________________
उचराप्पयनस्वम्
॥१५॥ मूलम्-तुम्भेत्थ भो भारधरा गिराणं, अहं न याणाह अहिज वेए ।
__ उच्चावयाई मुणिणो चरंति, ताई तु खित्ताई सुपेसलाई ॥ १५ ॥ बाख्या-यूयं 'इत्यत्ति' अत्र लोके भो इत्यामंत्रणे, भारधरा भारवहा गिरां वाचां प्रक्रमाद्वेदसम्बन्धिनीनां मारह तासां भूयस्त्वमेव, कुतो भारधराः १ इति चेदुच्यते-यतः अर्थमभिधेयं न जानीय, 'अहिजत्ति' अपेर्गम्बवादधीत्यापि वेदान् , अथ चेदर्थ जानीय तदा "न हिंस्यात्सर्वभूतानि" इत्यादिवेदवाचामर्थ विदन्तोपि किमर्षे पशुहिंसात्मकान् यागान् कुरुथ ? तत्करणे तु तत्त्वतो वेदविद्याविदोपि भवन्तो न स्युः, तत्कथं जातिविद्यासम्पनत्वेन क्षेत्रभूताः स्युः ? कानि तर्हि क्षेत्राणि ? इत्याह-'उच्चावयाइंति' उधान्युत्तमानि अवचान्यधमानि उचावचानि, गृहाणीति शेषः, मुनयश्चरन्ति भिक्षार्थ पर्यटन्ति, न तु युष्मद्वत्पचनाद्यारम्भप्रवृत्ताः ! त एव तत्त्वतो वेदार्थ विदन्ति, तत्रापि भिक्षावृत्तेरेव समर्थितत्त्वात् , तथा च वेदान्तानुवादिनः-"चरेन्माधुकरी वृत्ति-मपि म्लेच्छकुलादपि ॥ एकान्नं नैव भुञ्जीत, बृहस्पतिसमादपि ॥१॥" ततस्तान्येव मुनिलक्षणानि क्षेत्राणि सुपेशलानीति सूत्रार्थः ॥ १५ ॥ इत्थमध्यापकं यक्षेणाधिक्षिप्तं वीक्ष्य तच्छात्राः स्माहुः
मूलम्-अज्झावयाणं पडिकूलभासी, पभाससे किं नु सगासि अम्हं ।
__ अवि एअं विणस्सउ अन्नपाणं, न य णं दाहामु तुमं निअंठा ॥ १६ ॥ व्याख्या-अध्यापकानां उपाध्यायानां प्रतिकूलभाषी सन् त्वं प्रभाषसे प्रकर्षण ब्रूषे, किमिति क्षेपे, नुरित्यक्षमायां, ततश्च धिग् भवन्तं, न वयं क्षमामहे यदेवं भवान् ब्रूते सकाशे पार्थेऽस्माकं । अपिः सम्भावने, एतत्प्रत्यक्षं विनश्यतु कुथितादिभावं प्राप्नोतु अन्नपानं, न च नैव 'ण' वाक्यालङ्कारे 'दाहामुत्ति' दास्यामस्तव निर्ग्रन्थ ! निष्किश्वन ! गुरुप्रत्यनीको हि भवानिति भाव इति सूत्रार्थः ॥ १६ ॥ यक्षः स्माह
मूलम्-समईहिं मज्झं सुसमाहिअस्त, गुत्तीहिं गुत्तस्स जिइंदिअस्स ।
___ जइ मे न दाहित्य अहेसणिजं, किमज जण्णाण लहित्थ लाभं ॥ १७ ॥ व्याख्या-समितिभिर्यासमित्यादिभिर्मयं सुसमाहिताय सुष्टुसमाधिमते, गुप्तिभिर्मनोगुप्त्यादिभिर्गुसाय, जितेन्द्रियाय, यदि मे मयं, पूर्वोक्त 'मज्झंति'पदस्य व्यवहितत्वात्पुनर्मे इति ग्रहणमदुष्टं, न दास्यथ, अथेत्युपन्यासे, एषणीयं एषणाविशुद्धमन्नादि तर्हि किं न किंचिदित्यर्थोऽध यज्ञानां 'लहित्थत्ति' सूत्रत्वाल्लप्स्यध्वे प्राप्स्यथ ? लामं पुण्यप्राप्तिरूपं । पात्रदानादेव हि विशिष्टपुण्यप्राप्तिरन्यत्र तु तादृशफलाभावादीयमानस्य हानिरेव । यदुक्तं-"दधिमधुपतान्यपात्रे, क्षिप्तानि यथाशु नाशमुपयान्ति ॥ एवमपात्रे दत्तानि, केवलं नाशमुपयान्ति ॥१॥” इति सूत्रार्थः ॥१७॥ एवं तेनोक्ते यदध्यापकः स्माह तदाह
मूलम्-के इत्थ खत्ता उवजोइआ वा, अज्झावया वा सह खंडिएहिं ।
एअं तु दंडेण फलेण हंता, कंठमि चित्तूण खलेज जो णं ॥ १८॥ व्याख्या के 'इत्यत्ति' अत्रास्मिन् स्थाने क्षत्राः क्षत्रियजातयः, 'उवजोइअत्ति' उपज्योतिषोऽग्निपार्थवर्तिनो महानसिका इत्यर्थः, अध्यापकाः पाठकाः, सर्वत्र वा विकल्पे, 'सहेति' युक्ताः खण्डिकैः छात्रैः सन्तीति शेषः, ये किमित्याह-एतं मुनि दण्डेन यष्टयादिना, फलेन बिल्वादिना, यद्वा दण्डेन कूर्पराभिघातेन, फलेन मुष्टिप्रहारेणेति वृद्धाः, 'हंतत्ति' हत्वा ताडयित्वा, ततश्च कण्ठे गले गृहीत्वा 'खलेजत्ति' स्खलयेयुनिष्काशयेयुः, 'जोत्ति' वचनव्यत्ययात् ये ‘णमिति' वाक्यालङ्कार इति सूत्रार्थः ॥ १८ ॥ तदा च तत्र यदभूत्तदाह
मूलम्-अज्झावयाणं वयणं सुणित्ता, उद्धाइआ तत्थ बहू कुमारा ।
दंडेहिं वेत्तेहिं कसेहिं चेव, समागया तं इसिं तालयंति ॥ १९ ॥ व्याख्या-अध्यापकानां पाठकानां वचनं श्रुत्वा उद्धाविता वेगेन धावितास्तत्र बहवः कुमाराश्छात्रादयः, ते हि अहो! क्रीडनकमागतमिति रभसतो दण्डैवेशदण्डाद्यैर्वेत्रर्जलवंशरूपैः कशैश्चैव वनविकारैः समागता मिलितास्त्र ऋषि मुनि ताडयन्तीति सूत्रार्थः ॥ १९ ॥ तदा च