________________
६३-६४] शतकनामा पञ्चमः कर्मग्रन्थः ।
१३१ कत्वात् । अतस्तेषु भागा अल्पा लभ्यन्ते इति तेऽपीह नाधिक्रियन्ते । मनुष्यस्याप्यष्टाविंशतिबन्धकस्य भागा बहवो न लभ्यन्ते । त्रिंशद्-एकत्रिंशद्वन्धौ तु देवगतिप्रायोग्यो संयतस्य भवतः, तत्र च वीर्यमल्पं लभ्यते । अन्ये तु देवगतिप्रायोग्यबन्धा एव न सन्तीत्यालोच्य एकोनत्रिशद्वन्धकस्य मनुष्यस्यैव ग्रहणम् । ननु तिर्यक्षु पर्याप्तासंज्ञी देवगतिप्रायोग्यमेतत् प्रकृतिचतुष्टयं बध्नाति स कस्मादिह नाङ्गीकृतः ? उच्यते-प्रभूतयोगत्वात्। अपर्याप्तसंज्ञियोगाद्धि पर्याप्तासंज्ञियोगो जघन्योऽप्यसङ्ख्य यगुण इति । "सुहुमनिगोयाइखणि सेस" ति सूक्ष्मनिगोदजीवोऽपर्याप्तक आदिक्षणे-भवाद्यसमये 'शेषाः' भणितैकादशप्रकृतिभ्योऽवशिष्टा नवोत्तरशतसङ्ख्याः प्रकृतीराश्रित्य सर्वजघन्यवीर्यलब्धियुक्तो यथासम्भवं च बह्वीः प्रकृतीबंध्नन् जघन्यप्रदेशबन्धाः करोति, सर्वासामप्यत्र बन्धसद्भावात् , सर्वजघन्यवीर्यस्य चात्रैव सम्भवादिति ॥९३॥ निरूपितं जघन्यप्रदेशबन्धस्वामित्वम् । अधुना प्रदेशबन्धमेव साद्यादिभङ्गकैर्निरूपयन्नाह
दसणछगभयकुच्छाबितितुरियकसायविग्घनाणाणं ।
मूलछगेऽणुक्कोसो, चउह दुहा सेसि सव्वत्थ ॥९४ ।। दर्शनषट्कं-चक्षुर्दर्शना-ऽचक्षुर्दर्शना-ऽवधिदर्शन--केवलदर्शनावरण-निद्रा प्रचलालक्षणं, भयजुगुप्से "वितितुरियकसाय" त्ति कषायशब्दस्य प्रत्येकं योगाद् द्वितीयकषायाः-अप्रत्याख्यानावरणाः, तृतीयकषायाः-प्रत्याख्यानावरणाः, तुर्या:-चतुर्थाः कषायाः संज्वलनकषायाः, विघ्नानि पञ्चदान-लाभ-भोग-उपभोग-वीर्यान्तरायाख्यानि, ज्ञानानि-ज्ञानावरणानि मतिज्ञानावरणश्रुतज्ञानावरणा--ऽवधिज्ञानावरण-मनःपयोयज्ञानावरण--केवलज्ञानावरणलक्षणानि पञ्च इत्येतासामुत्तरप्रकृतिषु मध्ये त्रिंशतः प्रकृतीनां तथा "मृलछगे" त्ति मूलप्रकृतिषटके-ज्ञानावरण-दर्शनावरण-वेदनीय नाम गोत्रा-ऽन्तरायलक्षणेऽनुत्कृष्ट एव प्रदेशबन्धः "चउह" ति चतुर्धा सादिअनादि-ध्रुवा ऽध्रुवरूपचतुर्विकल्पोऽपि भवतीत्यर्थः । इह तावद् यत्र सर्वबहवः कर्मस्कन्धा गृह्यन्ते स उत्कृष्टः प्रदेशबन्धः, ततः स्कन्धहानिमाश्रित्य यावत् सर्वस्तोककर्मस्कन्धग्रहणं तावत् सर्वोऽप्यनुत्कृष्ट इत्युत्कृष्टाऽनुत्कृष्टप्रकारद्वयेन सर्वोऽपि प्रदेशबन्धः सगृहीतः । यत्र सर्वस्तोककर्मस्कन्धग्रहणं स जघन्यः प्रदेशबन्धः, ततः स्कन्धवृद्धिमाश्रित्य यावत् सर्वबहुस्कन्धग्रहणं तावत् सर्वोऽप्यजघन्य इति जघन्या-ऽजघन्यप्रकारद्वयेन सर्वोऽपि प्रदेशबन्धः सङ्ग्रहीत इति । अनया परिभाषया दर्शनावरणषट्कादीनामुत्तरप्रकृतीनामनुत्कृष्टःप्रदेशबन्धः साद्यादिचतुर्विकल्पो भवति ।
तथाहि--चक्षुर्दर्शनावरणा--ऽचक्षुर्दर्शनावरणा -ऽवधिदर्शनावरण--केवलदर्शनावरणलक्षणप्रकृतिचतुष्कविषयः क्षपकस्योपशमकस्य वा सूक्ष्मसम्परायस्य सर्वोत्कृष्टयोगे वर्तमानस्यैकं द्वौ वा समयौ यावदुत्कृष्टः प्रदेशबन्धः प्राप्यते । सूक्ष्मसम्परायो हिं मोहनीया-ऽऽयुःकर्मद्वयं सर्वथा न