________________
५४-५८ ]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
२१९
क्षितेत्यदोषः । एतच्च बृहच्छतक बृहच्चूर्णिमनुसृत्य लिखितमिति न स्वमनीषिका परिभावनीया । तथाऽप्रत्याख्यानावरणोदयस्याऽस्य निषिद्धत्वाद् इत्यप्रत्याख्यानावरणचतुष्टयं न घटां प्राञ्चति । तत एते सप्त पूर्वोक्तायाः षट्चत्वारिंशतोऽपनीयन्ते तत एकोनचत्वारिंशद् पन्धहेतवः शेषा देशविरते भवन्ति । तथा पविंशतिर्बन्धहेतवः प्रमत्ते भवन्ति । "साहारदु" ति सह आहारद्विकेनआहारकाहारकमिश्रलक्षणेन वर्तत इति साहारकद्विका ॥ ५६ ॥
अविरह इगार तिकसायवज्ज अपमत्ति मोसदुगरहिया । चवीस अपुव्वे पुण, दुवीस अविउब्वियाहारा ॥ ५७||
त्रसाविरतेशविरतेऽपनयनात् शेषा एकादशाविरतय इह गृह्यन्ते, तृतीयाः कषायास्त्रि कुपायाः-प्रत्याख्यानावरणास्तद्वर्जाः तद्विरहिता साहारकद्विका च सैव एकोनचत्वारिंशत् पविंशतिभवति । इदमत्र हृदयम् — प्रमत्तगुणस्थान एकादशधा अविरतिः प्रत्याख्यानावरणचतुष्टयं च न सम्भवति, आहारकद्विकं च सम्भवति, ततः पूर्वोक्ताया एकोनचत्वारिंशतः पञ्चदशकेपनीते द्विके च तत्र प्रक्षिप्ते षड्विंशतिर्बन्ध हेतवः प्रमत्ते भवन्तीति । तथा अप्रमत्तस्य लब्ध्यनुपजीवनेनाऽऽहारकमिश्रवैक्रियमिश्रलक्षणमिश्रद्विकरहिता सैव पविंशतिश्चतुर्विंशतिर्बन्ध हेतवोऽप्रमत्ते भवन्ति । 'अपूर्वे' अपूर्वकरणे पुनः सैव चतुर्विंशतिर्वै क्रियाहार करहिता 'द्वाविंशतिर्बन्धहेतवो भवन्तीति ।। ५७ ।
अछहास सोल वायरि, सुहुमे दस वेयसंजलणति विणा । खीणुवसंति अलोभा, सजोगि पुव्वुत्त सग जोगा ॥ ५८ ॥
एते च पूर्वोक्ता द्वाविंशतिर्बन्ध हेतवः 'अछहासाः ' / हास्यरत्यरतिशोकभयजुगुप्सालक्षणहास्यषट्करहिताः पोडश बन्धहेतवः “बायरि" त्ति अनिवृत्तिवादरसम्परायगुणस्थानके भवन्ति, हास्यादिषट्कस्यापूर्वकरणगुणस्थानक एवं व्यवच्छिन्नत्वादिति भावः । तथा त एव पोडश त्रिकशब्दस्य प्रत्येकं सम्बन्धाद् वेद त्रिकं स्त्रीषु' नपुंसकलक्षणं सज्ज्वलनत्रिकं सज्ज्वलन क्रोधमानमायारूपं तेन विना दश बन्धहेतवः सूक्ष्मसम्पराये भवन्ति, वेदत्रयस्य सज्ज्वलनक्रोधमानमायात्रिकस्य चानिवृत्तिवादरसम्परायगुणस्थानक एव व्यवच्छिन्नत्वात् । त एव दश 'अलोभाः ' लोभरहिताः सन्तो नव बन्धहेतवः क्षीणमोहे उपशान्तमोहे च भवन्ति, मनोयोगचतुष्कवाग्योगचतुष्कौदारिककाययोगलक्षणा नव बन्धहेतव उपशान्तमोहे क्षीणमोहे च प्राप्यन्ते, न तु लोभः, तस्य सूक्ष्मसम्पराय एवं व्यवच्छिन्नत्वात् । सयोगिकेवलिनि पूर्वोक्ताः सप्त योगाः, तथाहि - औदारिकमौदारिकमिश्रं कार्मणं प्रथमान्तिमौ मनोयोगौ प्रथमान्तिमौ वाग्योगों चेति । तत्रैौदारिकं