________________
210
उत्तराध्ययन
॥ अथ षोडशमध्ययनम् ॥
॥ ॐ ॥व्याख्यातं पञ्चदशमध्ययनमथपोडशमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने भिक्षुगुणा उक्तास्ते च तत्वतो ब्रहाचर्यस्थितस्य भवन्ति, तदपि ब्रह्मगुप्तिज्ञानेनेति ता इहाभिधीयन्ते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्येदमादिसूत्रम्मूलम्-सुअं मे आउसंतेणं भगवया एवमक्खायं, इह खलु थेरेहिं भगवंतेहिं दस बंभचेरसमाहि. ढाणा पण्णत्ता, जे भिक्खू सोचा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ने गुतिदिए गुत्तवंभयारी सया अप्पमत्ते विहरिजा ॥१॥ - व्याख्या-सुधर्मा खामी जम्बूनामानमाह-श्रुतं मया हे आयुष्मन् ! तेन भगवता ज्ञातकुलजलधिनन्द्रेण श्रीयईमानजिनेन्द्रेण एवमाख्यातं कथितं. कथमित्याह-सोपस्कारत्वात्सूत्रस्यात्र यथेति गम्यते, ततो' निश्चये स्थविरैर्गणधरादिभिर्भगवद्भिर्दश ब्रह्मचर्यसमाधिस्थानानि प्रजातानि, अयं भावः-नैपां स्थविराणामियं समनीपिका किन्तु भगवताप्येतदेवमेवाख्यातं मया श्रुतं, ततोऽत्र माऽनास्थां कृथाः । ब्रह्मचर्यसमाधिस्थानान्येवं विशिनष्टि, 'ये' इति यानि भिक्षुः श्रुत्वाऽऽकर्ण्य निशम्यार्थतोवधार्य 'संजमबहुलेत्ति' प्राकृतत्वाद्वहुलः प्रचुर उत्तरोत्तरस्थानावाप्त्या संयमोऽस्येति बहुलसंयमः, अत एव बहुलः संवर आश्रवद्वारनिरोधरूपोऽस्येति बहुलसंवरः, अत एव बहु
तत्र समाधिर्मनःखास्थ्य, गुप्तो मनोवाक्कायैस्तत एव च गुप्तेन्द्रियः, तत एव च गुप्त नवगुप्तिसेवनाद् ब्रह्मेति ब्रह्मचर्य चरितुं शीलमस्येति गुप्तब्रह्मचारी, सदा अप्रमत्तो विहरेदिति सूत्रार्थः ॥१॥ मूलम्क यरे खलु ते थेरेहिं भगवंतेहिं दस बंभचेरसमाहिहाणा पण्णत्ता ? जे भिक्खू सोच्चा निसम्म संजम वहुले संवरवहुले समाहिबहुले गुत्ते गुत्तिदिए गुत्तबंभयारी सया अप्पमत्ते विहरिजा ॥२॥ इमे खलु ते थेरेहिं भगवंतेहिं दस बंभचेरसमाहिटाणा पण्णत्ता, जे भिक्खू सोच्चा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुतिदिए गुत्तबंभयारी सया अप्पमत्ते विहरिजा ॥३॥ ___ व्याख्या-इमे प्रश्ननिर्वचनसूत्रे प्राग्वत् , तान्येवाहमूलम्-तंजहा। विवित्ताई सयणासणाई सेविजा से निग्गंथे, नो इत्थीपसुपंडगसंसत्ताई सयणासणाइं सेवित्ता हवइ से निग्गंथे, तं कहमितिचे आयरिआह-निग्गंथस्स खलु इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवमाणस्स बंभयारिस्त बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा, भेअं वा लभेजा, उम्मायं वा पाउणिज्जा, दीहकालिअंवा रोगायंकं हविजा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा नो इत्थिपसुपंडगसंसत्ताई सयणासणाइं सेवित्ता हवइ से निग्गंथे ॥४॥ ___ व्याख्या-तद्यथेत्युपन्यासे विविक्तानि स्त्रीपशुपण्डकैरनाकीर्णानि शयनासनानि उपलक्षणत्वात् स्थानानि च सेवेत यः स निर्गन्थो भवतीति शेषः । इत्थमन्वयेनोक्त्वा अल्पमतिविनेयानुग्रहार्थममुमेवार्थ व्यतिरेकत आहनैव स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेविता उपभोक्ता भवति, तदित्यनन्तरोक्तं कथं ? कुतो हेतोरिति चेदेवं यदि मन्यसे आचार्य आह-अत्रोच्यते,निर्ग्रन्थस्य खलु निश्चितं स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेवमानस्य 'बमयारिस्सत्ति' अपेर्गम्यत्वाद्ब्रह्मचारिणोपि सतो ब्रह्मचर्ये शङ्का वा इहान्येषामिति गम्यते, ततश्च किमयमेवंविधशयनासनसेवी ब्रह्मचारी? उत नेति शङ्काऽन्येषां स्यात् । अथवा ब्रह्मचारिण एव शङ्का ख्यादिदर्शनादुत्पन्नगाढानुरागस्य विस्मृतसकलाप्तोपदेशस्य "सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः ॥ अस्मिन्नसारे संसारे, सारं सारङ्गलो. चना ! ॥१॥” इत्यादि रागातुरवचः परिभावयतो मिथ्यात्वोदयात्कदाचित्तदासेवने यो दोषस्तीर्थकरैरुक्तः स नैव भवतीत्येवं संशय उत्पद्यते । कांक्षा वा स्यादिवाञ्छारूपा "प्रियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरैः ॥ निर्वाणं प्राप्यते येन, सरागेणापि चेतसा ? ॥१॥ इत्यादिवादिदर्शनाभिलाषरूपा वा । विचिकित्सा किमेतावतः कष्टानुष्ठानस्य फलं भावि न वा तद्वरमेतदासेवनमेवास्तु ! इत्येवंरूपा समुत्पद्येत । भेदं वा विनाशं चारित्रस्येति शेषः, लभेत ।