________________
326 उसराध्ययन मूलम्-सइंधयार उजोओ, पहा छायाऽऽतवेइ वा। वण्ण-रस-गंध-फासा, पुग्गलाणं तु लक्खण१२
व्याख्या-शब्दो ध्वनिः, अन्धकारो ध्वान्तं, उभयत्र सुपो लुप् । उद्योतो रत्नादिप्रकाशः, प्रभा चन्द्रादिरुचिः, छाया शैत्यगुणा, आतपस्तपनबिम्बजोष्णप्रकाशरूपः, 'इति' शब्द आधर्थस्ततश्च सम्बन्धभेदादीनां परिग्रहः, वा समुषये । तथा वर्णः कृष्णादिः, रसस्तिक्तादिः, गन्धः सुरभिप्रभृतिः, स्पर्शः शीतादिरेषां द्वन्द्वः । पुद्गलानां स्कन्धादीनां तु पुनर्लक्षणं, एभिरेव तेषां लक्ष्यत्वादिति ॥ १२ ॥ द्रव्यलक्षणमुक्त्वा पर्यायलक्षणमाहमूलम्-एगतं च पुहत्तं च, संखा संठाणमेव य । संजोगा य विभागा य, पजवाणं तु लक्खणं ॥१३॥
व्याख्या-एकत्वं भिन्नेष्वपि परमाण्वादिषु यदेकोयं घटादिरिति प्रतीतिहेतुः, पृथक्त्वं च अयमस्मात्पृथगिति प्रत्ययनिमित्तं, संख्या यत एको हौ त्रय इत्यादिका प्रतीतिर्जायते, संस्थानं परिमण्डलोयमित्यादि बुद्धिनिवन्धनं, एवः पूत्तौं, चः समुचये, संयोगा अपमहुल्योः संयोग इत्यादिव्यपदेशहेतवः, विभागाथायमितो विभक्त इतिमतिहेतवः, उभयत्र व्यक्त्यपेक्षया बहुवचनं, उपलक्षणत्वानवपुराणत्यादीनि च, पर्यवाणां तुः पूर्ती, लक्षणं । गुणानां तु रूपादीनामतिप्रतीतत्वालक्षणं नोक्तमिति सूत्रनवकार्थः ॥ १३॥ इत्यं खरूपतो विषयतम ज्ञानममिधाय दर्शनमाहमूलम्-जीवाऽजीवा य बंधो अ, पुण्णं पावासबो तहा।संवरो निजरा मोक्खो, संतेए तहिआ नव॥१४॥
व्याख्या-जीवाः प्रतीताः, अजीवा धर्मालिकायादयः, बन्धश्च जीवकर्मणोः संश्लेषः, पुण्यं शुभप्रकृतिरूप सातादि, पापमशुभप्रकृतिरूपं मिथ्यात्वादि, आश्रयः कर्मोपादानहेतुर्हिसादिः, पुण्यादीनां इन्दः । तथेति समुपये, संवरो महाप्रतादिभिराश्रयनिरोषः, निर्जरा विपाकात्तपसो वा कर्मपरिशाटः, मोक्षः सकलकर्मक्षवलक्षणः, सन्वते तथ्या नव भाषा इति शेषः ॥ १४ ॥ यद्यमी तथ्यास्ततः किमित्याहमूलम्-तहिआणं तु भावाणं, सम्भावे उवएसणं । भावेण सदहंतस्स, संमत्तं ति विआहि ॥१५॥ __ व्याख्या-तथ्यानां तु भावानां जीवादीनां सद्भावे सद्भापविषयमवितथसत्ताभिधायकमित्यर्थः, उपदेशनं गुर्वादीनामुपदेशं भायेनान्तःकरणेन श्रद्दधतस्तथेति प्रतिपद्यमानस्य जन्तोः सम्यक्त्वं सम्यक्त्वमोहनीयक्षयादिसमुत्थास्मपरिणामरूपं तदिति जीवादिभावश्रद्धानं व्याख्यातं विशेषेणाख्यातं, जिनैरिति गम्बत इति भूत्रार्थः ॥ १५ ॥ एवं सम्यक्त्वखरूपमुक्त्वा तद्भेदानाह
मूलम्-निस्सग्गुवएसरुई, आगोरुइ सुत-बीअरुइमेव ।
अभिगम-विस्थाररुइ, किरिआ-संखेव-धम्मरुई ॥ १६ ॥ व्याख्या-'निस्सग्गुपएसरुइत्ति' रुचिशब्दः प्रत्येकं योज्यते, ततो निसर्गः खभावस्तेन रुचिस्तत्वाभिलायोडस्पेति निसर्गरुचिः १ । उपदेशो गुर्वादिकथनं तेन रुचिर्यस्वेत्युपदेशरुचिः २ । आज्ञा सर्वज्ञवचनात्मिका तया रुचियस्य स तथा ३ । 'सुत्तबीअरुइमेवत्ति' इहापि रुचिशब्दस्य प्रत्येकं योगात्सूत्रेणागमेन रुचिर्यस्य स सूत्ररुचिः४। वीजमिव बीजं यदेकमप्यनेकार्थप्रबोधोत्पादकं वचस्तेन रुचिर्यस्य स वीजरुचिः ५ । अनयोः समाहारः, एवेति समुच्चये। अभिगमो विज्ञानं, विस्तरो व्यासस्तान्यां प्रत्येकं रुचिशब्दो योज्यते ततोऽमिगमरुचिर्विस्ताररुचिश्चेति ६-७ तथा क्रिया अनुष्ठानं, संक्षेपः संग्रहो धर्मः श्रुतधर्मादिस्तेषु रुचिर्यस्येति प्रत्येकं रुचिशब्दयोगाक्रियारूचिः संक्षेपरुचिर्धर्मरुचिच-८-९-१०-विज्ञेय इति शेषः । यह सम्यक्त्वस्य जीवानन्यत्वेनाभिधानं तद्गुणगुणिनोः कथञ्चिदभेद इति ख्यापनार्थमिति सूत्रसंक्षेपार्थः ॥ १६ ॥ व्यासार्थ तु खत एवाह सूत्रकृत्मूलम्-भूअत्थेणाहिगया, जीवाऽजीवाय पुण्ण-पावं च । सहसंमुइआ आसवसंवरे अरोएइ उ निसग्गो ___ व्याख्या-'भूअत्थेणत्ति' भावप्रधानत्वानिर्देशस्य भूतार्थत्वेन सद्भूता एते अर्था इत्येवंरूपेण निर्णयेनाधिगताः परिच्छिन्ना येनेति गम्यते, जीवा अजीवाश्च पुण्यपापं च, कथमधिगता इत्याह-'सहसंमुइत्ति' सोपस्कारत्वात् सूत्रत्वाच सहात्मना या सङ्गता मतिः सा सहसंमतिस्तया, कोर्थः १ परोपदेशनिरपेक्षया जातिस्मरणादिरूपया बुद्ध्या 'आसवसंवरे अत्ति' आश्रवसंवरौ चशब्दोऽनुक्तबन्धादिसमुच्चये, ततो बन्धादयश्च येनाधिगता इतियोगः ।