________________
६६
देवेन्द्रसूरिविरचितः स्वोपनटीकोपेतः
[ गाथा द्वितीयादिस्थितिबन्धादारभ्य विशेषाधिकत्वमध्यवसायस्थानानां तावद् नेयं यावदुत्कृष्टः स्वकीयः स्वकीयः स्थितिबन्ध इति । तायुष्केषु स्थितिबन्धे स्थितिबन्धेऽध्यवसायाः कियवृद्धथा भवन्ति ? इत्याह-"आउसु असंखगुण" त्ति आयुःषु चतुर्ध्वप्यसङ्ख्यातगुणिता अध्यवसाया भवन्ति । तद्यथा-आयुष्काणां चतुर्णामपि जघन्यस्थितावसङ्खथे यलोकाकाशप्रदेशप्रमाणा अध्यवसायाः सर्वस्तोकाः, तेषामेव द्वितीयस्थितौ अध्यवसाया असङ्ख्यातगुणाः, तेषामेव तृतीयस्थितावध्यवसाया असङ्ख्यातगुणाः, तेषामेव चतुर्थस्थितावध्यवसाया असङ्ख्यातगुणाः, एवमसङ्ख्यातगुणत्वं तावद् नेयं यावदायुषश्चरमस्थितिरिति ।। ५५ ॥
प्ररूपिताः स्थितिबन्धमाश्रित्य सर्वकर्मणामध्यवसायाः । सम्प्रति यासां प्रकृतीनामेकचत्वारिंशत्सङ्ख्यानां पञ्चेन्द्रियेषु यावन्तं कालमुत्कृष्टतो बन्धो न भवति तास्तत्कालमानप्रदर्शनद्वारेण गाथाद्वयेन प्रतिपादयन्नाह
तिरिनरयतिजोयाणं, नरभवजुय सचउपल्ल तेसह ।
थावरचउइगविगलायवेसु पणसीइसयमयरा ॥५६॥ तिर्यश्चश्च नरकाश्च तेषां "ति" त्ति त्रिकं तच्च "जोय" त्ति उद्योतं च तिर्यङ्-नरकत्रिक-उद्योतानि तेषां तिर्यङ्-नरकत्रिक-उद्योतानाम् । इह त्रिकशब्दः प्रत्येकमभिसम्बध्यते, ततस्तियेत्रिकं-तियग्गति-तियगानुपूर्वी-तिर्यगायुलक्षणम् , नरकत्रिकं-नरकगति-नरकानुपूर्वीनरकायुःस्वरूपम् , उद्योतम् इत्येतासां सप्तप्रकृतीनाम् । किम् ? इत्याह- "नरभवजुय सचउपल्ल तेस?" ति नराणां-मनुष्याणां भवाः-जन्मानि नरभवास्तैयुतं-सहितं नरभवयुतं, विभक्तिलोपश्च प्राकृतत्वात् , सह चतुर्भिः पल्योपमैवर्तत इति सचतुःपल्यं 'तेस?" ति त्रिषष्टयधिक शतमतराणाम् कोऽर्थः १ नरभवयुतं चतुःपल्योपमाधिकं त्रिषष्टयधिकं सागरोपमशतं पञ्चेन्द्रियेषु परमाऽबन्धस्थितिरासां प्रस्तुतसप्तप्रकृतीनां भवतीति द्वितीयगाथोत्तरार्धन सम्बन्धः कार्यः । __अयमभिप्रायः-यदा किल कश्चिद् जन्तुस्विपल्योपमायुप्केषु देवकुर्वादिषु युगलधार्मिकेषु समुत्पन्नस्तत्र चैताः सप्त प्रकृतीने बध्नाति, एता हि नारक-तिर्यक्प्रायोग्या एंव बध्यन्ते, युगलधार्मिकाश्च देवप्रायोग्या एव बध्नन्ति, ततः पर्यन्तान्तमुहूर्ते सम्यक्त्वमासाद्य पल्योपमस्थितिषु देवेषूत्पन्नस्तत्रापि सम्यक्त्वप्रत्ययादेता न बद्धवान् , ततोऽपरिपतितसम्यक्त्वो मनुष्येषत्पद्य दीक्षामनुपाल्य नवमग्रैवेयके त्रिदश एकत्रिंशत्सागरोपमस्थितिकः समुत्पन्नः, ततोऽन्तमुहूर्तोवं मिथ्यात्वं जगाम, अग्रे षट्पष्टिद्वयं सम्यक्त्वकालो वक्तव्यः, स चात्र सम्यक्त्वावस्थाने सति न सङ्गच्छत इति मिथ्यात्वगमनमभिधीयते, तत्र च वर्तमानो मिथ्यादृष्टिरपि भवप्रत्ययादेवताः प्रकृतीने बध्नाति, तदनु पर्यन्तान्तमुहूर्ते सम्यग्दर्शनमवाप्याप्रतिपतितसम्यक्त्वो मनुष्येषूत्पद्य