________________
॥ १६४ ॥
उत्तराध्ययनसूत्रम्
प्राग्वत् । केशपाण्डुरत्वादि जराचिहं, रोगाश्व, यद्यपि गौतमे न सम्भवन्ति, तथापि तन्निश्रयाशेषशिष्यप्रतिबोधार्थत्वाददुष्टमिदमिति सूत्रार्थः ॥ २७ ॥ अथ यथा अप्रमादो विधेयस्तथाह
मूलम् - वुच्छिंद सिणेहमप्पणो, कुमुअं सारइअं वा पाणिअं । से सबसिणेहवजिए, समयं गोअम मा पमायए ॥ २८ ॥
व्याख्या - व्युच्छिद्धि अपनय लेहं मद्विषयमभिष्वङ्गं, आत्मनः स्वस्य, किमिव किं ? कुमुदमिव चन्द्रविकासिकमलfee 'सारइअंति' सूत्रत्वाच्छरदिभवं शारदं, वाशब्द उपमार्थो भिन्नक्रमश्च प्राग् योजितः, पानीयं जलं, ततभ कुमुदं यथा प्रथमं जलमनमपि जलं विहाय वर्त्तते, तथा त्वमपि विरसं सृष्टमपि मद्विषयं स्नेहं छिंद्धि, छित्वा 'से' इति ततः सर्वस्नेहवर्जितः सन् समयमपि गौतम मा प्रमादीः । इह च शारदपदोपादानं शारदजलस्येव स्नेहस्याप्यतिमनोरमत्वसूचनार्थमिति सूत्रार्थः ॥ २८ ॥ किञ्च
मूलम् - चिच्चा धणं च भारिअं पवइओ हि सि अणगारिअं । मावतं पुणोवि आविए, समयं गोयम मा पमायए ॥ २९ ॥
व्याख्या—त्यक्त्वा परिहृत्य धनं चतुष्पदादि च शब्दो भिन्नक्रमस्ततो भार्या च त्यक्त्वा, प्रव्रजितः प्रतिपन्नो हिर्यस्मात् ‘सित्ति' सूत्रत्वादकार लोपे असि वर्त्तसे अनगारितां मुनित्वं, अतो मा वान्तं उद्गीर्ण पुनरपि भूयोपि 'आविपत्ति' आपिबेः । किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ २९ ॥ कथं वान्तापानं न स्यादित्याहमूलम् - अवउज्झिअ मित्तबंधवं, विउलं चेव धणोहसंचयं ।
मा बिइअं गवेसए, समयं गोअम मा पमायए ॥ ३० ॥
व्याख्या—अपोल मुक्त्वा मित्राणि च बान्धवाश्च मित्रबान्धवं विपुलं विस्तीर्ण, चः समुच्चये, एवः पूत, धनस्य कनकादिद्रव्यस्य ओघः समूहः तस्य सञ्चयः कोशो धनौघसञ्चयस्तं, मा तत् मित्रादिकं द्वितीयं पुनः स्वीकारार्थमिति शेषः, गवेषय अन्वेषय । श्रामण्याश्रयणे हि तत्त्यक्तमिति वान्तोपमं भूयोपि तद्भवेषणे च वान्तापानमेव स्यादि· त्यभिप्रायः, किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ ३० ॥ इत्थं ममत्वोच्छेदार्थमुक्त्वा दर्शनशुद्ध्यर्थमाहमूलम् -नहु जिणे अज्ज दीसई, बहुमए दीसई मग्गदेसिए ।
संपइ आउए पहे, समयं गोअम मा पमायए ॥ ३१ ॥
व्याख्या–नहु नैव जिनोऽर्हन् अद्यास्मिन् काले दृश्यते, यद्यपीति गम्यं, तथापि 'बहुमएत्ति' बहुमतः पन्थाः स च द्रव्यतो नगरादिमार्गो भावतस्तु ज्ञानादिरूपो मुक्तिमार्गः, इह च भावमार्ग एव गृसते, ततथ मुक्तिमार्गो दृश्यते । कीदृशः १ इत्याह- ' मग्गदेसिएत्ति' मार्ग्यमाणत्वान्मार्गो मोक्षस्तस्य 'देसिएत्ति' सूत्रत्वाद्देशकः प्रापको मार्गदेशकः । अयं भावः– यद्यप्यधुनार्हन्नास्ति परं तदुपदिष्टो मार्गस्तु दृश्यते । न चेदृशोयमतीन्द्रियार्थदर्शिनं जिनं विना सम्भवतीत्यसन्दिग्धचेतसो भाविनोपि भव्या न प्रमादं विधास्यन्ति, ततः सम्प्रति अधुना सत्यपि मयीति भावः । नैयायिके निश्चितमुक्त्याख्यलाभप्रयोजने पथि मार्गे केवलानुत्पत्तिसंशयेन समयमपि गौतम ! मा प्रमादीरित्थञ्च व्याख्या सूत्रस्य सूचकत्वादीति सूत्रार्थः ॥ ३१ ॥ तथा
मूलम् - अवसोहिआ कंटगापहं, उइण्णोसि पहं महालयं ।
गच्छसि मग्गं विसोहिआ, समयं गोयम मा पमायए ॥ ३२ ॥ व्याख्या — अवशोध्य परिहृत्य 'कण्टगापहंति' आकारोऽलाक्षणिकः, कण्टकाश्च द्रव्यतो बुबूलकण्टकाद्याः, भावतश्वरकादिदर्शनानि, इह च भावकण्टकैरेवाधिकारः, तैराकुलः पन्थाः कण्टकपथस्तं, ततश्च अवतीर्णोसि अनुप्रविटोसि पन्थानं सम्यग्दर्शनादिकं भावमार्ग 'महालयंति' महान्तं, कश्चिदवतीर्णोपि मार्ग न गच्छेदत आह- गच्छसि यासि मार्ग, न पुनः स्थित एवासि, सम्यग्दर्शनादेरुत्सर्पणेन मार्गगमनप्रवृत्तत्वाद्भवतः । किं कृत्वा १ विशोष्य निश्चित्य मार्गमेवेति प्रक्रमः, तदेवं प्रवृत्तः सन् समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ ३२ ॥ उक्ता मार्गतिपत्तिस्तत्प्रत्तिपत्तौ च कस्याप्यनुतापोपि स्यादिति तं निराकर्तुमाह