________________
१३०
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[गाथा सर्वजघन्यवीय वर्तमानः प्रस्तुतप्रकृतिचतुष्टयस्यैकं, चतुरो वा समयान् यावद् जघन्यप्रदेशबन्धं करोतीति परमार्थः । पर्याप्तजघन्ययोगस्योत्कृष्टतोऽपि चतुःसमयावसानत्वादुत्तरत्राप्येष कालनियमो द्रष्टव्यः । ननु पर्याप्तसंज्ञी किमिति प्रकृतप्रकृतिचतुष्टयं न बध्नाति ? इति चेद् उच्यते-प्रभूतयोगत्वात् ; जघन्योऽपि हि पर्याप्तसंज्ञियोगः पर्याप्तासंघ्युत्कृष्टयोगादप्यसङ्खये यगुण इति । तथा "सुरविउविदुर्ग" ति द्विकशब्दस्य प्रत्येकं सम्बन्धात् सुरद्विकं-सुरगतिसुरानुपूर्वीरूपं वैक्रियद्विकं-वैक्रियशरीर-वैक्रियाङ्गोपाङ्गलक्षणं 'जिननाम' तीर्थकरनामेत्येतत् प्रकतिपञ्चकं "सम्मो" ति सम्यग्दृष्टिः "व्याख्यानतो विशेषप्रतिपत्तिः" इति न्यायाद् भवाद्यसमये वर्तमानः “जहन्न" ति जघन्य-जघन्यप्रदेशं करोति ।
तथाहि-कश्चिद् मनुष्यस्तीर्थकरनाम बद्धा देवेषु समुत्पन्नः प्रथमममय एव मनुष्यगतिप्रायोग्यां तीर्थकरनामसहितां नामप्रकृतित्रिंशतं मनुष्यगतिर्मनुष्यानुपूर्वी पञ्चेन्द्रियजातिरोदारिकशरीरमौदारिकाङ्गोपाङ्ग समचतुरस्रसंस्थानंवज्रर्षभनाराचसंहननं पराघातमुच्छ्वासं प्रशस्तविहायोगतिस्त्रसं बादरं पर्याप्तं प्रत्येकं स्थिरा-ऽस्थिरयोरेकतरं शुभा-शुभयोरेकतरं यशःकीर्ति-अयश-कीत्यो रेकतरं सुभगं सुस्वरमादेयं तीर्थकरनाम वर्णचतुष्कं तैजस कार्मणे अगुरुलघु उपघातं निर्माणमितिलक्षणां बध्नन् मूलप्रकृतिसप्तविधयन्धकोऽविरतसम्यग्दृष्टिः स्वप्रायोग्यजघन्यवीर्ये वर्तमानस्तीर्थकरनाम जघन्यप्रदेशबन्धं करोति । नारकोऽपि श्रेणिकादिवदेवं तद्वन्धकः सम्भवति, परमिह देवोऽल्पयोगत्वादनुत्तरवासी गृह्यते, नारकेषु त्वेवम्भूतो जघन्ययोगो न लभ्यतेऽतस्तेषु समुत्पन्नो नेह गृहीतः । तियश्चस्तु तीर्थकरनाम न बध्नन्तीत्युपेक्षिताः । मनुष्यास्तु भवाद्यसमये तीर्थकरनामसहितां नाम्न एकोनत्रिंशतमेव बध्नन्त्यतस्तत्राल्पा भागा भवन्ति । एकत्रिंशद्वन्धस्तु तीर्थकरनामसहितः संयतस्यैव भवति, तत्र च वीर्यमल्पं न लभ्यते । अन्येषु तु नामवन्धेषु तीर्थकरनामेव न बध्यतेऽतः शेषपरिहारेण त्रिंशद्वन्धकस्य देवस्यैव ग्रहणम् । देवद्विक-वे क्रियद्विकयोस्तु बद्धतीर्थकरनामा देव-नारकेभ्यश्च्युत्वा समुत्पन्नो मूलप्रकृतिसप्तविधबन्धको देवगतिर्देवानुपूर्वी पञ्चेन्द्रियजातिक्रियशरीरं वक्रियाङ्गोपाङ्ग समचतुरस्रसंस्थानम् उच्छवासं पराघातं प्रशस्तविहायोगतिः त्रसनाम बादरनाम पर्यातनाम प्रत्येकनाम स्थिरा ऽस्थिरयोरेकतरं शुभा-ऽशुभयोरेकतरं यशःकीर्ति-अयशःकीयो रेकतरं सुभगनाम सुस्वरनाम आदेयनाम वर्णचतुष्टयं तैजस-कार्मणे अगुरुलघु उपघातं निर्माणं तीर्थकरनामेतिलक्षणां देवगतिप्रायोग्यां नामैकोनत्रिंशतं निवर्तयन् स्वप्रायोग्यसर्वजघन्यवीर्ये व्यवस्थितो भवाद्यसमये वर्तमानो मनुष्यो जघन्यप्रदेशबन्धं करोति । देवनारका हि तावद् भवप्रत्ययादेवैतत् प्रकृतिचतुष्टयं न बघ्नन्तीति नेहाधिकृताः। तिर्यश्चः पुनरभोगभूमिजा भवाद्यसमयेऽपि बध्नन्त्येतत् , केवलं ते देवगतिप्रायोग्यामष्टाविंशतिमेव पूर्वप्रदर्शितस्वरूपा रचयन्ति, नैकोनत्रिंशदादिबन्धान , तेषां तीर्थकरा-ऽऽहारकसहितत्वात, तिरश्चां तु तदवन्ध