________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीको पैत:
[ गांथा
सयोग्यवस्थायाम् औदारिकमिश्रकार्मण काययोगौ 'समुद्घातावस्थायामेव वेदितव्यौ । मिश्रौदारिकयोक्ता, सप्तमपष्ठद्वितीयेषु || ( प्रशम० का० २७६ ) कार्मणशरीरयोगी, चतुर्थके पञ्चमे तृतीये च । (प्रशम० का० २७७ ) इति
२२०
'प्रथमान्तिममनोयोग भगवतोऽनुत्तरसुरादिभिर्मनसा पृष्टस्य मनसैव देशनात् प्रथमान्तिमवाग्योगौ तु देशनादिकाले । अयोगिकेवलिनि न कश्चिद् बन्धहेतुः, योगस्यापि व्यवच्छिन्नत्वात् ॥ ५८ ॥ उक्ता गुणस्थानकेषु बन्धहेतवः । सम्प्रति गुणस्थानकेष्वेव बन्धं निरूपयन्नाह - अपमत्तंना सत्तट्ट मोसअप्पुबायरा सत्त |
बंध छ स्मां एगमुनरिमाऽबंधगाऽजोगी ॥ ५६ ॥
,
+
मिथ्यादृष्टिप्रभृतयोऽप्रमत्तान्ताः सप्ताष्टौ वा कर्माणि बध्नन्ति, आयुर्वन्धकालेऽष्टौ शेषकालं तु सप्त । “मीस अप्पुव्ववायरा” इति मिश्रा पूर्वकरणानिवृत्तिवादराः सप्तैव बध्नन्ति तेषामायुर्वन्धाभावात् । तत्र मिश्रस्य तथास्वाभाव्याद्, इतरयोः पुनरतिविशुद्धत्वाद्, आयुर्वन्धस्य च घोलनापरिणामनिबन्धनत्वात् । “छ स्मुहुमु" त्ति सूक्ष्मसम्परायो मोहनीयायुर्वजनि पट् कर्माणि बध्नाति, मोहनीयबन्धस्य बादरकपायोदयनिमित्तत्वात् तस्य च तद्भावात्, आयुर्वन्धाभावस्त्वतिविशुद्रत्वादवसेयः । "एगमुवरिन" त्ति 'एक' सातावेदनीयं कर्म ' उपरितनाः' सूक्ष्मसम्परायाद् उपरिष्टाद्वर्तिन उपशान्तमोहक्षीण मोहसयोगिकेवलिनो बध्नन्ति, न शेषकर्माणि तद्बन्धहेतुत्वाभावात् । 'अबन्धकः' सर्वकर्मप्रपञ्चबन्धरहितः 'अयोगी' चरमगुणस्थानकवर्ती' सर्वबन्धहेतुत्वाभावादिति ।। ५९ ।। उक्ता गुणस्थानकेषु बन्धस्थान योजना साम्प्रतं गुणस्थानकेष्वेवोदयसत्तास्थान योजनां निरूपयन्नाह-
आसुमं संतुदए, अट्ठ वि मोह विणु सत्त खीणम्मि । च चरिमदुगे अट्ठ उ, संते उवसंति सत्तुदए ॥ ६० ॥
1
सूक्ष्मसम्पराय गुणस्थानकमभिव्याप्य सत्तायामुदये चाष्टावपि कर्मप्रकृतयो भवन्ति । अयमर्थः -- मिथ्यादृष्टिगुणस्थानकमारभ्य / सूक्ष्मसम्परायं यावत् सत्तायामुदये चाष्टावपि कर्माणि प्राप्यन्ते । 'मोहं विना' मोहनीयं वर्जयित्वा सप्त कर्मप्रकृतयो भवन्ति 'क्षीणे' क्षीणमोहगुणस्थानके, सत्तायामुदये च मोहनीयस्य क्षीणत्वात् । " चउ चरिमदुगे" त्ति 'चरमद्विके' सयोग्ययोगिकेवलिगुणस्थानद्वये सत्तायामुदये च चतस्त्रोऽघातिकर्मप्रकृतयो भवन्ति, तत्र घातिकर्मचतुष्टयस्य क्षीणत्वात् । "अड्ड उ संते उवसंति सत्तदए" ति तुशब्दस्य व्यवहितसम्बन्धाद्
१ सयोग्यवस्था० क० ख० ग० ६० ङ० ॥