्र तच्छेदोपस्थापनं भवेत् द्वितीयम् । तथा परिहरणं परिहारो विशिष्टतपोङ्गीकारेण गच्छस्य त्यागस्तेन विशुद्धिरस्मिन्निति परिहारविशुद्धिकं । तत्स्वरूपं चेदं नव मुनयो गणान्निर्गत्य जिनाभ्यर्णे परिहारविशुद्धिकं प्रतिपन्नपूर्वस्य जिनस्य वा पार्श्वे इदं प्रतिपद्यन्ते । तेष्वेको गुरुर्भवति, चत्वा - रस्तपः कुर्वन्ति, चत्वारस्तु तद्वैयावृत्त्यं । तपश्च तेषां ग्रीष्मकाले जघन्यमध्यमोत्कृष्टं चतुर्थपष्टाष्टमरूपं, शीतकाले तु षष्टाष्टमदशमरूपं, वर्षाकाले चाष्टमदशमद्वादशलक्षणं भवति । ते च पारणकेषु गुरुर्वैयावृत्यकराश्च नित्यमाचाम्लं कुर्वन्ति । षण्मासातिक्रमे तु तपस्करा वैयावृत्त्यं, वैयावृत्त्यकराश्च तपः प्रतिपद्यन्ते । तेषामपि षण्मासात्यये तन्मsurat गुरुत्वं, गुरुस्तपः, अन्ये तु सप्त वैयावृत्त्यं स्वीकुर्वन्ति । अतीते तु सार्द्धवर्षे ते पुनः तदेव तपो जिनकल्प वा गच्छं वाऽभ्युपगच्छन्ति, तेषां यच्चारित्रं तत्परिहारविशुद्धिकमिति । इदं च भरतैरावतयोरेव प्रथमान्तिमतीर्थकृत्तीर्थे स्यान्नान्यत्रेति । 'सुडुमं तह संपरायं चन्ति' तथेत्यानन्तर्ये छन्दोभङ्गनिरासार्थ पदमध्येऽपि न्यस्तः, सूक्ष्मः किट्टीकरणात्सम्परायो लोभारव्यः कषायो यस्मिंस्तत् सूक्ष्म सम्परायं, इदं च क्षपक श्रेण्युपशमश्रेण्योर्लोभाणुवेदनसमये स्यात् ॥ ३२ ॥ अकषायं अनुदितकषायं क्षपितोपशमितकषायावस्थाभावि 'यथाख्यातं ' जिनोक्तखरूपमनतिक्रान्तं, छग्नस्थस्योपशान्तक्षीणमोहाख्यगुणस्थानद्वयवर्त्तिनो, जिनस्य वा केवलिनः सयोग्ययोगिगुणस्थानद्वयस्थायिनो भवतीति शेषः । 'एअंति' एतदनन्तरोक्तं सामायिकादिपञ्चभेदं चयस्य राशेः प्रक्रमात्कर्मणां रिक्तं विरेकोऽमाव इत्यर्थः, तत्करोतीति च रिक्तकरं चारित्रं भवत्याख्यातं जिनादिभिरिति गम्यते इति सूत्रद्वयार्थः ॥ ३३ ॥ सम्प्रति तपोरूपं चतुर्थ कारणमाह
मूलम् — तवो अ दुविहो वुत्तो, बाहिरभितरो तहा । बाहिरो छविहो वृत्तो, एवमभितरी तवो ॥ ३४ ॥ व्याख्या—अस्याक्षरार्थः स्पष्टो भावार्थस्तु तपोध्ययने वक्ष्यते ॥ ३४ ॥ अथैषां मुक्तिमार्गत्वे कस्य कतरो
व्यापार इत्याह
मूलम् - नाणेण जाणई भावे, दंसणेण य सहहे । चरित्तेण न गिण्हाइ, तवेण परिसुझइ ॥ ३५ ॥
व्याख्या - ज्ञानेन श्रुतादिना जानाति भावान् जीवादीन् दर्शनेन च तानेव श्रद्धत्ते, चारित्रेण आश्रवद्वारनिरोधरूपेण न गृह्णाति नादत्ते कर्मेति गम्यते, तपसा परिशुध्यति पूर्वोपचितकर्मणः क्षपणात् शुद्धो भवति इति सूत्रार्थः ॥ ३५ ॥ अनेन मार्गस्य फलं मोक्ष उक्तः, सम्प्रति मोक्षफलभूतां पतिमाह-