________________
॥ १७४ ॥
उत्तराध्ययनस्त्रम्
छमता तपखी यतिरिति सूत्रार्थः ॥ १० ॥ इति यक्षेणोक्ते द्विजा एवं स्माहुः
मूलम् - उवक्खर्ड भोअण माहणाणं, अत्तट्ठियं सिद्धमिहेगपक्खं ।
नहु वयं एरिसमन्नपाणं, दाहामु तुग्भं किमिहं ठिओसि ? ॥ ११ ॥
व्याख्या - उपस्कृतं संस्कृतं भोजनं माहनानां ब्राह्मणानां 'अत्तद्विअंति' आत्मार्थे भवं आत्मार्थिकं, ब्राह्मणैरपि स्वयमेव भोज्यं न त्वन्यस्मै देयं किमिति १ यतः सिद्धं निष्पन्नं इह यज्ञे एकः पक्षो ब्राह्मणरूपो यस्य तदेकपक्षं, अयं भावः - यदत्रोपस्क्रियते न तद्ब्राह्मणव्यतिरिक्ताय दीयते, विशेषतस्तु शूद्राय । यत उक्तं- "न शूद्राय मतिं दद्यानोच्छिष्टं न हविः कृतम् ॥ न चास्योपदिशेद्धर्म, न चास्य व्रतमादिशेत् ॥ १ ॥” यतश्चैवमतो न तु नैव वयमीदृशं उक्तरूपं अन्नपानं दास्यामस्तुभ्यं किमिह स्थितोसीति सूत्रार्थः ॥ ११ ॥ यक्षः प्राह
मूलम् - थलेसु बीआई वर्पति कासगा, तहेव निन्नेसु अ आससाए ।
एआइ सद्धाइ दलाहि मज्झं, आराहए पुण्णमिणं खु खित्तं ॥ १२ ॥ व्याख्या - स्थलेपूचभागेषु बीजानि मुद्रादीनि वपन्ति 'कासगत्ति' कर्षकाः कृषीवलाः, तथैव स्थलवदेव निम्नेषु च नीचभूभागेषु 'आससाएत्ति' आसंशया यदि भूयसी दृष्टिस्तदा स्थलेषु फलप्रासिरथ स्तोका तदा निम्नेषु इत्येवंरूपया वाया एतया कर्षकाशंसाकल्पया श्रद्धया 'दलाहित्ति' ददध्वं महां, अयं भावः - यद्यपि यूयं निम्नक्षेत्रतुल्यमात्मानं मन्यध्ये, माञ्च स्थलतुल्यं, तथापि मह्यमपि दातुमुचितं, न चैवं दत्तेपि न फलावाप्तिरिति ध्येयमित्याह - 'आराइए पुण्णमिणं खुत्ति' खुशब्दस्य एवकारार्थस्य भिन्नक्रमत्वादाराधयेदेव साधयेदेव, नात्रान्यथाभावः, पुण्यं शुभमिदं दृश्यमानं क्षेत्रं दानस्थानं, पुण्यसस्यप्ररोहहेतुतया आत्मानमेव एवं स्माहेति सूत्रार्थः ॥ १२ ॥ इति यक्षेणोक्ते ते स्माद्दुः
मूलम् - खेत्ताणि अम्हं विइआणि लोए, जहिं पकिण्णा विरुहंति पुण्णा । जे माणा जाइविजोववेआ, ताइं तु खित्ताइं सुपेसलाई ॥ १३ ॥
व्याख्या - क्षेत्राणि अस्माकं विदितानि ज्ञातानि, सन्तीति शेषः, लोके जगति 'जहिंति' वचनव्यत्ययाद्येषु क्षेत्रेषु प्रकीर्णानि दत्तानि, अशनादीनीति शेषः, विरोहन्ति जन्मान्तरे प्रादुर्भवन्ति पूर्णानि समस्तानि, न चाहमपि तन्मध्यवत्येवेति त्वया ध्येयं, यतो ये ब्राह्मणाः, जातिश्च ब्राह्मणजातिरूपा, विद्या च चतुर्दशविद्यास्थानात्मिका, ताभ्यां 'उबवेअत्ति' उपपेताः अन्विताः जातिविद्योपपेताः, 'ताइं तुत्ति' तान्येव क्षेत्राणि सुपेशलानि शोभनानि, न तु भवादृशानि शूद्रजातीनि विद्याविकलानि । यदुक्तं - "समम श्रोत्रिये दानं द्विगुणं ब्राह्मणत्रुवे ॥ सहस्रगुणमाचार्ये, अनन्तं वेदपारगे ॥ १ ॥” इति सूत्रार्थः ॥ १३ ॥ यक्षः स्माह—
मूलम् — कोहो अ माणो अ वहो अ जेसिं, मोसं अदत्तं च परिग्गहो अ । ते महणा जातिविज्जाविहीणा, ताइं तु खित्ताई सुपावगाई ॥ १४ ॥
व्याख्या — क्रोधश्च, मानश्च च शब्दान्मायालोभौ च वधश्च येषामिति प्रक्रमाद्भवतां ब्राह्मणानां 'मोसंति' मृषा अलीकभाषणं, अदत्तं अदत्तादानं, चशब्दान्मैथुनं च, परिग्रहश्च गोभूम्यादि स्वीकारोस्तीति सर्वत्र गम्यते, ते इति क्रोधाद्युपेता यूयं जातिविद्याविहीनाः । कथमिति चेदुच्यते - क्रियाकर्मविभागेन हि चातुर्वर्ण्यव्यवस्था । यदुक्तं"एकवर्णमिदं सर्व, पूर्णमासीद्युधिष्ठिर ! ॥ क्रियाकर्मविभागेन, चातुर्वर्ण्य व्यवस्थितम् ॥ १ ॥ ब्राह्मणो ब्रह्मचर्येण, यथा शिल्पेन शिल्पिकः ॥ अन्यथा नाममात्रं स्या - दिन्द्रगोपककीटवत् ॥” न चेदृशी क्रिया ब्रह्मचर्यात्मिका कोपाधुपेतेषु युष्मासु तत्वतः सम्भवत्यतो न तावज्जातिसम्भवः, तथा विद्यापि सम्यग्ज्ञानात्मिका न सम्भवत्येव भवत्सु, अज्ञानज्ञापकेषु बालक्रीडाप्रायेष्वग्निहोत्रादिषु प्रवृत्तिदर्शनात् किञ्च सम्यग्ज्ञानस्य फलं विरतिरेव, ज्ञानस्य फलं विरतिरिति वचनात् न च युष्मासु विरतिसम्भवोस्ति, तद्भावे च ज्ञानं सदप्यसदेवेति स्थितं । 'ताई तुत्ति' तुखधारणे भिन्नक्रमश्च ततस्तानि भवद्विदितानि द्विजरूपाणि क्षेत्राणि सुपापकान्येव, न तु सुपेशलानि, कोपादिपापस्थानकलितत्वेनातिशयपापहेतुत्वादिति सूत्रार्थः ॥ १४ ॥ अथ कदाचित्ते ब्रूयुर्वेदविद्याविदो वयं ब्राह्मणजातयश्च तत्कथं जातिविद्याविहीना इत्यब्रवीरित्याह