________________
देवेन्द्रसूरिविरचितस्त्रोपज्ञटीकोपैंतः
पुरिसित्थि तदुभयं पह, अहिलासो जब्बसा हवइ सो उ । श्रीनरनपुवेदओ, फुफुमतणनगरदाहसमो ॥ २२ ॥ प्रतिशब्दः प्रत्येकं योज्यते, पुरुपं प्रति स्त्रियं प्रति तदुभयं प्रति - स्त्रीपुरुषं प्रतीत्यर्थः 'यशा' यत्पारतन्त्र्याद् 'अभिलाष:' वाच्छा 'भवति' जायते, तुशब्दः परस्परापेक्षया पुनरर्थे, स्त्री योषिद नरः- पुरुषः ''नपु" त्ति नपुंसक वेद्यते - अनुभूयते स्त्रीनरनषु वेदस्तस्योदयः स्त्रीगरन'वेदोदयो शेय इति शेषः । फुम्फुमा - करीषम् तृणानि प्रतीतानि नगरं पुरम् कुम्फुमातृणनगराणि तेषां दाहस्तेन समः - तुल्य इति गाथाक्षरार्थः । भावार्थस्त्वयम् यद्वशात् स्त्रियाः पुरुषं प्रत्यभिलापो भवति, यथा पित्तवशाद् मधुरद्रव्यं प्रति स कुम्कुमादाहसमः [ 'यथा `यथा चात्यते तथा तथा ज्वलति 'बृहति च ' एवमचलाऽपि यथा यथा संस्पृश्यते पुरुपेण तथा तथाऽस्या अधिकतरोऽभिलाषो जायते, /अभुज्यमानायां तु च्छन्नकरीपदाहतुल्योऽभिलापो मन्द इत्यर्थः, इति] स्त्रीवेदोदय: १ | यद्वशात् पुरुषस्य स्त्रियं प्रत्यभिलाषो भवति, यथा श्ल ेष्मशादम्लं प्रति स पुनस्तृणदाहसमः [* यथा तृणानां 'दाहे ज्वलनं झटिति विध्यापनं च भवति, एवं पुं वेदोदये स्त्रियाः सेवनं प्रत्युत्युकोऽभिलाषो भवति, निवर्तते च तत्सेवने शीघ्र - मिति* ] नरवेदोदयः २ | यद्वशाद् नपुंसकस्य तदुभयं प्रत्यभिलापो भवति, यथा पित्तश्लेष्मवशात् मज्जिकां प्रति, स पुनर्नगरदाहसमः [* यथा नगरं दद्यमानं महता कालेन द विध्यति च महतैव, एवं नपुंसक वेदोदवेऽपि स्त्रीपुरुषयोः सेवनं प्रत्यभिलापातिरेको महताऽपि कालेन न निवर्तते, नापि सेवने तृप्तिरिति ] नपुं वेदोदयः ३ । अभिहितं वेदत्रिकम्, तदfruit चाभिहितं नवधा नोकपायमोहनीयम्, तदभिधाने च समर्थितं चारित्रमोहनीयमिति ।। २२ ।।
उक्तमष्टाविंशतिविधं चतुर्थं मोहनीयं कर्म, इदानीं पञ्चममायुष्कर्म व्याचिख्यासुराह-सुरनरतिरिनरयाऊ, हरिसरिसं नामकम्म चित्तिसमं ।
बायालतिनवइविहं, तिउत्तरस्यं च सत्तट्ठी ॥ २३ ॥
४४
[ गाथा
आयु:शब्दः प्रत्येकं योज्यते, ततश्च सुष्ठु राजन्त इति सुराः, यद्वा " सुरत् ऐश्वर्यदीप्त्योः” सुरन्ति - विशिष्टमैश्वर्यमनुभवन्ति दिव्याभरणकान्त्या सहजशरीरकान्त्या च दीप्यन्त इति सुराः, यदि वा सुष्ठु रान्ति - ददति प्रणतानामीप्सितमर्थं लवणाधिपसुस्थित इव लवणजलधौ मार्ग जनार्दनस्येति सुराः- देवाः तेषामायुः सुरायुर्येन तेष्ववस्थितिर्भवति १ । नृणन्ति - निश्चिन्वन्ति
१ [ 8 ] एतादृक् सफुल्लिककोःपाती सन्दर्भः क पुस्तके नास्ति, एवमग्रेऽपि ॥ २ व्या फुम्फुमा चा० ख० ॥ ३ दहति च ख० ग० ६० ङ० ॥ ४०वमङ्गनाऽपि ख० ॥ ५ दाघे ख०
ग० ङ० ॥