________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
| गाथा
गुणकारवात्रापि सूक्ष्मक्षेत्रपल्योपमासङ्ख्ये यभागरूपः प्रत्येकं ग्राह्यः । तदत्र जघन्ययोगी जघन्यकर्मप्रदेशग्रहणं जघन्यस्थिति च विदधाति योगवृद्धौ च तद्वृद्धिरपीति स्थितमिति । " एव ठिठाणा" इत्यादि । ' एवं ' मकारस्य लोपः प्राकृतत्वात् पूर्वोक्तयोगप्ररूपणान्यायेन सूक्ष्मैकेन्द्रियादिजीवक्रमेणैव स्थितीनां स्थानानि स्थितिस्थानानि वाच्यानीति शेषः । तत्र जघन्यस्थितेरारभ्य एकैकसमयवृद्ध्या सर्वोत्कृष्टनिज स्थितिपर्यवसाना ये स्थितिभेदास्ते स्थितिस्थानान्युच्यन्ते । कथं पुनरेतानि वाच्यानि ? इत्याह - " अपजेयर संखगुण" त्ति प्रथममपर्याप्तकान् सूक्ष्मबादरे केन्द्रियादीनुद्दिश्य वाच्यानि ततः " इयर" त्ति पर्याप्तकान् सूक्ष्मवादरै केन्द्रियादीनुद्दिश्य वाच्यानीति । कियद्गुणानि पुनरेतानि ? इत्याह-सङ्ख्यगुणानि, तत्र सङ्ख्यानं सङ्ख्या तामह (ती) ति सङ्ख्यः, दण्डादिभ्यो यः इति यप्रत्ययः, ततः सङ्ख्यः - सङ्ख्ये यः सङ्ख्यात इत्यर्थः गुणः - गुणकारो येषां तानि सङ्ख्यगुणानि, सङ्ख्यातगुणितानीत्यर्थः । किं सर्वपदेषु सङ्ख्यातगुणान्येव ? आहोश्चिदस्ति कस्मिंश्चित् पदे विशेषः ९ इत्याह - " परमपजबिए असंखगुण" त्ति 'परं' केवलम् 'अपर्याप्तद्वन्द्रिये अपर्याप्तद्वीन्द्रियपदे तानि स्थितिस्थानानि 'असङ्ख्यगुणानि' असङ्ख्यातगुणितानि वाच्यानि । एतदुक्तं भवति - सूक्ष्मै केन्द्रियस्यापर्याप्तकस्य स्थितिस्थानानि स्तोकानि १ ततो बादकेन्द्रियस्या पर्याप्तस्य स्थितिस्थानानि सङ्ख्यातगुणानि २ ततः सूक्ष्मै केन्द्रियस्य पर्याप्तकस्य स्थितिस्थानानि सङ्ख्यातगुणानि ३ ततो बादरै केन्द्रियस्य पर्याप्तकस्य स्थितिस्थानानि सङ्ख्यातगुणानि, एतानि च पल्योपमासङ्ख्ये यभागसमयतुल्यानि स्थितिस्थानानि भवन्ति, यत एकेन्द्रियाणां जवन्योत्कृष्टस्थित्योरन्तसल मेतावन्मात्रमेवेति ४ ततोऽपर्याप्तस्य द्वीन्द्रियस्य स्थितिस्थानान्यसङ्ख्यातगुणितानि पल्योपमसङ्ख्ये य भागमात्राणीति कृत्वा ५ ततस्तस्यैव द्वीन्द्रियस्य पर्याप्तस्य स्थितिस्थानानि सङ्ख्यातगुणितानि ६ ततस्त्रीन्द्रियस्यापर्याप्तस्य स्थितिस्थानानि सङ्ख्यातगुणितानि ७ ततस्त्रीन्द्रियस्य पर्याप्तस्य स्थितिस्थानानि सङ्ख्यातगुणितानि = ततचतुरिन्द्रियस्यापर्याप्तस्य स्थितिस्थानानि सङ्ख्यातगुणितानि ९ ततः पर्याप्त चतुरिन्द्रियस्य स्थितिस्थानानि सङ्ख्यातगुणितानि १० ततोऽसंज्ञिषञ्चेन्द्रियस्यापर्याप्तस्य स्थितिस्थानानि सङ्ख्यातगुणितानि ११ ततोऽसंज्ञिपञ्चेन्द्रि यस्य पर्याप्तस्य स्थितिस्थानानि सङ्ख्यातगुणानि १२ ततः संज्ञिपञ्चेन्द्रियस्यापर्याप्तस्य स्थितिस्थानानि सङ्ख्यातगुणितानि १३ ततः संज्ञिपञ्चेन्द्रियस्य पर्याप्तस्य स्थितिस्थानानि सङ्ख्यातगुणितानि भवन्ति १४ ॥ ५४॥ स्थापना
६४