________________
209 उत्तराध्ययन वृद्धव्याख्या । यथादृष्टसूत्रव्याख्याने त्येवमप्यर्थः सम्भवति, यत्किञ्चिदाहारादिकं पूर्वोक्तं परेभ्यो गृहस्थेभ्यो लम्वा यः 'तंति' वचनव्यत्ययात्तान् दातॄन् त्रिविधेन नानुकम्पते, मुधाजीवित्वानोपकर्तुमिच्छति स मनोवाकायसुसंवतो भिक्षुरिति सूत्रार्थः ॥ १२ ॥ तथा
मूलम्-आयामगं चेव जवोदणं च, सीअं सोवीर जवोदगं च ।
नो हीलए पिंडं नीरसं तु, पंतकुलाणि परिवए स भिक्खू ॥ १३ ॥ व्याख्या-आयामकं अवश्रावणं, 'चेवत्ति' समुच्चये, यवौदनं च ययभक्तं, शीतं शीतलभक्तं, सौवीरं च काजिकं, ययोदकं च यवधावनं सौवीरयवोदकं, तच नो हीलयेत् ,धिगिदं किमनेनानिष्टेनेति न निन्देत् , पिण्डं आयामकादिकमेव नीरसमपि तुशब्दस्याप्यर्थत्वात् अत एव प्रान्तकुलानि तुच्छाशयकुलानि दरिद्रगृहाणि वा यः परिव्रजेत् स भिक्षुरिति सूत्रार्थः ॥ १३ ॥ किञ्च
मूलम्-सदा विविहा भवंति लोए, दिवा माणुस्सा तहा तिरिच्छा।
__ भीमा भयभेरवा उराला, जो सोच्चा न बिहिजइ स भिक्खू ॥ १४ ॥ व्याख्या--शब्दा विविधाः परीक्षाप्रवेपादिना क्रियमाणतयानेकप्रकारा भवन्ति लोके, दिव्या देवसम्बन्धिनो मानुष्यका मनुष्यसम्बन्धिनस्तथा तैरचा तिर्यक्सम्बन्धिनः, भीमा रौद्राः, भयेन भैरवा महाभयोत्पादका भयभैरवाः, उदारा महान्तः, यस्तान् शब्दान् श्रुत्वा न बिभेति धर्मध्यानान्न चलति स भिक्षुरिति सूत्रार्थः ॥ १४ ॥ इत्येतावता सिंहविहारिताया निमित्तमुक्तमथ सकलधर्ममूलं सम्यक्त्वस्थैर्यमाह
मूलम्--बायं विविहं समिच्च लोए, सहिए खेदाणुगए अ कोविअप्पा।
पण्णे अभिभूअ सवदंसी, उवसंते अविहेडए स भिक्खू ॥ १५ ॥ व्याख्या-वादं विविधं “मुण्डस्य भवति धर्म-स्तथा जटाभिः सवाससां धर्मः ॥ गृहवासेपि च धर्मो, वनेपि च सतां भवति धर्मः ॥१॥” इत्यादिकदर्शनान्तराभिप्रायरूपं समेत्य ज्ञात्वा लोके, सहितः प्राग्वत् , खस्मै हितः खहित इति वा, खेदयति कर्मानेनेति खेदः संयमस्तेनानुगतः खेदानुगतः, चः पूरणे, कोविदो लब्धसमयरहस्य आत्मा यस्य स कोविदात्मा, 'पण्णे अभिमूअ सबदसीति' प्राग्वत् , उपशान्तो निष्कषायः, अविहेठको न कस्यापि बाधको यः स भिक्षुरिति सूत्रार्थः ॥ १५ ॥ तथा
१ सहितः ज्ञानक्रियाभ्याम् , यद्वा सह हितेन आयतिपथ्येन अनुष्ठानेन वर्तते इति सहितः। २ प्राज्ञो हेयोपादेयबुद्धिमान् , अभिभूय परीपहोपसर्गान् , सर्व प्राणिवर्ग आत्मवत् पश्यतीति सर्वदर्शी ॥
मूलम्-असिप्पजीवि अगिहे अमित्ते, जिइंदिए सबओ विप्पमुक्के ।
अणुकसाई लहुअप्पभक्खी, चिच्चा गिहं एगचरे स भिक्खू ॥ १६ ॥ व्याख्या-अशिल्पजीवी चित्रादिविज्ञानजीविकारहितः, अगृहो गृहरहितः, 'अमित्तेत्ति' उपलक्षणत्वादमित्रशत्रुः, जितेन्द्रियस्तथा सर्वतो बाह्यादाभ्यन्तराच, ग्रन्थादिति गम्यते, विप्रमुक्तः । तथा अणवः खल्पाः कषाया अस्खेति अणुकषायी, लघूनि निःसाराणि निष्पावादीनि अल्पानि च स्तोकानि भक्षितुं शीलमस्येति लघ्वल्पभक्षी । त्यक्त्वा
गृहं द्रव्यभावभेदभिन्नं, एको रागद्वेपरहितश्चरतीत्येकचरो यः स भिक्षुः । इति ब्रवीमीति प्राग्वदिति सूत्रार्थः ॥१६॥ ജയറുകയ
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्या-टि 2 यश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्ती पञ्चदशमध्ययनं सम्पूर्णम् ॥ १५॥ IS