________________
328
उत्तराध्ययन
अयं भावः - दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्ति स खलु क्रियारुचिर्नामेत्यभ्युपगन्तव्यः ॥ २५ ॥ संक्षेपरुचिमाह
मूलम् - अणभिग्गहिअकुविट्ठी, संखेवरुइत्ति होइ नायवो । अविसारओ पवयणे, अणभिग्गहिओ अ सेसेसु ॥ २६ ॥
व्याख्या - अनभिगृहीता अनङ्गीकृता कुदृष्टिः सौगतादिमतरूपा येन स तथा संक्षेपरुचिरिति भवति ज्ञातत्र्यः, अविशारदोऽकुशलः प्रवचने जिनमते, अनभिगृहीतोऽनभिज्ञः शेषेषु कपिलादिप्रणीतप्रवचनेषु, अयं भावो य उक्तविशेषणविशिष्टः संक्षेपेणैव चिलातिपुत्र इव पदत्रयेण तत्वं श्रद्दधाति स संक्षेपरुचिः ॥ २६ ॥ धर्मरुचिमाह - मूलम् — जो अत्थिकायधम्मं, सुअधम्मं खलु वरितधम्मं च । सहइ जिणाभिहिअं, सो धम्मरुइत्ति नायवो ॥ २७ ॥
व्याख्या - योऽस्तिकायानां धर्मादीनां धर्मो गत्युपष्टम्भादिरस्तिकायधर्मस्तं श्रुतधर्ममागमरूपं, चरित्रधम्मैच सामायिकादिभेदं श्रद्दधाति जिनाभिहितं । धर्मेषु पर्यायेषु धर्मे वा श्रुतधर्मादौ रुचिरस्येति कृत्वा स धर्मरुचि - रिति ज्ञातव्यः । शिष्यव्युत्पादनार्थं चैत्रमुपाधिभेदतः सम्यक्त्वभेदाभिधानं, अन्यथा हि निसर्गोपदेशाधिगमादिषु कचित्केषाञ्चिदन्तर्भावे न ह्येतावन्तो मेदाः सम्भवन्तीति भावनीयमित्येकादशसूत्रार्थः ॥ २७ ॥ कैः पुनर्लिङ्गेः सम्यक्त्वमस्तीति श्रद्धेयमित्याह
मूलम् — परमत्थसंथवो वा, सुदिट्ठपरमत्थसेवणा वावि । वावण्णकुदंसणवज्जणा य सम्मत्तसद्दहणा॥२८॥
व्याख्या --- परमास्तात्विकास्ते च ते अर्थाश्च जीवादयः परमार्थास्तेषु संस्तवस्तत्स्वरूपस्य पुनः पुनश्चिन्तनाकृतः परिचयः परमार्थसंस्तवः, 'वा' शब्दः समुच्चये, सुष्ठु दृष्टाः उपलब्धाः परमार्था यैस्ते सुपरमार्था आचार्यादयस्तत्सेवनं, चकारो ऽनुक्तसंग्रहे, ततो यथाशक्ति तद्वैयावृत्त्यादिकरणं च, अपिः समुच्चये, 'घावण्णकुदंसणत्ति' दर्शनशब्दः प्रत्येकं सम्बध्यते, ततो व्यापन्नं विनष्टं दर्शनं येषां ते व्यापन्नदर्शना निह्रवादयः, तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः शाक्यादयः, तेषां वर्जनं व्यापन्नकुदर्शनवर्जनं । सर्वत्र सूत्रत्वात्त्रीत्वं, चः समुच्चये, सम्यक्त्वं श्रद्धीयतेऽ
ति सम्यक्त्वश्रद्धानमिदं, एभिर्लिङ्गैः सम्यक्त्वं श्रद्धीयते इति भाव इति सूत्रार्थः ॥ २८ ॥ इत्यं सम्यक्त्वलिङ्गान्यभिधाय तस्यैव महात्म्य मुपदर्शयन्नाह -
मूलम् - नत्थि चरितं सम्मत्त - - विहूणं दंसणे उ भइअहं । सम्भत्तचरित्ताई, जुगवं पुत्रं व सम्मत्तं ॥ २९ ॥
व्याख्या - नास्ति उपलक्षणत्वान्नासीन्न भविष्यति च चारित्रं सम्यक्त्वविहीनं, अयं भावो न यावत्सम्यक्त्वप्रासिर्न तावद्भाव चारित्रमिति, दर्शने तु सम्यक्त्वे पुनः सति भक्तव्यं, भवति वा न था, प्रक्रमाचारित्रं । किमित्येवमत आह- सम्यक्त्वचरित्रे युगपत्समुत्पद्येते इति शेषः, पूर्व या चारित्रोत्पत्तेः सम्यक्त्वमुत्पद्यते । ततो यदा युगपदुत्पादस्तदा तयोः सहभावो, यदा तु पूर्व सम्यक्त्वं तदा तत्र चारित्रं भाज्यम् ॥ २९ ॥ अन्यच -
मूलम् - नादंसणिस्स नाणं, नाणेण विणा न होन्ति चरणगुणा । अगुणिस्स नत्थि मोक्खो, नत्थि अमुक्कस्स निवाणं ॥ ३० ॥
व्याख्या - नादर्शनिनः सम्यक्त्वरहितस्य ज्ञानं सम्यग् ज्ञानं, ज्ञानेन विना ज्ञानरहिता न भवन्ति चरण गुणाः, तत्र चरणं व्रतादि, गुणाः पिण्डविशुद्ध्यादयः, अगुणिनोऽनन्तरोक्तगुणरहितस्य नास्ति मोक्षो निखिलकर्मक्षयात्मकः, नास्ति अमुक्तस्य कर्मणेति गम्यते निर्वाणं मुक्तिपदावाप्तिः । तदत्र पूर्वसूत्रेण मुक्त्यनन्तरहेतोरपि चरणस्य सम्यक्त्वभाव एव भवनं तन्माहात्म्यमुक्तमनेन तु सूत्रेण सम्यक्त्वाभावे उत्तरोत्तरगुणव्यतिरेकदर्शनेनेति सूत्रद्वयार्थ ः ३० ॥ अस्य चाष्टविधाचारयुक्तस्यैवोत्तरोत्तरगुणावाप्तिहेतुत्वमिति तान् दर्शयितुमाह
मूलम् - निस्संकिय निक्कंखिय, निवितिगिच्छा अमूढदिट्ठी अ । उववूह - थिरीकरणे, वच्छल - पभावणे अट्ठ ॥ ३१ ॥