________________
कर्म विपाकनामा प्रथमः कर्मग्रन्थः ।
★ सिरिलोकबिन्दुसारे १४, सडदुवालस य पयलक्खा || अङ्गबाह्यश्रुतम् आवश्यकदशवैकालिकादि १४ इति ॥६॥ व्याख्यातं चतुर्दशधा श्रुतम् । सम्प्रति विंशतिधा श्रुतं व्याख्यानयन्नाह - पज्जय १ अक्खर २पय ३ संघाया४ पडिवत्ति ५ तह य अणुओगो ६ । पाहुडहुड ७ पाहुड ८ वत्थू ९ पुग्धा १० य ससमासा ||७||
i
पर्यायश्च अक्षरं च पदं च सङ्घातश्च पर्यायाक्षरपदसङ्घाताः । " पडिवत्ति" त्ति प्रतिपत्तिः, प्राकृतत्वात् लुप्तविभक्तिको निर्देशः । तथा च 'अनुयोगः' अनुगद्वारलक्षणः । प्राभृतप्राभृतं च प्राभृतं च वस्तु च पूर्वं च प्राभृतप्राभृतप्राभृतवस्तुपूर्वाणि । प्राकृतत्वाल्लिङ्गव्यत्ययः । यदाह पाणिनिः स्वप्राकृतलक्षणे- "लिङ्गं व्यभिचार्यपि " । 'चः' समुच्चये । एते पर्यायादयः श्रुतस्य दश भेदाः कथम्भूताः ९ इत्याह - "ससमास" त्ति समासः - संक्षेपो मीलक इत्यर्थः, सह समासेन वर्तन्ते स समासास्ततश्च प्रत्येकं सम्बन्धः । तथाहि - पर्यायः पर्याय समासः, अक्षरम् अक्षरसमासः, (पदं पदसमासः, सङ्घातः सङ्घातसमासः, प्रतिपत्तिः प्रतिपत्तिसमासः, अनुयोगः अनुयोगसमासः) प्राभृतप्राभृतं प्राभृतप्राभृतसमासः, प्राभृतं प्राभृतसमासः, वस्तु वस्तुसमासः, पूर्वं पूर्वसमास इति विंशतिधा श्रुतं भवतीति गाथाक्षरार्थः । भावार्थस्त्वयम्पर्यायो ज्ञानस्यांशो विभागः परिच्छेद इति पर्यायाः । तत्रैको ज्ञानांशः पर्यायः, अनेके तु ज्ञानांशाः पर्यायसमासः । एतदुक्तं भवति - लब्ध्यपर्याप्तस्य सूक्ष्मनिगोदजीवस्य यत् सर्वजघन्यं श्रुतमात्रं तस्मादन्यत्र जीवान्तरे य एकः श्रुतज्ञानांशोऽविभागपलिच्छेदरूपो वर्धते स पर्यायः १ ये तु द्व्यादयः श्रुतज्ञानाविभागपलिच्छेदा नानाजीवेषु वृद्धा लभ्यन्ते ते समुदिताः पर्यायसमासः २ | अकारादिलब्ध्यक्षराणामन्यतरदक्षरम् ३ । तेषामेव द्व्यादिसमुदायोऽक्षरसमासः ४ । पदं तु 'अर्थपरिसमाप्तिः पदम्' इत्याद्युक्तिसद्भावेऽपि येन केनचित्पदेनाऽष्टादशपद सहस्रादिप्रमाणा आचारादिग्रन्था गीयन्ते तदिह गृह्यते, तस्यैव द्वादशाङ्गश्रुतपरिमाणेऽधिकृतत्वात्, श्रुतभेदानामेव चेह प्रस्तुतत्वात् । तस्य च पदस्य तथाविधाम्नायाभावात् प्रमाणं न ज्ञायते । तत्रैकं पदं पदमुच्यते ५ | द्व्यादिपदसमुदायस्तु पदसमासः ६ । " " गइ इंदिए य काए" (आ० नि० गा० १४ ) इत्यादिगाथाप्रतिपादितद्वार कलापस्यैकदेशो यो गत्यादिकस्तस्याप्येकदेशो यो नरकगत्यादिस्त जीवादिमार्गणा- - यका क्रियते स सङ्घातः ७ | द्व्यादिगत्याद्यवयवमार्गणा सङ्घातसमासः ८ । गत्यादिद्वाराणामन्यतरैक परिपूर्णगत्यादिद्वारेण जीवादिमार्गणा / प्रतिपत्तिः ९ | द्वारद्वयादिमार्गणा तु प्रतिपत्तिसमासः १० । " " संतपयपरूवणया दव्वपमाणं च " (आ०
७ ]
२१
* श्रीलोकबिन्दुसारे १४ सार्धद्वादश च पदलक्षम् || १ गतिः इन्द्रियं कायः ॥ २ सत्पदप्ररूपणता
द्रव्यप्रमाणं च ।।